४३

ईश्वरौवाच
ज्वालामालाम्प्रवक्ष्यामिपुरुषार्थप्रदाम्पराम्
ओङ्कारबीजमुच्चार्यनमोभगवतीतिच १
ज्वालामालिनीदेवीतिसर्वभूतन्तुसंलिखेत्
हारिकारिचकेजातवेदसीतिज्वलन्तिच २
ज्वलयुग्मम्प्रज्वलेतियुगंहुनात्मकन्द्विधा
वह्निन्द्विदाचकवचमस्त्रञ्चापिसमालिखेत् ३
चत्वारिंशद्वर्णरूपास्ववर्णाचक्रमाद्भवेत्
ऋषिस्तुकश्यपछन्दीगायत्रीदेवतात्वियं ४
रेफास्त्रेबीजशक्तीचकीलकङ्कवचम्प्रिये
रविसूर्य्यशरर्य्यष्टवेदैरङ्गानिविन्यसेत् ५
चत्वारिंशद्दलम्पद्मञ्चतुराधिकमीश्वरि
वहिरष्टदलम्पद्मंवाह्येभूविंवमालिखेत् ६
कर्णिकायाम्महाविद्यान्दलेषुक्रमतोलिखेत्
दुर्गावर्णास्तुतोदेवीवसुपत्रेस्वरान्लिखेत् ७
द्वन्द्वशःपरमेशानिवह्निवर्णेनवेष्टयेत्
जातवेदसआलिख्यपुनवामचमोमम ८
रातीयतोनिदहातिवेदःसनश्चआलिखेत् ९

पृ० ४८अ) वर्षान्तेदतिसंलिख्यदुर्गाणीतिसमालिखेत्
विश्वानावेचसिन्धुञ्चद्वरितात्यग्निरालिखेत् १०
एषादुर्गावरारोहेजातवेदस्वरूपिणी
अस्मिन्यन्त्रेसमासीनाञ्ज्वालामालाम्प्रपूजयेत् ११
आदौपीठंसमभ्यर्च्यदिक्षुमध्येचशक्तिभिः
जयाचविजयाभद्राभद्रकालीसमुख्यपि १२
दुर्मुखीचतथाव्याघ्रमुखीसिंहमुखीतथा
दुर्गाचैतासुसम्पूज्यदेवीमावाह्यपूजयेत् १३
आदावङ्गानिसम्पूज्यततोदेवींसमर्चयेत्
जागतीतापिनीवेदगर्भादहनरूपिणी १४
सेतुखण्डायातुहन्त्रीनरमुखीतथाचवै
वागीश्वरीमदवहासोमरूपामनोजया १५
मरुद्वेगाचरात्रिश्चतीव्रकोपायशोवती
तोयात्मिकाचनित्याचदयावत्पथहारिणी १६
निरस्कृयावेदमातातथाचमदनप्रिया
समाराध्यानन्दिनीचपराचरिपुमर्दिनी १७
वरामुखीदण्डिनीतिदुर्गागायत्रीकातथा
निरवद्याविशालाक्षीश्वासोद्वाहाचनन्दिनी १८
वेदनावह्निगर्भाचसिंहवाहातथैवच

पृ० ४८ब्) धुर्याचदुर्वहाचैवरिरंसातापहारिणी १९
त्यक्तदोवानिसम्पलापुरआदिप्रपूजयेत्
अष्टारेमातरःपूज्याभूविंवेककुचीश्वराः २०
पुनर्देवींसमभ्यर्च्यस्वर्णाभरणभूषिताम्
उद्यद्विद्युल्लताकान्तिंस्वर्णांषुकविराजितां २१
महासिंहासनेप्रौढाञ्ज्वालामालाकरालिनीम्
अरिशङ्खङ्खड्गखेटेत्रिशूलण्डमरुन्तथा २२
पानपात्रञ्चवरदन्दधतींसंस्मरेद्यजेत्
ज्वालामालामहाविद्यारिपुहन्त्रीनसंशयः २३

इतिज्वालामालिनीनित्याविधिः