ईश्वरौवाच
अथवक्ष्येमहेशानिश्रीविद्याक्रममुत्तमम्
अग्नीशासुरवायव्यमध्यदिक्ष्वङ्गपूजनं १
स्वस्वमुद्राक्रमेणैवपूजयेन्मनुवित्तमः
भूविंवंशोडशारञ्चवसुपत्रङ्क्रमेणतु २
सृष्टिचक्रम्भवेदत्रपूजनङ्कथ्यतेप्रिये
मन्वस्रन्दशकोणञ्चद्वितीयन्दशकोणकं ३
स्थितिचक्रम्पूजनञ्चविभेदेनयजेत्तथा ४
अष्टकोणन्त्रिकोणञ्चवैदवंसंहृतिर्भवेत्
तृतीयःसकलापूज्याअनाख्यंसकलम्भवेत् ५
तुर्याविद्यास्तुसकलाःपूजयेत्क्रमतःसुधीः
अनेनैवप्रकारेणविद्यावृन्दम्प्रपूजयेत् ६
श्रीकोशंसिंहासनगतन्तथाकल्पलतात्मकं
तथारत्नात्मकन्देविचतुरायतनात्मकं ७
पृ० ६५अ) चतुरन्वयगम्भीरंसर्वञ्चपूजयेत्सुधीः
त्रैलोक्यमोहनेचक्रेपञ्चाशद्वर्णविग्रहे ८
प्रकटास्तत्रसंयोज्यासिद्धयोदशसुन्दरि
सद्यःसन्तप्तहेमाभाःपाशाङ्कुशधराप्रिये ९
महाभाण्डाररत्नानिससुवर्णानिवैनिधीन्
प्रयछन्त्यःसाधकभ्योपद्महस्तास्तुपूजयेत् १०
अणिमालघिमासिद्धिर्महिमेशित्वरूपिणी
वशित्वसिद्धिप्राकाम्याभुक्तिरिछाष्टमीभवेत् ११
प्राप्तिसिद्धिसर्वकामासिद्धयःप्रकटायजेत्
द्वारदक्षिणभागेषुतथाकोणेषुचक्रमात् १२
अधऊर्ध्वक्रमात्पूज्यापश्चिमाशादिदेशिकैः
व्राह्मीमाहीश्वरीचैवतथेन्द्राणीतृतीयके १३
कौमारीवैष्णवीचैवषष्टीवाराहिकाभवेत्
चामुण्डाचतथालक्ष्मीःअपरेणचभागतः १४
पाशाङ्कुशधरासर्वाक्रमेणदधतीस्मरेत्
विद्यांशूलञ्चवज्रञ्चशक्तिञ्चक्रङ्गदान्तथा १५
धैर्यान्त्रमालिकम्पद्मङ्क्रमेणपरमेश्वरि
सर्वाभरणसम्पन्नासंस्मरेत्सिद्धिहेतवे १६
सर्वाद्याक्षोभिणीचैवद्राविण्याकर्षणीतथा
धैर्यान्त्रमालिकम्पद्मङ्क्रमेणपरमेश्वरि १७
सर्वाभरणसम्पन्नासंस्मरेत्सिद्धिहेतवे
पृ० ६५ब्) सर्वाद्याक्षोभिणीचैवद्राविण्याकर्षणीतथा १८
वश्योन्मादाङ्कुशाख्याचतथामुद्राचखेचरीं
बीजयोनीत्रिखण्डाचपूर्वपश्चिमभागतः १९
पद्मरागप्रतीकाशासिन्दूरतिलकान्विताः
रक्तवस्त्रपरीधानारक्तमालाविभूषिताः २०
स्वस्वमुद्राङ्किताःसर्वाःपाशाङ्कुशलसत्कराः
पूज्यामुद्राप्रयत्नेनस्वेष्टसंसिद्धिहेतवे २१
पश्चिमादिक्रमेणैवप्रकटाचतुरस्रके
सर्वाशापूरकेचक्रेकलास्वरविजृम्भृते २२
पश्चिमादिविलोमेनगुप्ताःसम्पूजयेत्क्रमात्
कामादिकर्षिणीन्नित्यांवुध्याकर्षणिकान्तथा २३
