१०

अथ दशमः पटलः

श्री देव्युवाच –

त्रिपुरा द्विविधा देव भवता प्रकटी कृता ।
त्रिविधेति यदुक्तं तत्प्रकटी कुरु शङ्कर ॥ १०-१ ॥

ईश्वर उवाच –

परं ब्रह्मस्वरूपं यन्नादबिन्दुत्रयात्मकम् ।
शिवशक्तिमयं तत्तु कथयामि तवानघे ॥ १०-२ ॥
व्याप्य तिष्ठति विश्वं सा शिवं च परमेश्वरि ।
पूर्वं गुणैस्तु कथिता शिवशक्त्यात्मकं शणु ॥ १०-३ ॥
हकारादिसकारान्ता मातृका शक्तिरव्यया ।
हकारः परमेशानि केवलं शिव उच्यते ॥ १०-४ ॥
आद्यन्ताक्षरभावेन तदाऽहं सकलात्मकः ।
यदुच्यते मातृकार्णैस्तत्सर्वमहमीश्वरि ॥ १०-५ ॥
हकारः परमेशानि शून्यरूपी सदाऽव्ययः ।
सकारः शक्तिरूपत्वात्परावाची विसर्गवान् ॥ १०-६ ॥
उत्पत्तेः कारणं यस्माच्छक्तिरित्यभिधीयते ।
आत्मानं दर्शयेद्योगः सोऽहंशब्देन सुन्दरि ॥ १०-७ ॥
बिन्दुत्रयसमायोगान् महात्रिपुरसुन्दरी ।
नादरूपेण सा देवी हकारार्धस्वरूपिणी ॥ १०-८ ॥
हकारः परमेशानि शिवरूपी यतस्तदा ।
तस्यार्धाङ्ङ्गं महाशक्तिर्हकारार्धस्वरूपिणी ॥ १०-९ ॥
अत एव महाविद्या महात्रिपुरसन्दरी ।
नित्येति कथ्यते देवि चित्कला परमेश्वरी ॥ १०-१० ॥
श्रीगुरोः कृपया भद्रे सम्प्रदायकुलान्वितः ।
प्रातरुत्थाय देवेशि गुरुं नत्वा स्वनामभिः ॥ १०-११ ॥
सन्ध्यास्नानादिकं देवि विधाय मनुवित्तमः ।
सर्वशृङ्गारवेषाढ्यः कर्पूरघुसृणादिभिः ॥ १०-१२ ॥
महार्हैश्चन्दनाद्यैश्च दीप्ताङ्गः कुङ्कुमारुणः ।
नवरत्नविभूषाढ्यो रक्ताम्बरविराजितः ॥ १०-१३ ॥
ताम्बूलरागवदनो मदिरानन्दमानसः ।
यागमन्दिरमागत्य लाक्षाचित्रविचित्रितम् ॥ १०-१४ ॥
अनेकधूपबहलं पुष्पप्रकरपूरितम् ।
गोमयेन च संलिप्तं चारुपुष्पवितानितम् ॥ १०-१५ ॥
मनोहरे मृदुश्लक्ष्ण आसने उपविश्य तु ।
मन्त्रोद्धारं प्रकुर्वीत सर्वकार्यार्थसिद्धये ॥ १०-१६ ॥
आद्यं वाग्भवमुच्चार्य कामराजं द्वितीयकम् ।
कुमार्यास्तु तृतीयं तु त्रिपुरा परमेश्वरी ॥ १०-१७ ॥
करशुद्धिकरी विद्या प्रथमा परमेश्वरि ।
कुमारी तु द्वितीया स्यात्त्रिपुरेशी महेश्वरि ॥ १०-१८ ॥
त्रिपुरेश्यादिमं त्यक्त्वा भुवनेशीं परिक्षिपेत् ।
अनयाऽऽत्मासनं दद्यात्त्रिपुरेश्या षडङ्गकम् ॥ १०-१९ ॥
त्रिपुरेशी महेशानि त्रिबीजा हस्थिता यदा ।
चक्रासनगतां देवि विद्धि त्रिपुरवासिनीम् ॥ १०-२० ॥
त्रिपुरेशी महेशानि वाग्भवे कामराजके ।
शिवचन्द्रसमायुक्ता तार्तीये शिवरूपिणी ॥ १०-२१ ॥
