०२

अथ द्वितीयः पटलः

श्री देव्युवाच –

त्रिपुरा परमेशान ज्ञानमार्गेण सूचिता ।
तत्त्वरूपेण कथय यद्यहं तव वल्लभा ॥ २-१ ॥
त्रिपुरायाः प्रकारस्तु मन्त्रभेदश्च किंविधः ।
सर्वं तच्छ्रेतुमिच्छामि येन सौभाग्यमाप्नुयाम् ॥ २-२ ॥

ईश्वर उवाच –

त्रिपुरा त्रिविधा देवि बालां तु प्रथमं शृणु ।
यया विज्ञातया देवि साक्षात्सुरगुरुर्भवेत् ॥ २-३ ॥
सूर्यस्वरं समुच्चार्य बिन्दुनादकलान्वितम् ।
स्वरान्तं पृथिवीयुक्तं तूर्यस्वरविभूषितम् ॥ २-४ ॥
बिन्दुनादकलाक्रान्तं सर्गवान्भृगुरव्ययः ।
शक्रस्वरसमोपेतो विद्येयं त्र्यक्षरी मता ॥ २-५ ॥
गङ्गातरङ्गकल्लोलवाक्पटुत्वप्रदायिनी ।
महासौभाग्यजननी महासारस्वतप्रदा ॥ २-६ ॥
महासौन्दर्यसुभगा महामृत्युविनाशिनी ।
ब्रह्मविष्णुसुरेन्द्रादिवन्दिता पापहारिणी ॥ २-७ ॥
सर्वतीर्थमयी देवी स्वर्णरत्नादिदायिनी ।
सर्वलोकमयी देवी सर्वलोकवशङ्करी ॥ २-८ ॥
सर्वक्षेत्रमयी देवी सर्वकार्यार्थसाधिका ।
महामोक्षप्रदा शान्ता महामुक्तिप्रदायिनी ॥ २-९ ॥
वक्त्रकोटिसहस्रैस्तु जिह्वाकोटिशतैरपि ।
वणीतुं नैव शक्येयं विद्येयं त्र्यक्षरी परा ॥ २-१० ॥
पञ्चवक्त्रेण जिह्वाभिः पञ्चभिर्नैव शक्यते ।
वाग्भवेनेन्दुमहसा वागीशत्वप्रदायिनी ॥ २-११ ॥
कामराजेन बीजेन शक्रगोपस्फुरत्त्विषा ।
त्रैलोक्यं मोहयन्तीयं शक्तिबीजेन सुव्रते ॥ २-१२ ॥
स्फुरत्सुवर्णवर्णेन सौभाग्यं तस्य मन्दिरे ।
एतस्याः साधनं देवि कथयामि समासतः ॥ २-१३ ॥
प्रातरुत्थाय देवेशि ब्रह्मरन्ध्रे निजं गुरुम् ।
स्मृत्वा देवीमयो भूत्वा तत्प्रभापटलामलः ॥ २-१४ ॥
स्नानकर्म ततः कुर्यान्मूलमन्त्रं स्मरन्बुधः ।
त्रिवारमञ्जलौ वारि मन्त्रयित्वा तु मूर्धनि ॥ २-१५ ॥
निक्षिपेत् परमेशानि त्रिधा चाऽऽचम्य तर्पयेत् ।
त्रिधा च प्रोक्षयेद्देहं सूर्यायार्घं निवेदयेत् ॥ २-१६ ॥
मूलमन्त्रेण देवेशि सूर्यमन्त्रेण वा प्रिये ।
शिवबीजं वह्निसंस्थं वामनेत्रविभूषितम् ॥ २-१७ ॥
बिन्दुनादसमायुक्तं हंसःपदमथोच्चरेत् ।
अनेन मनुना देवि सूर्यायार्घ्यं निवेदयेत् ॥ २-१८ ॥
यथाशक्त्या जपेन्मन्त्रं गायत्रीं परमेश्वरीम् ।
मूलविद्याद्यमुच्चार्य वागीश्वरि च विद्महे ॥ २-१९ ॥