अहङ्काराकर्षिणीचशव्दाकर्षणिकातथा
स्पर्शाकर्षणिकातद्वद्रूपाकर्षणिकान्तथा २४
रसाकर्षणिकान्देविगन्धाकर्षणिकान्तथा
चित्ताकर्षणिकान्तद्वद्वैर्याकर्षणिकाम्प्रिये २५
नामाकर्षणिकाञ्चैवबीजाकर्षणिकान्तथा
अमृताकर्षणीञ्चैवस्मृत्याकर्षणिकाम्प्रिये २६
शरीराकर्षणीन्नित्यामात्माकर्षणिकान्ततः
एतानित्याकलादेविचन्द्रमण्डलमध्यगा २७
पृ० ६६अ) स्वरलग्नाःस्मरेन्नित्यंश्रवत्पीयूषवर्षिणीः
पाशाङ्कुशसुधापूर्णकाश्मीरघटदानदा २८
सर्वसङ्क्षोभणेचक्रेकादिलक्षान्तवर्गिणीः
देवीगुप्ततरापूज्यावन्धूककुसुमप्रियाः २९
पाशाङ्कुशास्फुरल्लीलनीलोत्पलकरास्मरेत्
पूर्वादिषुचतुर्दिक्षुकोणेष्वग्न्यादिषुक्रमात् ३०
अनङ्गकुसुमाचैवतथाचानङ्गमेखला
तथानङ्गादिमदनाअनङ्गमदनातुरा ३१
अनङ्गरेखाचानङ्गवेगाचानङ्गपूर्विका
अङ्कुशाचतथानङ्गमालिनीपरमेश्वरी ३२
महासौभाग्यदाचक्रेकटवर्णविराजिते
सम्प्रदायाख्ययोगिन्यःसर्वाभरणभूषिता ३३
इन्द्रगोपनिभाःसर्वाःसगर्वोन्मत्तयौवनाः
पाशाङ्कुशौदर्पणञ्चपानपात्रंसुधामयं ३४
विभृत्यःसर्वसुभगाःपश्चिमादिविलोमतः
शक्तीःप्रपूजयेद्देविसम्प्रदायेनसिद्धये ३५
सर्वसङ्क्षोभिणीशक्तिःसर्वविद्राविणीतथा
सर्वाकर्षणिकाशक्तिःसर्वाह्लादकरीप्रिये ३६
सर्वसम्मोहिनीशक्तिःसर्वस्तम्भनकारिणी
सर्वजम्भनिकानामशक्तिःसर्ववशङ्करी ३७
पृ० ६६ब्) सर्वार्थरञ्जिनीशक्तिःसर्वोन्मादनकारिणी
सर्वार्थसाधकोशक्तिःसर्वसम्पत्तिरूपिणी ३८
सर्वमन्त्रमयीशक्तिःसर्वद्वन्द्वक्षयङ्करी
सर्वार्थसाधकेचकेणभवर्णविशोभिते ३९
जपाकुसुमसङ्काशास्फुरन्मणिविभूषिता
महासौभाग्यगम्भीरापीनवृतघनस्तनी ४०
रत्नपेदीविनिक्षिप्तसाधकेप्सितभूषणान्
नानारत्नमयान्दिव्यान्ददतीतिस्मिताननाः ४१
पाशाङ्कुशौचदधतीसंस्मरेत्कुलयोगिनीः
पश्चिमादिविलोमेनपूजयेत्सर्वसिद्धिदाः ४२
सर्वसिद्धिप्रदादेवीसर्वसम्पत्प्रदाततः
सर्वप्रियङ्करीचैवसर्वमङ्गलकारिणी ४३
सर्वकामप्रदादेवीसर्वदुःखविमोचिनी
सर्वमृत्युप्रशमनीसर्वविघ्ननिवारिणी ४४
सर्वाङ्गसुन्दरीदेवीसर्वसौभाग्यदायिनी
सर्वरक्षाकरेचक्रेमक्षवर्णविभूषिते ४५
पश्चिमादिविलोमेननिगर्भायोगिनीर्जपेत्
उद्यद्भास्वत्सहस्राभामुक्तालङ्कारभूषिता ४६
