०९

अथ नवमः पटलः

ईश्वर उवाच –

शृणु देवि महाविद्यां चिन्तितेष्टफलप्रदाम् ।
यस्या विज्ञानमात्रेण भुवनाधिपतिर्भवेत् ॥ ९-१ ॥
हंसाद्यं वाग्भवं चाऽऽद्यं हसकान्ते सुरेश्वरि ।
भूबीजं भुवनेशानी द्वितीयं बीजमुद्धृतम् ॥ ९-२ ॥
शिवचन्द्रौ महेशानि शक्रस्वरविभूषितम् ।
बिन्दुनादकलाक्रान्तं तृतीयं बीजमुद्धृतम् ॥ ९-३ ॥
एषा विद्या महेशानि भुवनेश्वरभैरवी ।
मध्यबीजेन देवेशि षड्दीर्घस्वरभेदिना ॥ ९-४ ॥
षडङ्गानि प्रविन्यस्य ध्यायेद्देवीं चतुर्भुजाम् ।
जपाकुसुमसङ्काशां दाडिमीकुसुमप्रभाम् ॥ ९-५ ॥
चन्द्ररेखाजटाजूटां त्रिनेत्रां रक्तवाससम् ।
नानालङ्कारसुभगां पीनोन्नतघनस्तनीम् ॥ ९-६ ॥
पाशाङ्कुशवराभीतीर्धारयन्तीं शिवां स्मरेत् ।
एवं ध्यात्वाऽर्चयेद्देवीं यन्त्रोद्धारं च पूर्ववत् ॥ ९-७ ॥
चैतन्यभैरवी देवी यन्त्रवत्परमेश्वरि ।
सिंहासनं समभ्यर्च्य परिवारार्चनं यजेत् ॥ ९-८ ॥
षडङ्गावरणं देवि पूर्ववत्परिपूजयेत् ।
रत्याद्याः पूजयेद्देवि त्रिकोणे तदनन्तरम् ॥ ९-९ ॥
ब्रह्मा विष्णुश्च रुद्रश्च पूज्यास्तत्रैव सुन्दरि ।
डाकिन्याद्यास्तथा पूज्या वसुपत्रे ततः परम् ॥ ९-१० ॥
अनङ्गकुसुमाद्याश्च ब्राह्म्यादियुगलं ततः ।
भूबिम्बे लोकपालांश्च बटुकाद्यांश्च पूजयेत् ॥ ९-११ ॥
योगिनीनां चतुःषष्टिं पूजयेत्सुरवन्दिते ।
सदाशिवसखा यस्मात्कुबेरः परमेश्वरि ॥ ९-१२ ॥
येनेयं प्राथीता देवी राजराजस्ततो भवेत् ।
तेनैव प्राथीता विद्या गौरी गौरफलप्रदा ॥ ९-१३ ॥
अन्नपूर्णेश्वरी नाम सर्वसम्पत्प्रदा सताम् ।
अनया विद्यया देवि कुबेरो धननायकः ॥ ९-१४ ॥
लोकपालेषु सर्वेषु धनरत्नादिपूर्णता ।
तथाऽन्नपूर्णता तस्मिन्सुस्थिराऽस्याः प्रसादतः ॥ ९-१५ ॥
अन्नपूर्णा महादेवि साक्षात्कामदुघाऽद्रिजे ।
मन्त्रमस्याः प्रवक्ष्यामि सर्वसिद्धिप्रदायकम् ॥ ९-१६ ॥
तारं च भुवनेशानीं श्रीबीजं कामराजकम् ।
हृदन्ते भगवत्यर्णा माहेश्वरि पदं लिखेत् ॥ ९-१७ ॥
अन्नपूर्णेऽग्निजाया च विद्येयं विंशदक्षरी ।
अनया सदृशी विद्या सिद्धिदा नास्ति भूतले ॥ ९-१८ ॥
भुवनेशी महेशानि षड्दीर्घस्वरभिन्नया ।
षडङ्गानि महेशानि च्छन्दोन्यासानन्तरम् ॥ ९-१९ ॥
ऋषिर्ब्रह्माऽस्य मन्त्रस्य पङ्तिश्छन्दो वरानने ।
अन्नपूर्णेश्वरी देवि देवता परिकीतीता ॥ ९-२० ॥
बीजं च भुवनेशानी श्रीबीजं शक्तिरुच्यते ।
कीलकं कामराजं स्यात्षडङ्गानन्तरं ततः ॥ ९-२१ ॥
एकमेकं पुनश्चैकं पुनरेकं द्वयं चतुः ।
चतुश्चतुस्तथा द्वाभ्यां पदान्येतानि पार्वति ॥ ९-२२ ॥
पदानि नव देवेशि नव द्वारेषु विन्यसेत् ।
