अथ सप्तमः पटलः
ईश्वर उवाच –
एतामाराध्य देवेशि महात्रिपुरभैरवीम् ।
पालकोऽभून्निश्चलोऽपि प्रेतत्वात्सुरवन्दिते ॥ ७-१ ॥
योगनिद्राछलाद्देवि प्रेतत्वं तस्य निश्चलम् ।
तद्ध्यानेन स्वयं शक्तिरभूत्कुवलयेक्षणे ॥ ७-२ ॥
तामाराध्य महाविष्णुरघोरेण मुखेन च ।
त्रिपुरो निजीतो देवि त्रैलोक्यभयकारकः ॥ ७-३ ॥
तदा सिंहासने प्रौढा दक्षिणे परमेश्वरि ।
मन्त्रं तस्याः प्रवक्ष्यामि रिपुभारनिकृन्तनम् ॥ ७-४ ॥
शिवचन्द्रौ मादनान्तं वान्तं वह्निसमन्वितम् ।
शक्तिभिन्नं बिन्दुनादकलाढ्यं वाग्भवं प्रिये ॥ ७-५ ॥
सम्पत्प्रदाया भैरव्याः कामराजं तदेव हि ।
सदाशिवस्य बीजं तु सिंहासनगतस्य च ॥ ७-६ ॥
एषा विद्या महेशानि वणीतुं केन शक्यते ।
ध्यानमस्याः प्रवक्ष्यामि रिपुभारनिकृन्तनम् ॥ ७-७ ॥
उद्यत्सूर्यसहस्राभां चन्द्रचूडां त्रिलोचनाम् ।
नानालङ्कारसुभगां सर्ववैरिनिकृन्तनीम् ॥ ७-८ ॥
स्रवद्रुधिरमुण्डालिकलितां रक्तवाससम् ।
त्रिशूलं डमरुं चैव खड्गं खेटकमेव च ॥ ७-९ ॥
पिनाकं च शरान्देवि पाशाङ्कुशयुगं क्रमात् ।
पुस्तकं चाक्षमालां च शिवसिंहासने स्थिताम् ॥ ७-१० ॥
एवं ध्यात्वा महेशानि पूजामण्डलमारभेत् ।
त्रिकोणं चैव वृत्तं च वृत्ताष्टदलनीरजम् ॥ ७-११ ॥
वृत्तं भूसदनोपेतमेषा त्रिपुरयन्त्रिका ।
वामां ज्येष्ठां च रौद्रीं च काली च वरलोचने ॥ ७-१२ ॥
कलाढ्यां च बलाढ्यां च यजेद्विकरिणीं पिरये ।
बलप्रमथिनीं चैव सर्वभूतान्तमावदेत् ॥ ७-१३ ॥
दमनीं च तथाऽचीत्वा मनोन्मनीपदान्विताम् ।
एवं पीठं समभ्यर्च्य ततः सिंहासनं यजेत् ॥ ७-१४ ॥
अघोरविद्यारूपं तु महापापनिकृन्तनम् ।
अघोरे वाग्भवं देवि घोरे तु भुवनेश्वरीम् ॥ ७-१५ ॥
घोरघोरतरेभ्यश्च विलिख्य सुरवन्दिते ।
सर्वेभ्यः सर्वशर्वेभ्यो देव्या बीजयुगं लिखेत् ॥ ७-१६ ॥
नमस्तेऽस्तुपदं कुर्याद्रुद्ररूपे ह्सौ लिखेत् ।
त्रिंशद्भिश्च त्रिभिर्वर्णैवीद्येयं कथिता प्रिये ॥ ७-१७ ॥
अनेन मनुना देवि यजेत्सिंहासनं बुधः ।
आवाहनादिकं कुर्यात् क्रमार्चनमतः परम् ॥ ७-१८ ॥
आदावङ्गावृत्तिर्देवि द्विरावृत्त्याऽङ्गपूजनम् ।
रत्यादित्रयमभ्यर्च्य तथाऽनङ्गादिका यजेत् ॥ ७-१९ ॥
ब्राह्म्यादियुग्मं सम्पूज्य वसुपत्रेषु मातृकाः ।
भूबिम्बे लोकपालांश्च सायुधान्परमेश्वरी ॥ ७-२० ॥
द्वितीयसिंहासनगां पूजयेद्रुद्रभैरवीम् ॥ ७-२१ ॥
इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे द्वितीयसिंहासने रुद्रभैरवीयजनं नाम सप्तमः
पटलः ॥ ७ ॥