द्वितीयं बीजमुच्चार्य कामेश्वरि च धीमहि ।
तृतीयं बीजमुच्चार्य तन्नः शक्तिः प्रचोदयात् ॥ २-२० ॥
यथाशक्त्या जपेत्पश्चाद्यागमण्डपमाविशेत् ।
धातारं च विधातारं गङ्गां च यमुनां तथा ॥ २-२१ ॥
द्वारश्रियं देहलीं च पुरुषं वास्तुसञ्ज्ञकम् ।
सम्पूज्य परमेशानि पूजयेदासनं बुधः ॥ २-२२ ॥
पराबीजं समुच्चार्य ततश्चाऽऽधारपूर्वकम् ।
शक्तीतिपदमालिख्य कमलासनमालिखेत् ॥ २-२३ ॥
ङेन्तं नमःपदं कृत्वा चाऽऽसनस्य मनुः प्रिये ।
उपविश्य ततो देवि भूतान् सन्त्रासयेद्बुधः ॥ २-२४ ॥
भूतशुद्धिविधिं कुर्यात्प्राणायामत्रयेण तु ।
वायुबीजं समुच्चार्य षट्कोणादागतं महत् ॥ २-२५ ॥
कृष्णवर्णं महेशानि शोषयेदेनसः तनुम् ।
आसने सम्यगासीनो वामेनाऽऽपूर्य चोदरम् ॥ २-२६ ॥
कुम्भकेन त्रिरावृत्त्या दक्षिणेन च रेचयेत् ।
कनिष्ठानामिकाङ्गुष्ठेर्यन्नासापुटधारणम् ॥ २-२७ ॥
प्राणायामः स विज्ञेयस्तर्जनीमध्यमे विना ।
वामकुक्षिस्थितं पापपुरुषं कज्जलप्रभम् ॥ २-२८ ॥
ब्रह्महत्या शिरो यस्य स्वर्णस्तेयं भुजद्वयम् ।
सुरापानहृदा युक्तं गुरुतल्पकटिद्वयम् ॥ २-२९ ॥
तत्संसगीपदद्वन्द्वमङ्गप्रत्यङ्गपातकम् ।
उपपातकरोमाणं कृष्णश्मश्रुविलोचनम् ॥ २-३० ॥
खड्गचर्मधरं क्रुद्धं कुक्षौ पापं विचिन्तयेत् ।
शोषयेद्वायुबीजेन देहं च परमेश्वरि ॥ २-३१ ॥
पापेन सहितं शुष्कं कृत्वा तेन क्रमेण हि ।
वह्निबीजेन सन्दग्धं पापेन सहितं शिवे ॥ २-३२ ॥
पापेन रहितं पश्चात् प्लावयेदमृताम्बुना ।
प्राणप्रतिष्ठामन्त्रेण जीवं देहे निधापयेत् ॥ २-३३ ॥
मुखवृत्तं समुच्चार्य हंसस्तु विपरीततः ।
उच्चरेत्परमेशानि विद्येयं त्र्यक्षरी भवेत् ॥ २-३४ ॥
प्राणप्रतिष्ठामन्त्रोऽयं सर्वकर्माणि साधयेत् ।
तेनैव विधिना देवि स्थिरी कुर्यान्निजां तनुम् ॥ २-३५ ॥
विशुद्धदेहो देवेशि न्यासं कुर्यात्समाहितः ।
ऋषिरस्य महेशानि दक्षिणामूतीरव्ययः ॥ २-३६ ॥
न्यसेच्छिरसि पूज्यत्वात्पङ्क्तश्छन्दो मुखे प्रिये ।
देवता हृदये बाला त्रिपुरा परमेश्वरी ॥ २-३७ ॥
बीजं तु वाग्भवं शक्तिस्तार्तीयं कीलकं तथा ।
कामराजं महेशानि छन्दो न्यास उदाहृतः ॥ २-३८ ॥
नाभ्यादिपादपर्यन्तं गलादानाभि चापरम् ।
