अथ द्वादशः पटलः
श्री देव्युवाच –
एतस्या देवदेवेश भेदान् कथय सुन्दर ।
केन केनोपासितेयं विशदी कुरु तत्त्वतः ॥ १२-१ ॥
ईश्वर उवाच–
शृणु देवि प्रवक्ष्यामि लोपामुद्राभिधां वराम् ।
कामराजाख्यविद्यायाः शक्तिं तुर्यां च सुन्दरि ॥ १२-२ ॥
हित्वा मुखे शिवेन्द्वाढ्या लोपामुद्रा प्रकाशिता ।
अगस्त्योपासिता विद्या त्रैलोक्यक्षोभकारिणी ॥ १२-३ ॥
एषा विद्या कामराजपूजितैव न संशयः ।
विद्याद्वयमिदं भद्रे दुर्लभं भुवनत्रये ॥ १२-४ ॥
कामराजाख्यविद्याया वाग्भवेन वरानने ।
विद्योद्धारं प्रवक्ष्यामि शक्तिमादनमध्यगम् ॥ १२-५ ॥
शिवं कुर्याद्वाग्भवे तु शिवाद्यं कामराजकम् ।
चन्द्राद्यं तु तृतीयं स्याद्विद्येयं मनुपूजिता ॥ १२-६ ॥
सहाद्यं वाग्भवं देवि चन्द्राद्यं शिवमध्यगम् ।
मादनं कामराजे तु शक्तिबीजं सहाननम् ॥ १२-७ ॥
चन्द्राराधितविद्येयं भोगमोक्षफलप्रदा ।
हसाद्यं वाग्भवं विद्धि शिवाद्यं सहमध्यगम् ॥ १२-८ ॥
मादनं कामराजे तु तार्तीयं शृणु पार्वति ।
हसाद्यं शक्तिबीजं तु कुबेरेण प्रपूजिता ॥ १२-९ ॥
कामराजाख्यविद्यायास्तार्तीयं सुरवन्दिते ।
शक्तिबीजं सहाद्यं स्याद्विद्याऽगस्त्यप्रपूजिता ॥ १२-१० ॥
लोपामुद्रा प्रभावेन् साक्षाद्ब्रह्मस्वरूपिणी ।
कामराजाख्यविद्याया वाग्भवे मादनं त्यज ॥ १२-११ ॥
चन्द्रं तत्रैव संयोज्य कामराजे ततः परम् ।
हित्वा चन्द्रं मुखे कुर्याद्विद्येयं नन्दिपूजिता ॥ १२-१२ ॥
कामराजाख्यविद्याया हित्वा भूमिं तृतीयके ।
शक्तिकण्ठे स्थितां देवि चन्द्राधः कुरु तत्र च ॥ १२-१३ ॥
इन्द्राराधितविद्येयं भुक्तिमुक्तिफलप्रदा ।
लोपामुद्राख्यविद्याया द्वितीयाया महेश्वरि ॥ १२-१४ ॥
कामराजे भृगुं हित्वा तार्तीये शक्रगः शिवः ।
एषा विद्या वरारोहे त्रिपुरा सूर्यपूजिता ॥ १२-१५ ॥
शृणु देवि प्रवक्ष्यामि चतुष्कूटां च शाङ्करीम् ।
लोपामुद्रां द्वितीयां तु विलिख्य सुरवन्दिते ॥ १२-१६ ॥
पुनवीलिख्य तामेव चतुर्थे पञ्चमे स्थिताम् ।
हित्वा तु भुवनेशानीमेकोच्चारेण प्रपूजिता ॥ १२-१७ ॥
चतुष्कूटा महाविद्या शङ्करेण प्रपूजिता ।
लोपामुद्रां पुनर्देवि विलिख्य तदनन्तरम् ॥ १२-१८ ॥
नन्दिकेश्वरविद्यां च षट्कूटा वैष्णवी भवेत् ।
दुर्वाससा पुरा देवि निष्कूटा पूजिता परा ॥ १२-१९ ॥
कामराजाख्यविद्यायास्रिकूटेषु वरानने ।
या स्थिता भुवनेशानि द्विधा कुरु महेश्वरी ॥ १२-२० ॥
बिन्दुहीना नादहीना दुर्वासःपूजिता भवेत् ।
एतैर्द्वादशसङ्ख्याकैर्मन्त्रैस्तु सुरवन्दिते ॥ १२-२१ ॥
द्वादशान्ता स्थिता देवि परब्रह्मस्वरूपिणी ।
राज्ञीयं सर्वविद्यानां सर्वाम्नायैस्तु सेविता ॥ १२-२२ ॥
सर्वागममहामन्त्रवन्दिता देववन्दिता ।
सर्वयोगैर्नता नित्या केवलं ब्रह्मरूपिणी ॥ १२-२३ ॥
एवं त्रिधा महाविद्या विद्या त्रिपुरसुन्दरी ।
इयमेव महादेवी त्रिकूटा परमेश्वरी ॥ १२-२४ ॥
वक्तुं न शक्यते सर्वैर्ब्रह्मविष्ण्वादिभिः सदा ।
नो वाचा मनसा बुद्ध्या तुर्या वक्तुं न शक्यते ॥ १२-२५ ॥
साक्षाद्ब्रह्ममयी देवी षोडशार्णस्वरूपिणी ।
मनसैव महेशानि स्मृत्वाऽहं तु सदाशिवः ॥ १२-२६ ॥
इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे त्रिपुरसुन्दरी (विद्याविवरणं
नाम) द्वादश पटलः ॥ १२ ॥