अथ त्रयोदशः पटलः
श्री देव्युवाच –
परब्रह्मतया साक्षाच्छ्रीविद्या षोडशाक्षरी ।
कथय त्वं महादेव यद्यहं तव वल्लभा ॥ १३-१ ॥
त्रिकूटाः कथिताः सर्वाश्चतुष्कूटा च शाङ्करी ।
षट्कूटा वैष्णवी चैव मनवः कथिता विभो ॥ १३-२ ॥
एतास्तु सकला विद्यास्रिविधास्तु श्रुता मया ।
इदानीं श्रोतुमिच्छामि श्रीविद्यां षोडशाक्षरीम् ॥ १३-३ ॥
ईश्वर उवाच –
शठत्वेन वरारोहे श्रीविद्यामन्त्रविद्बुधः ।
योगिनीनां भवेद्भक्ष्यः श्रीगुरोः शासनात्प्रिये ॥ १३-४ ॥
षोडशार्णां महाविद्यां न दद्यात्कस्यचित् प्रिये ।
राज्ञे राज्यप्रदायापि पुत्राय प्राणदाय वा ॥ १३-५ ॥
देयं तु सकलं भद्रे साम्राज्यमपि पार्वति ।
शिरोऽपि प्राणसहितं न देया षोडशाक्षरी ॥ १३-६ ॥
उच्चार्यमाणा ये मन्त्रास्ते सर्वे वाचिकाः प्रिये ।
उच्चाररहितं वस्तु श्रीविद्या षोडशाक्षरी ॥ १३-७ ॥
सवर्णाऽपि वरारोहे वस्तु साक्षान्निरक्षरम् ।
भृङ्गोपभुक्तपुष्पं तु शिवे योग्यं यथा भवेत् ॥ १३-८ ॥
तथा निरक्षरं वस्तु ह्यक्षरैरपि संयुतम् ।
उदके लिखितं यद्वन्मन्त्रोच्चारस्तथा भवेत् ॥ १३-९ ॥
भोगमोक्षप्रदा विद्या श्रीविद्या षोडशाक्षरी ।
विना गुरूपदेशेन शापो भवति निश्चयात् ॥ १३-१० ॥
चन्द्रान्तं वारुणान्तं च शक्रादिसहितं पृथक् ।
वामाक्षि बिन्दुनादाढ्यं विश्वमातृकलात्मकम् ॥ १३-११ ॥
चतुवीधप्रकारेण शृणु देवि प्रकथ्यते ।
त्वं मनोहारिणी यस्मात्कथ्यते भुवि दुर्लभम् ॥ १३-१२ ॥
विद्यादौ योजयेद्देवि साक्षाज्जाग्रत्स्वरूपिणी ।
उत्पत्तिर्जागरो बोधो व्यावृत्तिर्मनसः सदा ॥ १३-१३ ॥
कलाचतुष्टयं जाग्रदवस्थायां व्यवस्थितम् ।
जाग्रत्सत्त्वगुणा प्रोक्ता केवलं शक्तिरूपिणी ॥ १३-१४ ॥
त्रिकूटा सकला भेदाः पञ्चकूटा भवन्ति हि ।
वैष्णवी वसुकूटा स्यात्षट्कूटा शाङ्करी भवेत् ॥ १३-१५ ॥
द्वितीयोऽयं प्रकारः स्याद्दुर्लभो भुवनत्रये ।
एषैव शिवरूपा तु व्यापकत्वात्सुरेश्वरि ॥ १३-१६ ॥
निश्चला सर्वभूतेषु सदाशिवमयी परा ।
सुषुप्तिरूपिणी साक्षाद्ब्रह्मरूपा यतः प्रिये ॥ १३-१७ ॥
मरणं विस्मृतिर्मूर्छा निद्रा च तमसा वृता ।
सुषुप्तिस्तु कला ज्ञेया सुषुप्तिः शिवरूपिणी ॥ १३-१८ ॥
केवलत्वेन जाग्रत्स्यात्पञ्चकूटा च शाम्भवी ।
सुषुप्त्यन्ते जागरादौ स्वप्नावस्था रजोमयी ॥ १३-१९ ॥
अभिलाषो भ्रमश्चिन्ता विषयेषु पुनः स्मृतिः ।
कलाचतुष्टयं स्वप्नावस्थायां तु विधीयते ॥ १३-२० ॥
शिवरूपा शक्तिरूपा महात्रिपुरदेवता ।
वेदादिमण्डिता देवि शिवशक्तिमयी सदा ॥ १३-२१ ॥
सप्त भेदास्तु सकलाः षट्कूटाः परमेश्वरि ।
वैष्णवी नवकूटा स्यात्सप्तकूटा च शाङ्करी ॥ १३-२२ ॥
अस्याः स्मरणमात्रेण गजदानं शतं भवेत् ।
भेदत्रयं तु कथितं तूर्यां विद्यां शृणु प्रिये ॥ १३-२३ ॥
यस्या विज्ञानमात्रेण ब्रह्म साक्षान्न संशयः ।
सुषुप्त्यादौ जागरान्ते स्फुरत्तामात्रलक्षणा ॥ १३-२४ ॥
अवस्थाशेषतां प्राप्ता तुर्या तु परमा कला ।
भावाभावविनिर्मुक्ता गुणातीता निगद्यते ॥ १३-२५ ॥
वैराग्यं च मुमुक्षत्वं शमादि विमलं मनः ।
सदसद्वस्तुनिर्धारस्तुर्यायास्तु कला इमाः ॥ १३-२६ ॥