मूर्धादिगलपर्यन्तं त्र्यक्षरीं विन्यसेत्क्रमात् ॥ २-३९ ॥
वामपाणितले चैक दक्षपाणितले तथा ।
उभयोः सम्पुटे विद्यां त्रिबीजां विन्यसेत्प्रिये ॥ २-४० ॥
पञ्च बाणान्क्रमेणैव कराङ्गुलिषु विन्यसेत् ।
अङ्गुष्ठादिकनिष्ठान्तं क्रमेण परमेश्वरि ॥ २-४१ ॥
थान्तद्वयं समालिख्य वन्हिसंस्थ क्रमेण हि ।
मुखवृत्तेन नेत्रेण वामेन परिमण्डितम् ॥ २-४२ ॥
बाणद्वयमिदं प्रोक्तं मादनं भूमिसंस्थितम् ।
चतुर्थस्वरबिन्द्वाढ्यं नावरूपं वरानने ॥ २-४३ ॥
फान्तं क्रमसमायुक्तं वामकर्णविभूषितम् ।
बिन्दुनादसमायुक्तं सर्गवांश्चन्द्रमाः प्रिये ॥ २-४४ ॥
पञ्च बाणा महेशानि नामानि शृणु पार्वति ।
क्षोभणद्रावणौ देवि तथा कर्षणसञ्ज्ञकः ॥ २-४५ ॥
वश्योन्मादौ क्रमेणैव नामानि परमेश्वरि ।
कामास्तत्रैव विज्ञेयास्तेषां बीजानि संशृणु ॥ २-४६ ॥
पराबीजं मध्यबाणं वाग्भवं परमेश्वरि ।
तूर्यबाणं ततश्चैव स्त्रीबीजं च क्रमात्प्रिये ॥ २-४७ ॥
पञ्च कामा इमे देवि नामानि शृणु वल्लभे ।
काममन्मथकन्दर्पमकरध्वजसञ्ज्ञकाः ॥ २-४८ ॥
मीनकेतुर्महेशानि पञ्चमः परिकीतीतः ।
एतान्विन्यस्य देवेशि करन्यासं ततः परम् ॥ २-४९ ॥
मूलविद्यां द्विरावृत्त्या सर्वाङ्गुलितलेषु च ।
षडङ्गक्रमयोगेन मातृकां विन्यसेत्ततः ॥ २-५० ॥
मातृकां शृणु देवेशि न्यासात्पापनिकृन्तनीम् ।
ऋषिर्ब्रह्माऽस्य मन्त्रस्य गायत्रं छन्द उच्यते ॥ २-५१ ॥
देवता मातृका देवि बीजं व्यञ्जनसञ्चयः ।
शक्तयस्तु स्वरा देवि षडङ्गन्यासमाचरेत् ॥ २-५२ ॥
अंआम्मध्ये कवर्गं च इम् ई मध्ये चवर्गकम् ।
उम् ऊं मध्ये टवर्गं च एम् एं मध्ये तवर्गकम् ॥ २-५३ ॥
ॐ औ मध्ये पवर्गं च क्रमेण परमेश्वरि ।
अनुस्वारविसर्गान्न्ते यशवर्गौ सलक्षकौ ॥ २-५४ ॥
हृदयं च शिरा देवि शिखां च कवचं ततः ।
नेत्रमस्त्रं न्यसेन्ङेन्तं नमःस्वाहाक्रमेण तु ॥ २-५५ ॥
वषड्ढुंवौषडन्तं च फडन्तं योजयेत्प्रिये ।
षडङ्गोऽयं मातृकायाः सर्वपापहरः स्मृतः ॥ २-५६ ॥
द्व्यष्टपत्राम्बुजे कण्ठे स्वरान्षोडश विन्यसेत् ।
द्वादशच्छदहृत्पद्मे कादीन्द्वादश विन्यसेत् ॥ २-५७ ॥
दशपत्राम्बुजे नाभौ डकारादीन्न्यसेद्दश ।
षट्पत्रे लिङ्गसंस्थे च बकारादीन्न्यसेच्च पट् ॥ २-५८ ॥