पाशण्टङ्कायुधज्ञानमुक्तावरलसत्कराः
देवीप्रपूजयेदेताःयथेप्सितफलप्रदाः ४७
पृ० ६७अ) सर्वज्ञासर्वशक्तिश्चसर्वैश्वर्यफलप्रदा
सर्वज्ञानमयीदेवीसर्वव्याधिविनाशिनी ४८
सर्वाधारस्वरूपाचसर्वपापहरातथा
सर्वानन्दमयीदेवीसर्वरक्षास्वरूपिणी ४९
सर्वेप्सिताफलप्रदादशमीपरमेश्वरि
सर्वरोगहरेचक्रेवर्गाष्टकविजृम्भृते ५०
पश्चिमादिविलोमेनरहस्यायोगिनीर्यजेत्
श्रीपीठपरितोधस्ताद्दाडिमीकुसुमप्रभाः ५१
रक्तवस्त्रपरीधानारक्तगन्धानुलेपनाः
रक्तपुष्पाक्षतैःसम्यक्पूजयेत्सर्वसिद्धिदाः ५२
नानाभरणगम्भीरापञ्चवाणधनुर्धराः
पुस्तकंवरदानञ्चदधतीर्वर्गसंस्थिताः ५३
वर्गाष्टकमहावर्णेविन्दुनादाङ्कितालिखेत्
अवर्गान्तेरेफवक्ष्मावामकर्णेन्दुविन्दुमत् ५४
देवीवाग्देवतापूज्यावशिनीनामसुन्दरी
कवर्गान्तेकुलयुताम्पराङ्कामेश्वरींलिखेत् ५५
चवर्गान्तेनवक्ष्माढ्यंवामनेत्रंशशीसमम्
अनेनमोहिनीपूज्याटर्गान्तेततःपरम् ५६
वायुक्ष्मावामकर्णेन्दुनादमद्विमलांयजेत्
तवर्गान्तेजकालाग्निवामाक्षीदुकलात्मिकां ५७
पृ० ६७ब्) अरुणाम्पूजयेद्देविपवर्गान्तेथकथ्यते
व्योमजीवमहीनीरवायुमर्घाशभूषितम् ५८
अनेनजपिनीपूज्यापवर्गान्तेथकथ्यते
फरेफकालपवनश्रवणान्तेनपूजयेत् ५९
सर्वेश्वरींसवर्गातेङ्क्षमावह्निसविन्दुमत्
अनेनकौलिनीन्देवीम्पूजयेदष्टमींवुधः ६०
अष्टकान्तेमहेशानिएतावाग्देवतायजेत्
सर्वसिद्धिप्रदेचक्रेत्वकथैश्चमहाक्षरैः ६१
त्रिरेखासर्वशोभाढ्येसमस्तार्णविजृम्भृते
परापररहस्याख्यायोगिनीपूजयेत्क्रमात् ६२
पश्चिमादिक्रमेणैवयुग्मयुग्मविभेदतः
कामेशस्यचकामेशावाणाःसाधारणाप्रिये ६३
ततुर्यन्तद्वितीयञ्चविन्दुनादाङ्कितङ्क्रमात्
कामेश्वरस्यकामेस्याःचापयुग्मंयजेत्प्रिये ६४
अनन्तोविन्दुनामाढ्योहृल्लेखापाशबीजकं
कामेश्वरस्यकामेश्याःक्रमेणपरमेश्वरी ६५
अङ्कुशस्तुसमानंस्यादुभयोपूजयेत्सुधी
चतुर्दिक्षुविशोभाढ्यायौवनोन्नतविग्रहाः ६६
रक्तविद्युल्लताकाणुदामकुसुमान्विताः
नवरत्नविशोभाढ्यास्वस्वायुधकराःक्रमात् ६७
पृ० ६८अ) जम्भमोहवशस्तम्भपदमन्त्रान्विताःशुभाः
अङ्गाचरणवाह्येतुआयुधाष्टकमर्चयेत् ६८
कोणत्रयेषुसम्पूज्यास्तिस्रःकूटत्रयान्विताः
कामेश्वरीचवज्रेशीतृतीयाभगमालिनी ६९