आद्यबीजद्वयं भद्रे विपरीतक्रमेण हि ।
विलिख्य परमेशानि ततोऽन्यानि समुद्धरेत् ॥ १३-२७ ॥
अन्तर्मुखा वरारोहे कुमारी त्रिपुरेश्वरी ।
एभिस्तु पञ्चसङ्ख्याकैर्बीजैः सम्पुटिता यजेत् ॥ १३-२८ ॥
षट्कूटा परमेशानि विद्येयं षोडशाक्षरी ।
त्रिकूटा सकला भद्रे षोडशार्णा भवन्ति हि ॥ १३-२९ ॥
वैष्णव्येकोनविंशार्णा शैवी सप्तदशाक्षरी ।
वक्त्रकोटिसहस्रैस्तु जिह्वाकोटिशतैरपि ॥ १३-३० ॥
वणीतुं नैव शक्येयं श्रीविद्या षोडशाक्षरी ।
वैष्णवी पञ्चमी चैव कः शक्तो गुणवर्णने ॥ १३-३१ ॥
यतो निरक्षरं वस्तु परा तत्र तु कारणम् ।
मूकीभूता हि पश्यन्ति मध्यमा मध्यमा भवेत् ॥ १३-३२ ॥
ब्रह्मविद्यास्वरूपेण भुक्तिमुक्तिफलप्रदा ।
एकोच्चारेण देवेशि वाजपेयस्य कोटयः ॥ १३-३३ ॥
अश्वमेधसहस्राणि प्रादक्षिण्यं भुवस्तथा ।
काश्यादितीर्थयात्राश्च सार्धकोटित्रयान्विताः ॥ १३-३४ ॥
तुलां नार्हन्ति देवेशि नात्र कार्या विचारणा ।
एकोच्चारेण गिरिजे किं पुनर्ब्रह्म केवलम् ॥ १३-३५ ॥
षोडशार्णा महाविद्या न प्रकाश्या कदाचन ।
गोपितव्या त्वया भद्रे स्वयोनिरिव पार्वति ॥ १३-३६ ॥
शिवशक्तिसमायोगाद्यद्यत्कर्म प्रजायते ।
वेद्यं तन्न भवेत्तद्वच्छ्रीविद्यां षोडशाक्षरीम् ॥ १३-३७ ॥
विना गुरूपदेशेन श्रीविद्या षोडशाक्षरी ।
दृष्ट्वा प्रजपते यस्तु स भक्ष्यो योगिनीगणैः ॥ १३-३८ ॥
श्रीगुरोः कृपया लब्धा सर्वसाम्राज्यदायिनी ।
भुवनत्रयसौभाग्यं ददाति विपुलां श्रियम् ॥ १३-३९ ॥
साक्षान्मदनसौभाग्यं त्रैलोक्याकर्षणक्षमम् ।
सुधातरङ्ङ्गिणीवेयं शब्दचातुर्यदायिनी ॥ १३-४० ॥
सौभाग्यभाग्यसम्पन्नकलापटलदायिनी ।
परब्रह्मणि लीनत्वं ददाति यश उत्तमम् ॥ १३-४१ ॥
प्रपञ्चसागरे लीनानुद्धरेद्वेदमातृका ।
यस्याः सामर्थ्यतो देवि भुवनानि चतुर्दश ॥ १३-४२ ॥
अभूवन्परमेशानि तेषां कारणरूपिणी ।
चतुःसागरसामर्थ्यं कृपालोकनतो भवेत् ॥ १३-४३ ॥
ब्रह्माण्डकोटिजननी महामोक्षप्रदायिनी ।
निःसरन्ति महामन्त्रा विस्फुलिङ्गा यथा प्रिये ॥ १३-४४ ॥
वह्नेः सकाशाद् बहवो विद्यास्तु बहवस्तथा ।
वाग्भवात्तु समुत्पन्नास्तस्माद्वाग्भवमुच्यते ॥ १३-४५ ॥
मातृकार्णास्तथा भद्रे वाग्भवान्निसृताः क्रमात् ।
अत एव महेशानि शब्दब्रह्ममयी प्रिये ॥ १३-४६ ॥
पालयन्ती जगत्सर्वं तथा त्रैलोक्यमोहिनी ।
मोहयन्ती कामकला पुत्रपौत्रप्रवधीनि ॥ १३-४७ ॥
स्रीपुम्भावेन सकलं ग्रथितं कामसूत्रके ।
तदा सौभाग्यसम्पन्ना ब्रह्मस्थाननिवासिनी ॥ १३-४८ ॥
सौभाग्यगर्वगहना विश्वयोनिरितीरिता ।
चतुर्वाङ्मयनिष्ठेयं त्रैलोक्यवशकारिणी ॥ १३-४९ ॥
साक्षात्संविन्मयी ज्ञानरूपिणी भोगदायिनी ।
महासम्पत्प्रदा नित्या साक्षादक्षररूपिणी ॥ १३-५० ॥
षोडशार्णा मया भद्रे श्रीविद्या कथिता परा ।
निधानमिव चोरेभ्यो रक्षणीया तथा प्रिये ॥ १३-५१ ॥
न देया यस्य कस्यापि देया प्राणप्रदायिने ।
निर्मलाय स्वभक्ताय प्राणेभ्योऽप्यधिकाय च ॥ १३-५२ ॥
इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे षोडशीविद्याविवरणं नाम त्रयोदशः पटलः ॥
१३ ॥