सर्वमन्त्रासनगता त्रिपुरा श्रीरियं प्रिये ।
आत्मासनगतायास्तु हित्वा तार्तीयमद्रिजे ॥ १०-२२ ॥
ब्लेमात्मकमारोप्य साध्यसिद्धासनस्थिता ।
(त्रिपुरामालिनी प्रोक्ता सिद्धाख्यां त्रिपुरां शृणु ॥ १०-२३ ॥
भुवनेशी श्रिया युक्ता कुमारी च तथोत्तमा ।
मूतीविद्या समुद्दिष्टा माया लक्ष्मीः परास्थिता ॥ १०-२४ ॥
अनया विद्यया देवि यजेत्त्रिपुरसिद्धिकाम्।) ।
मायालक्ष्म्योस्तु बीजे द्वे शक्तिबीजं तृतीयकम् ॥ १०-२५ ॥
त्रिपुराद्या त्र्यम्बिकेयमष्टमी परिकीतीता ।
सम्पत्प्रदा भैरवी या तस्यास्तार्तीयबीजके ॥ १०-२६ ॥
बिन्दुं हित्वा तत्र सर्गं निक्षिपेत्सुरसुन्दरि ।
अनयाऽऽवाहनं देवि कारयेत्सुरवन्दिते ॥ १०-२७ ॥
मूतीविद्या समुद्दिष्टा माया लक्ष्मीः परा स्थिता ।
अनया विद्यया देवि यजेत्त्रिपुरसिद्धिदा {म्} ॥ १०-२८ ॥
सिद्धाम्बावाहिनीमूतीवीद्या च सुरसुन्दरि ।
मूलविद्यां शृणु प्रौढे सकलागमसेविताम् ॥ १०-२९ ॥
सर्वदर्शनवन्द्यां च चित्कलामव्ययां प्रिये ।
भूमिश्चन्द्रः शिवो माया शक्तिः कृष्णाध्वमादनौ ॥ १०-३० ॥
अर्धचन्द्रश्च बिन्दुश्च नवार्णो मेरुरुच्यते ।
महात्रिपुरसुन्दर्या मन्त्रा मेरुसमुद्भवाः ॥ १०-३१ ॥
लकारात्पृथिवी देवि सशैलवनकानना ।
पञ्चाशत्पीठसम्पन्ना सर्वतीर्थमयी परा ॥ १०-३२ ॥
सर्वगङ्गामयी सर्वक्षेत्रस्थानमयी शिवे ।
सकाराच्चन्द्रतारादिग्रहराशिस्वरूपिणी ॥ १०-३३ ॥
हकाराच्छिवसंवादव्योममण्डलंसस्थिता ।
ईकाराद्विश्वकर्त्रीयं माया तुर्यात्मिका प्रिये ॥ १०-३४ ॥
एकाराद्वैष्णवी शक्तिवीश्वपालनतत्परा ।
रकारात्तेजसा युक्ता परं ज्योतिः स्वरूपिणी ॥ १०-३५ ॥
ककारात्कामदा कामरूपिणी स्फुरदव्यया ।
अर्धचन्द्रेण देवेशि विश्वयोनिरितीरिता ॥ १०-३६ ॥
बिन्दुना शिवरूपेण शून्यरूपेण साक्षिणी ।
अनया सह सर्वत्र व्याप्तिनिश्चलताऽऽत्मना ॥ १०-३७ ॥
एवं परब्रह्मरूपा मेरुणाऽनेन सुव्रते ।
एभिर्नवात्मकैर्वर्णैर्जायते त्रिपुरामनुः ॥ १०-३८ ॥
अन्यथा नैव निष्पत्तिर्नास्ति श्रीत्रिपुरामनौ ।
श्रीचक्रमपि देवेशि मेरुरूपं न संशयः ॥ १०-३९ ॥
लकारः पृथिवीबीजं तेन भूबिम्बमुच्यते ।
सकारश्चन्द्रमा भद्रे कलाषोडशकात्मकः ॥ १०-४० ॥
तस्मात्षोडशपत्रं तु हकारः शिव उच्यते ।
अष्टमूतीः सदा भद्रे तस्माद्वसुदलं भवेत् ॥ १०-४१ ॥
ईकारस्तु महामाया भुवनानि चतुर्दश ।
