ईश्वरौवाच
एतत्सर्वात्मकंवस्तुत्रिपुरेत्यभिधीयते
एषासत्वान्वितादेबीजाग्रदित्यभिधीयते १
तदेयंशक्तिरूपात्मासृजन्तीभुवनत्रयम्
उत्पत्तिर्जागरोवोधोव्यावृत्तिर्मनसःसदा २
कलाचतुष्टयञ्जाग्रदवस्थायांव्यवस्थिताम्
एषैवतुसमायुक्ताशिवरूपान्निगद्यते ३
मरणांविस्मृतिर्मूर्छानिद्राचतमसावृत्ता
सुषुप्तेषुकलाज्ञेयासुषुप्तिःशिवरूपिणी ४
पदाद्वन्द्वात्मिकादेवीरजोरूपाभयात्मिका
संयोगःसत्वतमसोरजैत्यभिधीयते ५
सुषुप्त्यन्तेजागरादौस्वप्नावस्थारजोमयी
अभिलाषम्भ्रमच्चिन्ताविषयेषुमनःस्मृतिः ६
पृ० ४९ब्) कलाचतुष्टयंस्वप्नावस्थायान्तुविधायते
गुणातीतापदादेवीसातुर्येत्यभिधीयते ७
सुषुप्त्यादौजागरान्तेस्फुरतामात्रलक्षणा
अवस्थाशेषताम्प्राप्तातुर्यातुकमलाकला ८
भावाभावविनिर्मुक्तागुणातीतानिगद्यते
वैराग्यञ्चमुमुक्षुत्वंशमादिविमलम्मनः ९
सदसद्वस्तुनिर्द्वारस्तुर्यायास्तुकलाइमाः
तुर्य्यैवपरिपाकेनकलासप्तदशीभवेत् १०
कतुरम्भाफलादीनाम्पाकेनमधूरोरसः
अतएवमहेशानीकलासप्तदशीभवेत् ११
उच्चार्य्यमाणायेमन्त्रास्तेमन्त्रावाचकाम्प्रिये
उच्चाररहितंवस्तुचेतसैवविचिन्तयेत् १२
चिन्तनात्सामरस्येनसाच्छाद्व्रह्मैचकेवलम्
अतएवमहाविद्यातूर्यरूपावरानने १३
कलाषोडशकञ्चैतछीविद्यार्णेषुसंस्थितं
निःसरन्तिमहामन्त्रामहाग्नेर्विस्फुलिङ्गवत् १४
तथैवमातृकावर्णानिःसृतावाग्भवात्प्रिये
अतएवतदेवास्याबीजंवाग्भवमुच्यते १५
तेनैववाड्मयेनासौत्रैलोक्यंसचराचरम्
मोहयन्तीतदादेवीकामेशीबीजरूपिणी १६
पृ० ५०अ) पुरुषस्त्रीमयेनासौस्फुरन्तीविन्दुमातृकां
महामोहेनदेवेशिकीलयन्तिजगत्त्रयं १७
अतस्तत्कीलकन्देवितेनसौभाग्यगर्विता
पालयन्तिजगत्सर्वन्तेनेयंशक्तिरुच्यते १८
एवङ्कूटत्रयकलामहासाम्राज्यदायिनी
तदालक्ष्मीमयीदेबीजागर्तिभुवनत्रये १९
महाकोशेश्वरीवृन्दमण्डिताभुवनेश्वरी
एषैवकोषसम्पन्नाकामान्पूरयतेपरा २०
कामेश्वरीतदादेवीकामान्पूरयतेसदा
महासिंहासनप्रौढाविश्वगाविश्वरूपिणी
अकथादिमहापीठेहलक्षवर्णरूपिणी
तदाकल्पलतादेवीवाक्पुष्पाज्ञानमत्कला
सौभाग्यदायिनीनित्यंरत्नतेजोविभूषिता २१
जीवानुग्रहसर्गेणस्फुरन्तीविश्वमातृका
चतुरायतनेनैवचतुर्वेदनमस्कृतां २२
साम्राज्यभूत्तदादेवीभुवनानन्दमन्दिरा
अतस्त्रैलोक्यसाम्राज्यप्रदानित्यात्मिकाप्रिये २३
एतत्सर्वम्पुरस्कृत्यवर्ततेत्रिपुराशिवा
प्रपञ्चमध्येदेवेशिकेवलाव्रह्मरूपिणी २४
अतेवमहादेवीकलासप्तदशीभवेत्
पृ० ५०ब्) षोडशार्णस्वरूपापिनित्याषोडशत्कात्मिका २५
इतिनित्याविवरणम्