अथ चतुर्थः पटलः
श्रीदेव्युवाच –
चक्रमण्डलमाख्यातं न पूजा तत्र मण्डले ।
कथिता परमेशान श्रोतुमिच्छामि तत्त्वतः ॥ ४-१ ॥
ईश्वर उवाच –
शृणु देवि प्रवक्ष्यामि पूजामण्डलमुत्तमम् ।
पीठपूजां विधायादौ रविदेवीविराजिताम् ॥ ४-२ ॥
वामा ज्येष्ठा च रौद्री च अम्बिकेच्छा ततः परम् ।
ज्ञाना क्रिया कुब्जिका च ऋद्धिश्चैव विषघ्निका ॥ ४-३ ॥
दूतरी चैव आनन्दा देवि द्वादश शक्तयः ।
मुक्ताफलामलमणिस्फुरच्छत्रं शशिप्रभम् ॥ ४-४ ॥
गङ्गातरङ्गधवलं चामरद्वयमद्रिजे ।
नवरत्नस्फुरद्दीप्ति ताम्बूलस्य करण्डकम् ॥ ४-५ ॥
मल्लिकामालतीजातीशतपत्रादिदामभिः ।
पूर्णं रत्नमयं भाण्डं तथाऽलङ्कारपूरिताम् ॥ ४-६ ॥
पेटिकां व्यजनद्वन्द्वं नवरत्नाभिभूषितम् ।
नीलकण्ठस्य पिच्छैस्तु तथोशीरविराजितम् ॥ ४-७ ॥
कर्पूरमृगनाभ्याढ्यं कुङ्कुमक्षोदमण्डितम् ।
चषकं स्वर्णरचितं कङ्कतीं हीरराजिताम् ॥ ४-८ ॥
कज्जलस्य शलाकां च करण्डं चन्द्रपूरितम् ।
दधानाः परमेशानि शक्तयः पीठसंस्थिताः ॥ ४-९ ॥
पूर्वादिपरितः पूज्या रविसङ्ख्या वरानने ।
सम्पूज्य मध्ये देवेशि प्रेतसिंहासनं यजेत् ॥ ४-१० ॥
रत्नस्वर्णाकृति स्फारं दीप्तिमच्छुद्धमव्ययम् ।
पञ्चप्रेतासनं साक्षान्मोक्षदायि न संशयः ॥ ४-११ ॥
श्रीदेव्युवाच –
पञ्च प्रेतान् महेशान ब्रूहि तेषां तु कारणम् ।
निर्जीवा अविनाशस्ते नित्यरूपाः कथं विभो ॥ ४-१२ ॥
निर्जीवे नाश एवास्ति ते कथं नित्यतां गताः ।
ईश्वर उवाच –
साधु पृष्टं त्वया भद्रे पञ्चप्रेतमयं कथम् ॥ ४-१३ ॥
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।
पञ्च प्रेता वरारोहे निश्चला एव सर्वदा ॥ ४-१४ ॥
ब्रह्मणः परमेशानि मातृत्वं सृष्टिरूपकम् ।
वामाशक्तेस्तु विज्ञेयं ब्रह्मा प्रेतो न संशयः ॥ ४-१५ ॥
शिवस्य करणं नास्ति शक्तेस्तु करणं सदा ।
ब्रह्माण्डलक्षनिर्माणं जायते शक्तितः प्रिये ॥ ४-१६ ॥
अत एव महेशानि शिवः१ प्रेतो न संशयः ।
विष्णौ च पालनं नास्ति पालयन्ती परा शिवा ॥ ४-१७ ॥
ज्येष्ठाभिधा महेशानि सैव विष्णुरितीरिता ।
विष्णुस्तु निश्चलो देवि वैष्णवी व्याप्तिकारिणी ॥ ४-१८ ॥
पालयन्ती जगत्सर्वं विश्वनाटककारिणी ।
अत एव महेशानि विष्णुः प्रेतो न संशयः ॥ ४-१९ ॥
रुद्रस्तु परमं तत्त्वं शिवो निश्चल एव हि ।
ग्रसन्ती रुद्रशक्तिस्तु तमोरूपा वरानने ॥ ४-२० ॥