पालयन्तो परा तस्माच्छक्रकोणं भवेत्प्रिये ॥ १०-४२ ॥
शक्तिरेकादशस्थाने स्थित्वा सूतै जगत्त्रयम् ।
विश्वयोनिरिति ख्याता सा विष्णुर्दशरूपकम् ॥ १०-४३ ॥
रकारात्परमेशानि चक्रं व्याप्य विजृम्भते ।
दशकोणकरी यस्माद्रकारो ज्योतिरव्ययः ॥ १०-४४ ॥
कलादशान्वितो वह्निर्दशकोणप्रकारकः ।
ककारान्मदनो देवि शिवश्चाष्टस्वरूपकः ॥ १०-४५ ॥
योनिवश्यं तदा चक्रे वसुयोन्यङ्कितं भवेत् ।
अर्धमात्रा गुणान्सूते नादरूपा यतस्ततः ॥ १०-४६ ॥
त्रिकोणरूपा योनिस्तु बिन्दुना बैन्दवं भवेत् ।
कामेश्वरस्वरूपं तु विश्वाकारस्वरूपकम् ॥ १०-४७ ॥
श्रीचक्रं तु वरारोहे श्रीविद्यार्णवसम्भवम् ।
तत्र प्राङ्मुख आसीनश्चक्रराजं समालिखेत् ॥ १०-४८ ॥
भूप्रदेशे समे वर्ये सिन्दूररजसाऽथ वा ।
कुङ्कुमस्य रजोभिस्तु भूमौ चक्रं समालिखेत् ॥ १०-४९ ॥
ऋजुरेखं नेत्ररम्यं सन्धिभेदसमम् ऋजु ।
अथ वा हेमरौप्याभ्यां ताम्रेण बहुधातुभिः ॥ १०-५० ॥
पट्टं विरच्य श्रीखण्डरक्तचन्दनसम्भवे ।
पट्टे संस्थाप्य विलिखेल्लेखन्या हेमया प्रिये ॥ १०-५१ ॥
रोचनाकुङ्कुमाभ्यां तु कस्तूरीचन्दनेन्दुभिः ।
ईशानादग्निपर्यन्तमृजुरेखां समालिखेत् ॥ १०-५२ ॥
ईशादग्नेस्तदग्राभ्यां रेखे आकृष्य देशिकः ।
एकीकृत्य च वारुण्यां शक्तिरेखा परा प्रिये ॥ १०-५३ ॥
त्रिकोणाकाररूपेयं तस्या उपरि संलिखेत् ।
त्रिकोणाकाररूपं तु शक्तिद्वयमुदाहृतम् ॥ १०-५४ ॥
पूर्वशक्त्यग्रभागे तु मानयष्टिवदालिखेत् ।
रेखा तु परमेशानि वायुराक्षसकोणगाम् ॥ १०-५५ ॥
सन्धिभेदक्रमेणैव तयोः शक्त्योस्ततः परम् ।
रेखे आकृष्य कोणाभ्यां तदग्रात्पूर्वगे कुरु ॥ १०-५६ ॥
वह्निमण्डलमेतत्तु पूर्वाग्रं वीरवन्दिते ।
चक्रत्रयभभूत्तत्र ततः शृणु वरानने ॥ १०-५७ ॥
पूर्वशक्तीशवह्निभ्यां कोणाभ्यां सुरवन्दिते ।
पूर्वरेखां तु विस्तार्य तथा पश्चिमवह्नितः ॥ १०-५८ ॥
वायुराक्षसकोणाभ्यां रेखां पश्चिमगां तथा ।
विस्तार्य योजयेद्देवि सन्धिभेदक्रमेण तु ॥ १०-५९ ॥
योन्यग्रगां पूर्वदेशे दक्षिणोत्तरतः क्रमात् ।
तथा रेखे वह्निसंस्थे पश्चिमस्यां दिशि क्रमात् ॥ १०-६० ॥
कोणाग्राभ्यां योजयित्वा दशकोणं तथा भवेत् ।
तथैव देवदेवेशि द्वितीयं दशकोणकम् ॥ १०-६१ ॥
ईशानवह्निगे रेखे पूर्वयोन्यग्रयोः क्रमात् ।
विस्तार्य योजयेत्पश्चात्पश्चिमायां दिशि क्रमात् ॥ १०-६२ ॥
वायुराक्षसकोणाग्ने रेखे विस्तार्य सुन्दरि ।
