०६

अथ षष्ठः पटलः

श्रीदेव्युवाच –

पञ्चसिंहासनगता कथं सा त्रिपुरा परा ।
कथयस्व महेशान कथं सिंहासनं भवेत् ॥ ६-१ ॥

ईश्वर उवाच –

यथा श्रीत्रिपुरा बाला तथा त्रिपुरभैरवी ।
सम्म्पत्प्रदा नाम तस्याः शृणु निर्मलमानसे ॥ ६-२ ॥
शिवचन्द्रौ वह्निसंस्थौ वाग्भवं तदनन्तरम् ।
कामराजं तथा देवि शिवचन्द्रान्वितं ततः ॥ ६-३ ॥
पृथ्वीबीजान्तवह्न्याढ्यं तार्तीयं शृणु वल्लभे ।
शक्तिबीजे महेशानि शिवं वह्निं च योजयेत् ॥ ६-४ ॥
व्योमादिवह्निसंस्थं तु विशेषं शृणु वल्लभे ।
कुमार्याः परमेशानि हित्वा सर्गं तु बैन्दवम् ॥ ६-५ ॥
त्रिपुरा भैरवी देवी महासम्पत्प्रदा प्रिये ।
अनया सदृशी विद्या त्रिषु लोकेषु दुर्लभा ॥ ६-६ ॥
ब्रह्मानन्दमयी साक्षात्सर्वसाम्राज्यदायिनी ।
ध्यानमस्याः प्रवक्ष्यामि महासम्पत्प्रदं प्रिये ॥ ६-७ ॥
आताम्रार्कसहस्राभां स्फुरच्चन्द्रजटाशिखाम् ।
किरीटरत्नविलसच्चित्रचित्रितमौक्तिकाम् ॥ ६-८ ॥
स्रवद्रुधिरपङ्काढ्यमुण्डमालावलीयुताम् ।
नयनत्रयशोभाढ्यां पूर्णेन्दुवदनान्विताम् ॥ ६-९ ॥
मुक्ताहारलताराजत् पीनोन्नतघनस्तनीम् ।
त्रिवलीखचितालग्नां नानाभरणभूषिताम् ॥ ६-१० ॥
रक्ताम्बरपरीधानां यौवनोन्मत्तरूपिणीम् ।
पुस्तकं चाभयं वामे दक्षिणे चाक्षमालिकाम् ॥ ६-११ ॥
वरदानरतां नित्यं महासम्पत्प्रदां स्मरेत् ।
न्यासपूजादिकं सर्वं कुमार्या इव सुव्रते ॥ ६-१२ ॥
त्रिपुरा भैरवी देवी पञ्चसिंहासनान्विता ।
प्रथमं शृणु देवेशि ब्रह्मा सृष्टिकरो यदा ॥ ६-१३ ॥
निश्चेतनोऽपि देवेशि तदा त्रिपुरदेवताम् ।
समाराध्याभवत्कर्ता सृष्टेस्तु परमेश्वरि ॥ ६-१४ ॥
ब्रह्माणं तं समाराध्य तपसा महता प्रिये ।
शक्रोऽभूद्देवराजोऽयं पूर्वस्यां दिशि पालकः ॥ ६-१५ ॥
तदा प्रसन्ना त्रिपुरा पूर्वसिंहासनस्थिता ।
शृणु देवि प्रवक्ष्यामि पूर्वसिंहासनस्थिताम् ॥ ६-१६ ॥
वाग्भवं बीजमुच्चार्य जीवप्राणसमन्विताम् ।
सकला भुवनेशानि द्वितीयं बीजमुद्धृतम् ॥ ६-१७ ॥
जीवं प्राणं वह्निसंस्थं शक्रस्वरविभूषितम् ।
विसर्गाढ्यं महेशानि विद्या त्रैलोक्यमातृका ॥ ६-१८ ॥
त्रैलोक्यमोहनी देवी परब्रह्मचिदात्मिका ।
चैतन्यभैरवी नाम चेतना निष्कले शिवे ॥ ६-१९ ॥
उद्यद्भास्वत्सहस्राभां नानालङ्कारभूषिताम् ।
मुकुटोज्ज्वलसच्चन्द्रलेखां रक्ताम्बरान्विताम् ॥ ६-२० ॥
पाशाङ्कुशधरां नित्यां वामहस्तकपालिनीम् ।
वरदाभयशोभाढ्यां पीनोन्नतघनस्तनीम् ॥ ६-२१ ॥
एवं ध्यात्वा भजेद्देवीं पूर्वसिंहासनस्थिताम् ।
द्विरावृत्त्या षडङ्गानि न्यसेत्सर्वाङ्गलक्षणाम् ॥ ६-२२ ॥
यन्त्रमस्याः प्रवक्ष्यामि देवि त्रैलोक्यमोहनम् ।
त्रिकोणं चैव षट्कोणं वसुपत्रं वरानने ॥ ६-२३ ॥
चतुरस्रं चतुर्द्वारमेवं मण्डलमालिखेत् ।
तत्राऽऽवाह्य महादेवीं पूर्ववत्परमेश्वरीम् ॥ ६-२४ ॥
मुद्राः प्रदर्शयेत्पश्चात्परिवारार्चनं यजेत् ।
प्रथमावरणं देवि षडङ्गानां तु पूर्ववत् ॥ ६-२५ ॥
रत्यादिकास्ततः पूज्याः पूर्ववत्परमेश्वरि ।
अग्रे वसन्तं वामे तु कामदेवं वरानने ॥ ६-२६ ॥
चापं दक्षिणकोणे च बाणान् पूर्ववदद्रिजे ।
डाकिनीं राकिनीं चैव लाकिनीं काकिनीं तथा ॥ ६-२७ ॥
शाकिनीं हाकिनीं देवि पश्चिमादिक्रमाद्यजेत् ।
अनङ्गकुसुमा मुख्या वसुपत्रेषु पूर्ववत् ॥ ६-२८ ॥
परभृत्सारसौ चैव शुकमेघाह्वयौ पुनः ।
अपाङ्गम्भ्रूविलासौ च हावभावौ प्रपूजयेत् ॥ ६-२९ ॥
इन्द्राद्या लोकपालास्तु क्रमेण परिपूजयेत् ।
पूर्वसिंहासने देवि कथिता वीरवन्दिते ॥ ६-३० ॥
कामेश्वरी च रुद्राणां पूर्वसिंहासनस्थिता ।
एतस्या एव विद्याया बीजद्वयमुदाहृतम् ॥ ६-३१ ॥
तदन्ते परमेशानि नित्यक्लिन्ने मदद्रवे ।
एतस्या एव तार्तीयं रुद्राणां परमेश्वरि ॥ ६-३२ ॥
पूजाध्यानादिकं देवि चैतन्यायाश्च पूर्ववत् ।
त्रिकोणे तु विशेषोऽस्ति कथयामि तवानघे ॥ ६-३३ ॥
अग्रकोणक्रमेणैव नित्यां क्लिन्नां मदद्रवाम् ।
षडङ्गावरणात्पश्चात्पूजयेत्सर्वसिद्धये ॥ ६-३४ ॥
अनेनैव प्रकारेण पूर्वसिंहासनस्थिताम् ।
त्रिपुरां भैरवीं देवीं पूजयेत्परमेश्वरीम् ॥ ६-३५ ॥

इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे पूर्वसिंहासनकथनं नाम
षष्ठः पटलः ॥ ६ ॥