गुणत्रयं शिवे नास्ति गुणातीतः परमेश्वरः ।
निर्गुणस्य कथं ग्रासो निश्चलस्य वरानने ॥ ४-२१ ॥
ग्रसन्ती रुद्रशक्तिस्तु त्रैलोक्यं सचराचरम् ।
ब्रह्मा विष्णुश्च रुद्रश्च गुणातीताः सदा प्रिये ॥ ४-२२ ॥
सगुणाः परमेशानि सृष्टिस्थितिलयात्मकाः ।
ईश्वरोऽपि वरारोहे महाप्रेतः सदाऽनघे ।
शिवे निश्चलता कस्मादीश्वरत्वं भवेत्प्रिये ॥ ४-२३ ॥
यः कर्ता च स्वयं हर्ता स ईशो नान्यथा भवेत् ।
कर्तृहर्तृत्वयुगलं निश्चले न हि सुन्दरि ॥ ४-२४ ॥
ईश्वरत्वं शिवायां तु न शिवे परमेश्वरि ।
अत एव महाप्रेत ईश्वरो नान्यथा भवेत् ॥ ४-२५ ॥
सदाशिवो महाप्रेतः केवलं निश्चलः प्रिये ।
अव्यक्तः परमानन्दो ब्रह्मानन्दमयी शिवा ॥ ४-२६ ॥
शक्त्या विना शिवे देवि वासना न प्रवर्तते ।
अत एव महेशानि महाप्रेतासनं यजेत् ॥ ४-२७ ॥
चक्रमध्ये स्थितं बीजं सदाशिवमहापदम् ।
प्रेतपद्मासनं ङेन्तं हृन्मनुर्मनुरीरितः ॥ ४-२८ ॥
महासनस्य मन्त्रोऽयं कलार्णः परमेश्वरि ।
सिंहासनं समभ्यर्च्य ततश्चाऽऽवाहनं कुरु ॥ ४-२९ ॥
वहन्नाडीक्रमेणैव मूलादिब्रह्मरन्ध्रगाम् ।
संवित्कलां परेशानि सर्वज्ञां कुलसुन्दरीम् ॥ ४-३० ॥
आवाह्य चक्रमध्ये तु तर्पयेत्कुलसुन्दरीम् ।
आवाहनादिमुद्रास्तु कथयामि तवानघे१ ॥ ४-३१ ॥
ऊर्ध्वाञ्ञ्जलिमधः कुर्यादियमावाहनी भवेत् ।
इयं तु विपरीता स्यात्तदा वै स्थापनी मता ॥ ४-३२ ॥
मिलितं मुष्टियुगलं सन्निधापनरूपिणी ।
अन्तरङ्गुष्ठमुष्टिभ्यां सन्निरोधनरूपिणी ॥ ४-३३ ॥
एतस्या एव मुद्रायास्तर्जन्यौ सरले यदा ।
सव्यापसव्यभ्रमणान्मुद्रेयमवगुण्ठनी ॥ ४-३४ ॥
अङ्गमन्त्रैर्न्यसेद्देवि देव्यङ्गे साधकोत्तमः ।
सङ्कलीकरणं नाम मुद्रेयं व्याप्तिकारिणी ॥ ४-३५ ॥
करावेकत्र संयोज्यावङ्गुष्ठौ बन्धयेत्प्रिये ।
परमीकरणं नाम मुद्रेयं तु ततः परम् ॥ ४-३६ ॥
परिवर्त्य करौ पश्चात्तर्जनीमध्यमायुगम् ।
कनिष्ठानामिकायुग्मं परस्परयुतं कुरु ॥ ४-३७ ॥
धेनुमुद्रेवमाख्याता अमृतीकरणं भवेत् ।
एता साधारणा मुद्रा दर्शयित्वा ततः परम् ॥ ४-३८ ॥
वरदाभयमुद्रे च वरदाभयवत्प्रिये ।
पुस्तकवद्वामकरं कुर्यात्समतलं प्रिये ॥ ४-३९ ॥
पुस्तकं नाम मुद्रेयं वाग्विलासं प्रयच्छति ।
तर्जन्यङ्गुष्ठयोगे तु दक्षहस्ते तु पार्वति ॥ ४-४० ॥
अक्षमालेति मुद्रेयं ज्ञानमुद्रा च वै भवेत् ।