मूर्धादिगुदपर्यन्तं पुनस्तेषु वरानने ॥ ९-२३ ॥
गुदादिब्रह्मरन्ध्रान्तं पदानां नवकं न्यसेत् ।
ब्रह्मरन्ध्रास्यहृदयमूलाधारेष्वनुक्रमात् ॥ ९-२४ ॥
चतुर्बीजानि विन्यस्य शेषेष्वन्यान् प्रविन्यसेत् ।
गोलकं च ततो देवि विन्यस्य विधिवत्प्रिये ॥ ९-२५ ॥
प्राणायामं प्रकुर्वीत पूजामण्डलमालिखेत् ।
त्रिकोणं च चतुःपत्रं वसुपत्रं ततः परम् ॥ ९-२६ ॥
कलापत्रं च भूबिम्बं चतुर्द्वारं समालिखेत् ।
सिंहासनस्य परितः पीठदेवीः समर्चयेत् ॥ ९-२७ ॥
सिंहासने दक्षिणे तु कथिताः पीठनायिकाः ।
ता एव पूजयेत्पीठे वामाद्याः परमेश्वरि ॥ ९-२८ ॥
जया च विजया चैव अजिता चापराजिता ।
नित्या विलासिनी दोग्ध्री अघोरा मङ्गलात्मिका ॥ ९-२९ ॥
नवमी परमेशानी सिंहासनसमीपगाः ।
समावाह्य यजेद्देवीं ध्यानं कुर्वन्समाहितः ॥ ९-३० ॥
तप्तकाञ्चनवर्णाभां बालेन्दुकृतशेखराम् ।
नवरत्नप्रभादीप्तमुकुटां कुङ्कुमारुणाम् ॥ ९-३१ ॥
चित्रवस्त्रपरीधानां मदिराक्षीं त्रिलोचनाम् ।
सुवर्णकलशाकारपीनोन्नतघनस्तनीम् ॥ ९-३२ ॥
गोक्षीरधामधवलं पञ्चवक्त्रं त्रिलोचनम् ।
प्रसन्नवदनं शान्तं नीलकण्ठविराजितम् ॥ ९-३३ ॥
कपदीनं स्फुरत्सर्पभूषणं कुन्दसन्निभम् ।
नृत्यतन्तमतिसंहृष्टं दृष्ट्वाऽऽनन्दमयीं पराम् ॥ ९-३४ ॥
सानन्दमुद्यल्लोलाक्षीं मेखलाढ्यनितम्बिनीम् ।
अन्नदानरतां नित्यां भूमिश्रीभ्यामलङ्कृताम् ॥ ९-३५ ॥
एवं ध्यात्वा यजेद्देवि षडङ्गावरणं यजेत् ।
अग्नीशासुरवायव्यमध्ये दिक्ष्वङ्गपूजनम् ॥ ९-३६ ॥
अथ वक्ष्ये महेशानि त्रिकोणस्य च पूजनम् ।
तारं प्रासादबीजं च हृच्छिवाय ततः परम् ॥ ९-३७ ॥
सप्ताक्षरी महाविद्या त्वनया देवि पूजयेत् ।
नृत्यन्तमीश्वरं देवि त्रिकोणाग्रे सुरेश्वरि ॥ ९-३८ ॥
ॐ नमः पदमाभाष्य ततो भगवते पदम् ।
ततो वराहरूपाय भूर्भुवःस्वःपतिं तथा ॥ ९-३९ ॥
ङेन्तं च भूपतिं च त्वं मे देहीति च दापय ।
वह्निजायान्वितो मन्त्रो वराहस्य वरानने ॥ ९-४० ॥
अनया विद्यया देवि वामकोणे प्रपूजयेत् ।
ॐ नमः पदमाभाष्य ङेन्तं नारायणं लिखेत् ॥ ९-४१ ॥
नारायणं दक्षकोणे क्रमेण परिपूजयेत् ।
वामदक्षिणयोः पूज्ये भूश्रियौ परमेश्वरि ॥ ९-४२ ॥
एकेन मनुना देवि कथयामि तवानघे ।
ॐ नमो हि पदं चान्नं मे देह्यन्नाधिपान्तङे ॥ ९-४३ ॥
तथेयमान्नं संलिख्य प्रदापय ततः परम् ।
वह्निजायान्वितो मन्त्रः सम्पुटीकृत्य योजयेत् ॥ ९-४४ ॥
ग्लौमात्मकेन रमया वामदक्षिणयोः क्रमात् ।
ततश्चर्तुर्दले पूज्या पश्चिमादिक्रमेण तु ॥ ९-४५ ॥
तारेणं परविद्यां च भुवनेशीं तदात्मना ।
कमलां रमया भद्रे कामेन सुभगां यजेत् ॥ ९-४६ ॥