आधारे चतुरो वर्णान्न्यसेद्वादींश्चतुर्दले ।
हक्षौ भ्रूमध्यगे पद्मे द्विदले विन्यसेत्प्रिये ॥ २-५९ ॥
इत्यन्तर्मातृकां न्यस्य सर्वाङ्गन्यासमाचरेत् ।
मूर्धनि मुखवृत्ते च नेत्रकर्णेषु पार्वति ॥ २-६० ॥
नासागण्डोष्ठदन्तेषु मूर्धास्येषु च विन्यसेत् ।
पाणिपादयुगस्यान्ते सन्ध्यग्रेषु क्रमात्प्रिये ॥ २-६१ ॥
पार्श्वद्वये पृष्ठनाभिजठरेषु क्रमान्न्यसेत् ।
यादीन्सधातुकान्देवि क्रमेणैव ततो न्यसेत् ॥ २-६२ ॥
त्वगसृग्मांसमेदोस्थिमज्जाशुक्राणि धातवः ।
प्राणात्मा चैव जीवात्मा परमात्मा च विन्यसेत् ॥ २-६३ ॥
हृदये बाहुमूले च तथाऽपरगले प्रिये ।
कक्षयोर्हृदयप्रान्ते पाणिपादयुगे तथा ॥ २-६४ ॥
जठराननयोर्देवि व्यापकं च क्रमान्न्यसेत् ।
पञ्चाशद्वर्णरूपां च कन्दर्पशशिभूषणाम् ॥ २-६५ ॥
शुद्धस्फटिकसङ्काशां शुद्धक्षौमविराजिताम् ।
मुक्तावज्रस्फुरद्भूषां जपमालां कमण्डलुम् ॥ २-६६ ॥
पुस्तकं वरदानं च विभ्रतीं परमेश्वरीम् ।
एवं ध्यात्वा न्यसेत्पश्चाद्विद्यान्यासं सुरेश्वरि ॥ २-६७ ॥
कुर्वीत देहसन्न्नाहं त्रिभिर्बीजैः क्रमात्प्रिये ।
करयोवीन्यसेदादौ मणिबन्धे तले नखे ॥ २-६८ ॥
दक्षे वामे च विन्यस्य कक्षकूर्परपाणिषु ।
पुनर्दक्षे च वामे च पादयोश्च तथा न्यसेत् ॥ २-६९ ॥
पादान्ते हृदये लिङ्गे न्यसेद्देवि ततः परम् ।
एतेष्वङ्गेषु देवेशि संहारक्रमतो न्यसेत् ॥ २-७० ॥
विद्यां सृष्टिक्रमेणैव जानीहि परमेश्वरि ।
ततो न्यसेन्महादेवि नवयोन्यङ्किताभिधम् ॥ २-७१ ॥
कर्णयोश्चुबुके भूयः शङ्खयोर्मुखमण्डले ।
नेत्रयोर्नासिकायां च बाहुयुग्मे हृदि प्रिये ॥ २-७२ ॥
तथा कूर्परयोर्नाभौ जान्वोरन्धुनि विन्यसेत् ।
पादयोर्देवि गुह्ये च पार्श्वयोर्हृत्स्तनद्वये ॥ २-७३ ॥
कण्ठे च नवयोन्याख्यं न्यसेद् बीजत्रयात्मकम् ।
षडङ्गमाचरेद्देवि द्विरावृत्त्या क्रमेण तु ॥ २-७४ ॥
त्रिद्व्येकदशकत्रिद्विसङ्ख्यया शैलसम्भवे ।
अङ्गुलीनां पुनर्देवि बाणान्कामांश्च विन्यसेत् ॥ २-७५ ॥
ललाटगलहृन्नाभिमूलाधारेषु वै क्रमात् ।
मूलेन व्यापकं कृत्वा प्राणायामं समाचरेत् ॥ २-७६ ॥

इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे बालान्यासविधिर्नाम
द्वितीयः पटलः ॥ २ ॥