पश्चिमाग्रे तथा देवि योजयेदिन्द्रदिग्गते ॥ १०-६३ ॥
एकत्र पूर्वकोणाग्रचुम्बिनी तु मनोहरा ।
योजयेद्देवदेवेशि यथा पङ्क्त्यस्रकं भवेत् ॥ १०-६४ ॥
दक्षकोणस्य देवेशि त्यक्त्वा कोणचतुष्टयम् ।
दशकोणान्तरे देवि मध्ये रेखे प्रकाशयेत् ॥ १०-६५ ॥
द्वे दक्षिणे विभागे तु तथा चोत्तरभागके ।
षट्कोणस्य ततो देवि सन्धिभेदक्रमेण तु ॥ १०-६६ ॥
योनिं वह्निं च संयोज्य शकारं जायते सदा ।
कक्षामध्यगता रेखा ऋजुरूपास्तु योजयेत् ॥ १०-६७ ॥
ऋज्वाकृति यथा देवि जायतेऽतिमनोहरम् ।
सम्मुखं पञ्चशक्त्यग्रं प्राग्वक्त्रं चतुरग्निकम् ॥ १०-६८ ॥
बिन्दुत्रिकोणे वस्वारचक्रमेतद्वरानने ।
चक्रमध्यं तु जानीहि दशारयुगलं तथा ॥ १०-६९ ॥
शक्रयोन्यङ्कितं देवि बाह्यमध्यगतं भवेत् ।
एतच्चक्रं महेशानि सर्वसौभाग्यवर्धनम् ॥ १०-७० ॥
सर्वसाम्राज्यदं देवि सर्वोपद्रवनाशनम् ।
अनेकरत्नमाणिक्यसुवर्णपरिपूरकम् ॥ १०-७१ ॥
महामोक्षप्रदं देवि वाग्विलासकरं महत् ।
एतद्बाह्ये महेशानि वृत्तं पूर्णेन्दुसन्निभम् ॥ १०-७२ ॥
तद्युक्तं कुरु मीनाक्षि वसुपत्रं मनोहरम् ।
ततः षोडशपत्रं तु विलिखेत्सुरवन्दिते ॥ १०-७३ ॥
तद्बाह्ये देवदेवेशि निवृत्तं मातृकान्वितम् ।
चतुरस्रं चतुर्द्वारसहितं परमेश्वरि ॥ १०-७४ ॥
चतुःषष्टियुताः कोट्यो योगिनीनां महौजसाम् ।
चक्रेस्मिन्स्न्निविष्टास्ताः साधकं मानयन्ति हि ॥ १०-७५ ॥
चतुरस्रं मातृकार्णैर्मण्डितं सिद्धिहेतवे ।
मुक्तामाणिक्यघटितं समस्थलविराजितम् ॥ १०-७६ ॥
त्रैलोक्यमोहनं नाम कल्पद्रुमफलप्रदम् ।
षोडशारं चन्द्रबिम्बरूपं तु सकलालयम् ॥ १०-७७ ॥
सर्वाशापूरकं भद्रे स्रवत्पीयूषवर्षणम् ।
अष्टपत्रं महेशानि जपाकुसुमसन्निभम् ॥ १०-७८ ॥
सर्वसङ्क्षोभणं नाम सर्वकामप्रपूरकम् ।
एतत्त्रयं महेशानि सृष्टिचक्रं सुखप्रदम् ॥ १०-७९ ॥
पूर्वाम्नायाधिदेव्या तु मण्डितं सर्वसिद्धिदम् ।
चतुर्दशारं देवेशि दाडिमीकुसुमप्रभम् ॥ १०-८० ॥
अनन्तफलदं भद्रे सर्वसौभाग्यसम्प्रदम् ।
दशारं तप्तहेमाभं सिन्दूरसदृशं प्रिये ॥ १०-८१ ॥
सर्वार्थसाधकं चक्रं मनश्चिन्तितदं सदा ।
द्वितीयमपि पङ्क्त्यस्रं जपाकुसुमसन्निभम् ॥ १०-८२ ॥
सर्वरक्षाकरं चक्रं महाज्ञानमयं शिवे ।
एतत्त्रयं महेशानि स्थितिचक्रं सुखप्रदम् ॥ १०-८३ ॥
दक्षिणाम्नायपूज्यं तु यथेप्सितफलप्रदम् ।
अष्टकोणं वरारोहे बालार्ककिरणारुणम् ॥ १०-८४ ॥