वसुपत्रे महेशानि ब्राह्म्याद्याः पश्चिमादितः ।
षोडशारे परेशानि चन्द्रमण्डलरूपिणीः ॥ ९-४७ ॥
कलाः षोडश सम्पूज्याः पश्चिमादिक्रमेण हि ।
अमृता मानसी पुष्टिस्तुष्टिः प्रीती रतिस्तथा ॥ ९-४८ ॥
श्रीश्च ह्रीश्च स्वधा रात्रिर्ज्योत्स्ना हैमवती तथा ।
छाया च पूणीमा नित्या अमावास्या च षोडशी ॥ ९-४९ ॥
शेषवर्णैः प्रपूज्यास्तु अन्नपूर्णान्तशब्दकाः ।
चतुरस्रे लोकपालान्क्रमेण परिपूजयेत् ॥ ९-५० ॥
इत्युत्तरपतेः सम्यक्पूजितान्नसुवर्णदा ।
स्वशक्त्या या करोत्येव राजराजं धनाधिपम् ॥ ९-५१ ॥
सिद्धिप्रदा सिद्धिविद्या ममाप्यन्नप्रदा प्रिये ।
भुवनेश्वरभैरव्या भेदान्तरमथोच्यते ॥ ९-५२ ॥
सहाद्या सैव देवेशि तदा स सकलेश्वरी ।
ध्यानपूजादिकं सर्वमेतस्या एव पार्वति ॥ ९-५३ ॥
उत्तरस्यां वरारोहे सिंहासनमिदं दिशि ।
सम्पत्प्रदा भैरवी च विद्धि कौलेशभैरवी ॥ ९-५४ ॥
हसराद्या भैरवी सा त्रिषु बीजेषु पार्वति ।
इयं तु सहराद्या स्यात्पूजाध्यानादिकं तथा ॥ ९-५५ ॥
एतस्या एव विद्याया आद्यन्ते रेफवजीते ।
तदेयं परमेशानि नाम्ना सकलभैरवी ॥ ९-५६ ॥
सम्पत्प्रदा भैरवी च ध्यानपूजादिकं प्रिये ।
पञ्चसिंहासनमयी महात्रिपुरभैरवी ॥ ९-५७ ॥
चतुराम्नायविद्याभिर्मान्यं सिंहासनं प्रिये ।
हस्रीमात्मकमुच्चार्य सह्रीमात्मकमद्रिजे ॥ ९-५८ ॥
शक्तिः सकलह्रीमन्ते चतुर्बीजमुदाहृतम् ।
श्रीबीजं कुरु तार्तीयं नित्या वेदाक्षरी भवेत् ॥ ९-५९ ॥
उन्मनी नाम विद्येयं भोगमोक्षफलप्रदा ।
पूर्वाम्नाये महाविद्या दक्षिणाम्नाय उच्यते ॥ ९-६० ॥
वाग्भवं बीजमुच्चार्य क्लिन्ने कामस्य बीजकम् ।
मदद्रवे कुले हस्रौ विद्येयं भोगिनी प्रिये ॥ ९-६१ ॥
दक्षिणाम्नायविद्येयं पश्चिमाम्नाय उच्यते ।
वाग्भवं च परा श्रीश्च हसखफ्रोमिति प्रिये ॥ ९-६२ ॥
हस्रौभस्तास्ततो देवि पञ्चैते प्रणवाः स्मृताः ।
भगवत्यम्ब आलिख्य पृथक्पदमथेश्वरि ॥ ९-६३ ॥
चतुर्थं प्रणवं चैव हसकफ्रोमिति प्रिये ।
कुब्जिके चैव हस्रां च हस्रीं हस्रौ ततः परम् ॥ ९-६४ ॥
अघोरे चैव घोरे च त्वघोरमुखि चाऽऽलिखेत् ।
हस्रां हस्रीं किणिद्वन्द्व विच्चे द्वात्रिंशदक्षरी ॥ ९-६५ ॥
पूर्वोक्तैः प्रणवैर्देवि सम्पुटीकृत्य संस्मरेत् ।
कुब्जिकेयं महाविद्या पश्चिमाम्नायदेवता ॥ ९-६६ ॥
खफ्रेमात्मकमुच्चार्य महाचण्डपदं लिखेत् ।
योगेश्वरीपदं पश्चाद्विद्येयं कालिका प्रिये ॥ ९-६७ ॥
उत्तराम्नायविद्येयं नाम्ना कालीति विश्रुता ।
एताभिः परमेशानि पूज्यं सिंहासनं सदा ॥ ९-६८ ॥

इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे सिंहासनविद्याविधानं नाम
नवमः पटलः ॥ ९ ॥