अथैकादशः पटलः
ईश्वर उवाच –
एभिर्वर्णैस्तु देवेशि त्रिपुरा कथ्यतेऽधुना ।
नवाक्षरो महामेरुरयं ब्रह्माण्डगोलकः ॥ ११-१ ॥
चतुरस्रं च कोदण्डं त्रिकोणं तत्पुटं मुखम् ।
निरालाम्बं तवाऽऽख्यातमेतद्ब्रह्माण्डमण्डलम् ॥ ११-२ ॥
लकारश्चतुरस्रं स्यात्पृथ्वीबीजतया प्रिये ।
अर्धमात्रा तु कोदण्डं स्रवत्पीयूषवषीणी ॥ ११-३ ॥
त्रिकोणरूपी वह्निः स्यात्त्रिकोणत्वात्परा शिवा ।
एकारश्च रकारश्च ईकारश्च त्रयं भवेत् ॥ ११-४ ॥
मायाविकाररूपेण षट्कोणाश्रयरूपिणी ।
हकारो व्योमरूपत्वाद् बिन्दुश्च मुखमण्डले ॥ ११-५ ॥
इच्छारूपेण कामस्तु सर्वत्र परमेश्वरि ।
तस्मान्मादनव्याख्यातमेतद्वै मेरुमण्डलम् ॥ ११-६ ॥
शृणु देवि प्रवक्ष्यामि बीजं कामेश्वरीमतम् ।
सकला भुवनेशानि कामेशीबीजमुत्तमम् ॥ ११-७ ॥
अनेन सकला विद्याः कथयामि विशेषतः ।
शक्त्यर्णस्तुर्यवर्णोऽंयं कलमध्ये सुलोचने ॥ ११-८ ॥
वाग्भवं पञ्चवर्णं तु कामराजमथोच्यते ।
मादनं शिवचन्द्राद्यं शिवान्तं मीनलोचने ॥ ११-९ ॥
कामराजमिदं भद्रे षड्वर्णं सर्वमोहनम् ।
शक्तिबीजं वरारोहे चन्द्राद्यं सर्षसिद्धिदम् ॥ ११-१० ॥
चतुरक्षररूपं तु त्र्यक्षरी त्रिपुरा परा ।
सर्वतीर्थमयी देवि सर्वदेवस्वरूपिणी ॥ ११-११ ॥
सर्वशास्रमयी विद्या सर्वयोगमयी परा ।
सर्वयज्ञमयी संवित्सर्वज्ञानस्वरूपिणी ॥ ११-१२ ॥
सर्वदेवमयी साक्षात्सर्वसौभाग्यसुन्दरी ।
एनामुपास्य देवेशि कामः सर्वाङ्गसुन्दरः ॥ ११-१३ ॥
कामराजो भवेद्देवि नित्येयं ब्रह्मरूपिणी ।
इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे एकादशः पटलः ॥ ११ ॥