पद्मरागसमप्रख्यं सर्वरोगहरं सदा ।
उद्यत्सूर्यसहस्राभं बन्धूककुसुमप्रभम् ॥ १०-८५ ॥
सर्वसिद्धिप्रदं चक्रं सकलालयमीश्वरि ।
त्रिकोणं सर्वसम्भूतिकारणं भूतिदं सदा ॥ १०-८६ ॥
बिन्दुचक्रं वरारोहे सर्वानन्दमयं परम् ।
सदाशिवमयं चक्रनायकं परमेश्वरि ॥ १०-८७ ॥
एतच्चक्रं तु संहाररूपं ब्रह्ममयं सदा ।
पश्चिमाम्नायसंसेव्यं त्रयमुत्तरसेवितम् ॥ १०-८८ ॥
अस्म्मिश्चक्रे षड्ध्वानो वर्तन्ते वीरवन्दिते ।
चक्रपत्रेषु देवेशि पदाध्वा तु निगद्यते ॥ १०-८९ ॥
चक्रत्रिसन्धिभागेषु भुवनाध्वा व्यवस्थितः ।
वर्णाध्वा मातृकारूपी कथयामि तवानघे ॥ १०-९० ॥
वर्गाष्टकं मातृकाया दिक्षु सिद्धं यतः क्रमात् ।
पाथीवं तन्मयं विद्धि षोडशारं कलात्मकम् ॥ १०-९१ ॥
अष्टपत्रं कादिवर्णैः क्षान्तैदीक्षु विदिक्षु च ।
कादिढान्ताः शक्रवर्णाः शक्रकोणेषु संस्थिताः ॥ १०-९२ ॥
णकारादिभकारान्ता दशवर्णा दशारके ।
मकारादिशकारान्ता द्वितीयेऽपि दशारके ॥ १०-९३ ॥
वर्णाष्टकं चाष्टकोणे त्रिकोणे कथयामि ते ।
अकथादित्रिकोणान्तं हक्षयुग्मं तु मध्यगम् ॥ १०-९४ ॥
वर्णाध्वा कथितो देवि मातृकापीठरूपकः ।
षट्विंशत्तत्त्वभरितं चक्रं मूलानुसारतः ॥ १०-९५ ॥
तत्त्वाध्वा कथितो देवि तत्त्वरूपो वरानने ।
पञ्चसिंहासनोन्नद्धकलाध्वा चक्रशासनात् ॥ १०-९६ ॥
साबाला भैरवीयुक्ता महात्रिपुरसुन्दरी ।
त्रिपुरा त्र्यम्बिकान्साढ्या चक्रं प्राप्य विजृम्भते ॥ १०-९७ ॥
मन्त्राध्वाऽयं समाख्यातो निश्चयेन सदाऽनघे ।
एवं षडध्वविमलं श्रीचक्रं परिचिन्तयेत् ॥ १०-९८ ॥
उत्तराशामुखो देवि यदा चक्रं समुद्धरेत् ।
उत्तराशा तदा देवि पूर्वाशैव निगद्यते ॥ १०-९९ ॥
ईशानकोणं देवेशि तदाऽऽग्नेयं न संशयः ।
पश्चिमादिङ्मुखो मन्त्री यदा चक्रं समुद्धरेत् ॥ १०-१०० ॥
पश्चिमाशा तदा ज्ञेया पूर्वाशैव न संशयः ।
वायुकोणं तदाग्नेयमैशानं राक्षसं भवेत् ॥ १०-१०१ ॥
दक्षिणाभिमुखो मन्त्री यदा चक्रं समुद्धरेत् ।
पूर्वाशैव तदा सा दिग्रक्षःकोणं तु वह्निवत् ॥ १०-१०२ ॥
एतच्चक्रं मेरुरूपं श्रीविद्यार्णैः समुद्धृतम् ।
सर्वागममयं देवि कथितं वीरवन्दिते ॥ १०-१०३ ॥

इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे
करशुद्धिविद्याचतुरासनविद्यावाहन–
विद्यायजनविद्यामेरुस्वरूपश्रीचक्रोद्धारषडध्व निरूपणं
नाम दशमः पटलः ॥ १० ॥