कामेश्वरीशुक्लवर्णाशुक्लमानुलेपना
मुक्ताफलस्फुरद्भूषानानाभरणभूषिता ७०
पुस्तकञ्चाक्षसूत्रञ्चवरदञ्चाभयङ्क्रमात्
द(द) धतीञ्चाग्रतःपूज्यारुद्रशक्तिःप्रकीर्तिताः ७१
वज्रेश्वरीकुङ्कुमाभ्यास्फुरद्रत्नविभूषिताः
वालार्कवसनानीलकर्णकुञ्चितलोचना ७२
इक्षुकोदण्डपुष्पेषुवरदाभयशोभिता
वज्रेश्वरीदक्षभारीविष्णुशक्तिर्महेश्वरि ७३
उत्तरेभगमालांवासद्यःसन्तप्तहेमभा
अनर्घ्यरत्नरचितभूषणाभुवनेश्वरी ७४
पाशाङ्कुशज्ञानमुद्रावरवाणकरांवुजा
व्रह्मशक्तिर्महेशानीतापत्रयनिकृन्तिनी ७५
सर्वानन्दमयीनादरूपेशव्दातिगोचरे
परापररहस्याख्यायोगिनीरतिपूर्विका ७६
त्रिकूटायातुसम्पूज्यामहात्रिपुरसुन्दरी
श्रीविद्यापूजयेद्देविचिन्मयींव्रह्मरूपिणीं
पृ० ६८ब्) तर्पणानिपुनर्दद्याद्गन्धपुष्पाक्षतैर्यजेत् ७७
मानसैःप्रकटैर्देवीम्पूजयेद्वहुभिःप्रिये
मुद्रासन्दर्शयेन्मन्त्रीवन्धूककुसुमप्रभा ७८
नानालङ्कारसुभगास्त्रैलोक्यवशकारिणी
स्वस्वमुद्राःकराःसर्वाःश्रीविद्यासम्मुखाःस्मरेत् ७९
प्रतिचक्रतुमुद्रास्तुक्रमाच्चक्रेश्वरींयजेत्
ततश्चक्रस्यमध्येतुत्वाद्यपूजागताप्रिये ८०
त्रिपुरास्फटिकाभासामुक्तारत्नविभूषिता
पुस्तकञ्चाक्षमालाञ्चकलशम्पद्ममुत्तमं ८१
दधतीञ्चिन्तयेन्नित्याम्महापापविनाशिनीं
त्रिपुरेशीपूर्वरूपासुन्दरीकुङ्कुमप्रभा ८२
सर्वालङ्कारसम्पन्नापुस्तकञ्चाक्षमालिकां
वराभयौचदधतींसामर्थ्यसुसिताननां ८३
अनयासदृशीदेवीध्येयात्रिपुरवासिनी
आरक्तलोचनाप्रान्तेमहामदविघूर्णिता ८४
त्रिपुराश्रीर्महेशानिपीनवृत्तघनस्तनी
उद्यद्भासुत्सहस्राभादिव्यालङ्कारमण्डिता ८५
पुस्तकञ्जपमालाञ्चवरदञ्चाभयङ्करैः
दधतीसकलानन्दामलिनीकथ्यतेपुनः ८६
इन्द्रगोपप्रभादेवीपाशाङ्कुशकपालिनी
महाभीतिहरासम्यक्साधकानन्ददायिनी ८७
पृ० ६९अ) सिद्धांवापरमेशानिध्यायेद्विषविनाशिनीं
सम्पत्प्रदाभैरवीचमहासिद्धिप्रदायिनी ८८
क्रमेणसिद्धिसहिताप्रतिचक्राधिदेवता
अत्युपह्वरमेवेदञ्ज्ञात्वाचक्रंसमर्चयेत् ८९
पादुकाम्पूजयामीतिनमस्कारस्ततोभवेत्
स्वाहाहोमेतर्पणेतुतर्पयामीतिसंस्मरेत् ९०
अथवारस्मयःसर्वादेवीरूपेणचिन्तयेत् ९१
श्रीचक्रेपरमेशानिस्वमन्त्रेस्वस्वसन्निभाः
गोपितव्यन्त्वयाभद्रेस्वयोनिरिवपार्वति ९२