मुष्टिं बध्वा दक्षकरे तर्जन्यङ्कुशरूपिणी ॥ ४-४१ ॥
अङ्कुशाख्या महामुद्रा त्रैलोक्याकषीणी भवेत् ।
तर्जनीयुगलं देवि वामांसे शृङ्खलाकृति ॥ ४-४२ ॥
पाशमुद्रा समाख्याता त्रैलोक्याकर्षणक्षमा ।
यथा हस्तगतं चापं तथा हस्तं कुरु प्रिये ॥ ४-४३ ॥
चापमुद्रेयमाख्याता वामहस्ते व्यवस्थिता ।
यथा हस्तगतो बाणस्तथा हस्तं कुरु प्रिये ॥ ४-४४ ॥
बाणमुद्रेयमाख्याता रिपुवर्गनिकृन्तनी ।
वामहस्ततलं देवि कपालाकृति कारयेत् ॥ ४-४५ ॥
कपालमुद्रा देवेशि देव्यानन्दकरी सदा ।
हस्ताभ्यां कमलाकारो यदा तत्कमलं भवेत् ॥ ४-४६ ॥
एषा कमलमुद्रा च लक्ष्मीवृद्धिकरी मता ।
इति चाऽऽयुधमुद्रास्तु दर्शयित्वा वरानने ॥ ४-४७ ॥
गन्धपुष्पाक्षतादीनि दद्यात्स्त्रीसहितः सदा ।
उपचारैरलङ्कारैस्तोषयेत् परमेश्वरीम् ॥ ४-४८ ॥
लयाङ्गं कल्पयेद्देहे सम्यक्सन्तर्पयेच्छिवाम् ।
परिवारार्चनं पश्चादादावङ्गाकृतिं प्रिये ॥ ४-४९ ॥
गुरुपूजानन्तरं तु प्रथमं गुरुमर्चयेत् ।
प्राग्योनिमध्ययोन्योस्तु मध्ये निजगुरुं यजेत् ॥ ४-५० ॥
विशेषमुद्रां देवेशि दर्शयेत्सर्वसिद्धये ।
परिवर्त्य करौ सम्यक्तर्जनीवाहनी समे ॥ ४-५१ ॥
मध्यमे कुरु तन्मध्ये योजयेत्तदनन्तरम् ।
अन्योन्यामिके देवि कनिष्ठे तु यथास्थिते ॥ ४-५२ ॥
अङ्गुष्ठाभ्यां योजिताभ्यां योन्याकारं तु कल्पयेत् ।
योनिमुद्रेयमाख्याता परा त्रैलोक्यमातृका ॥ ४-५३ ॥
इयमेव हृदि क्षिप्ता त्रैलोक्यक्षोभिणी भवेत् ।
त्रैलोक्यद्राविणी नाम मुखस्था परमेश्वरी ॥ ४-५४ ॥
भ्रूमध्यस्था महादेवि त्रैलोक्याकषीणी भवेत् ।
ललाटस्था महादेवि त्रैलोक्यवशकारिणी ॥ ४-५५ ॥
ब्रह्मरन्ध्रस्थिता देवि त्रैलोक्योन्मादकारिणी ।
पञ्चमुद्रामयीं मुद्रां योनिमुद्रां च दर्शयेत् ॥ ४-५६ ॥
ततः षडङ्गावरणं परितः पीठमद्रिजे ।
अग्नीशासुरवायव्यमध्ये दिक्षु च पूजयेत् ॥ ४-५७ ॥
अग्रकोणे रतिं यष्ट्वा प्रीतिमुत्तरकोणके ।
मनोभवां दक्षकोणे ततो बाणान् समर्चयेत् ॥ ४-५८ ॥
उत्तरस्यां द्वयं देवि दक्षिणस्यां दिशि द्वयम् ।
अग्रे चैकं क्रमेणैव बाणान् पञ्चाद्रिजे यजेत् ॥ ४-५९ ॥
पञ्च कामांस्तथा देवि बाणवत्परिपूजयेत् ।
अनङ्गकुसुमां देवि तथाऽनङ्गादिमेखलाम् ॥ ४-६० ॥
अनङ्गमदनां पश्चादनङ्गमदनातुराम् ।
सुभगां पञ्चमीं देवि भगां च भगसपीणीम् ॥ ४-६१ ॥
