अथ प्रथमः पटलः
श्रीदेव्युवाच –
गणेशनन्दिचण्डेशसुरेन्द्रपरिवारित ।
सर्ववन्द्य गणाधीश किं त्वया जप्यते सदा ॥ १-१ ॥
अक्षमालेति किं नाम संशयो मे हृदि स्थितः ।
शब्दातीतं परं ब्रह्म त्वमेव परमार्थवित् ॥ १-२ ॥
कथयाऽऽनन्दनिष्यन्दसान्द्रमानसनिश्चयात् ।
ईश्वर उवाच –
कथयामि वरारोहे यन्मया जप्यते सदा ॥ १-३ ॥
अकारादिक्षकारान्ता मातृका पीठरूपिणी ।
चतुर्दशस्वरोपेता बिन्दुत्रयविभूषिता ॥ १-४ ॥
अनुस्वारेण देवेशि बिन्दुनैकेन मण्डिता ।
विसर्गेण च बिन्दुभ्यां संलग्नाभ्यां विराजिता ॥ १-५ ॥
कलामण्डलमाख्यातं शक्तिरूपं महेश्वरि ।
ककारादिक्षकारान्ता वर्णास्तु शिवरूपिणः ॥ १-६ ॥
व्यञ्जनत्वात्सदाऽऽनन्देनोच्चारसहिता यतः ।
उच्चरेत्स्वरसम्भिन्नांस्तदा देवि न संशयः ॥ १-७ ॥
पञ्चाशद्वर्णरूपेण शब्दाख्यं वस्तु सुव्रते ।
अकारः प्रथमो देवि क्षकारोऽन्तिम इष्यते ॥ १-८ ॥
अक्षमालेति विख्याता मातृका वर्णरूपिणी ।
शब्दब्रह्मस्वरूपेयं शब्दातीतं तु जप्यते ॥ १-९ ॥
शब्दातीतं परं धाम गणनारहितं सदा ।
आत्मस्वरूपं जानीहि हंसस्तु परमेश्वरः ॥ १-१० ॥
अस्मिन्नेव परे तत्त्वे बिन्दुत्रयविभूषिते ।
मातृकासम्पुटत्वेन संस्थितं व्यक्तिमागतम् ॥ १-११ ॥
बिन्दुत्रयं प्रवक्ष्यामि बीजरूपं वरानने ।
हकारं बिन्दुरूपेण ब्रह्माणं विद्धि पार्वति ॥ १-१२ ॥
सकारः सर्गबिन्दुभ्यां हरिश्चाहं सुरेश्वरि ।
अविनाभावसंस्थानाल्लोके हरिहराविति ॥ १-१३ ॥
ब्रह्मबिन्दुर्महेशानि वामा शक्तिनीगद्यते ।
विश्वं वमति यस्मात्तद्वामेयं परिकीतीता ॥ १-१४ ॥
ज्येष्ठा तु वैष्णवी शक्तिः पालयन्ती जगत्त्रयम् ।
ततो रौद्री ग्रसन्ती तु क्रमेण परमेश्वरी ॥ १-१५ ॥
एवं बिन्दुत्रयं विद्धि गुणत्रयविभूषितम् ।
बिन्दुशब्देन शून्यं तु तथाऽपि गुणसूचकम् ॥ १-१६ ॥
इच्छाज्ञानक्रियारूपं भूर्भुवःस्वःस्वरूपकम् ।
पुरत्रयात्मकं विद्धि तत्त्वत्रयमयं प्रिये ॥ १-१७ ॥
बिन्दुत्रये महेशानि सर्वमेतत्प्रतिष्ठितम् ।
अम्बिकाबिन्दुभिर्देवि गुणत्रयपरम्परा ॥ १-१८ ॥
जाग्रत्स्वप्नसुषुप्तिश्च बिन्दुत्रयभवा शिवे ।
जाग्रत्सत्त्वगुणा ज्ञेया केवलं शक्तिरूपिणी ॥ १-१९ ॥
मनोव्यावृत्तिविस्तारा दुःखदोषाभिलाषिणी ।
शिवरूपा सुषुप्तिस्तु सर्वव्यावृत्तिहारिणी ॥ १-२० ॥
देहधर्मपरित्यक्ता शिवतत्त्वस्वरूपिणी ।
तमोगुणमयी कर्म ग्रसन्ती मोक्षरूपिणी ॥ १-२१ ॥
सुषुप्त्यन्ते जागरादौ स्वप्नावस्था रजोमयी ।
उभयैर्लक्षणैर्युक्ता तृष्णालक्षणलक्षिता ॥ १-२२ ॥
अवस्थात्रयमेतत्तु कथितं बिन्दुसम्भवम् ।
एतस्मिन्बैन्दवे ज्ञाते तुर्यावस्थां शृणु प्रिये ॥ १-२३ ॥
निद्रादौ जागरस्यान्ते स्फुरत्तामात्रलक्षणा ।
अवस्था पूर्णतां प्राप्ता तुर्यावस्था परा कला ॥ १-२४ ॥
भावाभावपरित्यक्ता गुणातीता सुनिश्चला ।
इयमेव यदा देवि मनसा प्राप्यते सदा ॥ १-२५ ॥
उन्मनी नाम सद्रूपा ज्ञानवल्ली चिदात्मिका ।
बिन्दुत्रयेण नादेन प्रसृताऽऽनन्दरूपिणी ॥ १-२६ ॥
बिन्दुत्रयसमायोगात् त्रिपुरानामरूपिणी ।
वर्णातीता सवर्णाऽपि केवलं ज्ञानचित्कला ॥ १-२७ ॥
एनां विद्यां समाराध्य सर्वज्ञत्वं मयि प्रिये ।
उपास्यते मया देवि त्रिपुरा चाक्षमालया ॥ १-२८ ॥
इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे स्वरूपज्ञेयमात्रं
नाम प्रथमः पटलः ॥ १॥