भगमालां महादेवि पूर्वादिक्रमतो यजेत् ।
अष्टयोनिषु देवेशि ततो ब्राह्म्यादिका यजेत् ॥ ४-६२ ॥
युग्मयुग्मप्रभेदेन वसुपत्रे वरानने ।
असिताङ्गं तथा ब्राह्मीं रुरुं माहेश्वरीं प्रिये ॥ ४-६३ ॥
चण्डं कौमारिकां चैव क्रोधं वैष्णवदेवताम् ।
उन्मत्तं चैव वाराहीं माहेन्द्रीं च कपालिनम् ॥ ४-६४ ॥
भीषणं चैव चामुडां संहारं चाष्टमं यजेत् ।
महालक्ष्मीं महादेवि युग्मानि परिपूजयेत् ॥ ४-६५ ॥
पश्चिमादिक्रमेणैव ततः पीठाष्टकं यजेत् ।
कामरूपं च मलयं ततः कौलगिरिं तथा ॥ ४-६६ ॥
कुलान्तकं च चौहारं जालन्धरमतः परम्म् ।
उड्डीयानं द्देवकूटं पीठाष्टकमिदं क्रमात् ॥ ४-६७ ॥
ग्रन्थिस्थानेषु सम्पूज्यं पश्चिमादिक्रमेण तु ।
त्रिशूलं परितो देवि मातृकावृत्तमण्डले ॥ ४-६८ ॥
भैरवा दश सम्पूज्याः पश्चिमादिक्रमात् प्रिये ।
हेतुकं चैव वेतालं तन्मध्ये त्रिपुरान्तकम् ॥ ४-६९ ॥
अग्निजिह्वं च कालान्तं तथा चैव कपालिनम् ।
एकपादं भीमरूपं मलयं हाटकेश्वरम् ॥ ४-७० ॥
दशाभ्यर्च्य महादेवि भैरवान् मातृमण्डले ।
चतुरस्रे महेशानि लोकपालाष्टकं यजेत् ॥ ४-७१ ॥
इन्द्रमग्निं यमं देवि राक्षसं वरुणं तथा ।
वायुं कुबेरमीशानं पूर्वादिक्रमतो यजेत् ॥ ४-७२ ॥
ब्रह्माणं चैव विष्णुं च ऊर्ध्वाधः क्रमतो यजेत् ।
वाङ्कारं बीजमुच्चार्य बटुकाय नमो लिखेत् ॥ ४-७३ ॥
याङ्कारं बीजमुच्चार्य योगिनीभ्यो नमस्तथा ।
क्षाङ्कारं बीजमुच्यार्य क्षेत्रपालाय वै नमः ॥ ४-७४ ॥
गाङ्कारं बीजमुच्चार्य ततो गणपतिं लिखेत् ।
ङेन्तं नमः पश्चिमादिदिक्षु पूज्याः क्रमेण तु ॥ ४-७५ ॥
चतुरस्रे तु सम्पूज्या विदिक्षु परमेश्वरि ।
वायव्यादिक्रमेणैव वक्ष्यमाणा महेश्वरि ॥ ४-७६ ॥
वसवो द्वादशाऽऽदित्या रुद्राश्चैव ततः प्रिये ।
सर्वे भूता वरारोहे क्रमेण परिपूजयेत् ॥ ४-७७ ॥
पूजां विधाय देवेशीमुपचारैः प्रपूजयेत् ।
उत्तराभिमुखो भूत्वा यदा चक्रं प्रपूजयेत् ॥ ४-७८ ॥
उत्तराशा तदा देवि पूर्वाशैव व्यवस्थिता ।
पश्चिमाशामुखो देवि यदा चक्रं प्रपूजयेत् ॥ ४-७९ ॥
पश्चिमाशा तदा देवि पूर्वाशैव व्यवस्थिता ।
दक्षिणाशामुखो देवि तदा चक्रं प्रपूजयेत् ॥ ४-८० ॥
दक्षिणाशा ततो देवि पूर्वाशैव न संशयः ॥ ४-८१ ॥
इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे त्रिपुरेश्वरीपूजाक्रमविधिर्नाम
चतुर्थः पटलः ॥ ४ ॥