ईश्वरौवाच
अथवक्ष्येपरांविद्याञ्जयदांविजयांसदा
शिवचन्द्रस्वर्याताग्निरुद्रस्वरविभूषितं १
पृ० ४६ब्) विन्दुनादकलाक्रान्तंविजयायैनमोलिखेत्
ऋषिरस्याअहञ्छन्दोगायत्रीदेवतास्वयं २
बीजहृन्मध्यवर्णास्वबीजशक्तीतुकीलकं
षड्दीर्घस्वरसम्भिन्नंबीजेनैवषडङ्गकं ३
एकवक्त्रान्दशभुजांसर्पयज्ञाम्पवीतिनीम्
दंष्ट्राकरालवदनान्नरमालाविभूषितां ४
अस्थिचर्मावशेषान्तांवहिकूटसमप्रभाम्
व्याघ्रचर्माम्महाप्रौढांशवासनविराजितां ५
रणेस्मरणमात्रेणभक्तेभ्योविजयप्रदाम्
शूलञ्चर्मघटङ्कासिशृणीघण्टाशनिद्वयं ६
पाशमग्निमभीतिञ्चदधतीञ्जयदांसदां
लक्षत्रयञ्जपेन्मन्त्रन्तद्दशांशेनहोमयेत् ७
महापद्मैस्त्रिमध्वक्तैस्ततःसिद्धाभवेदियम्
त्रिकोणञ्चैवषट्कोणंवसुपत्रम्महीगृहम् ८
मध्येबीजंसमालिख्यत्रिकोणेषुचबीजकं
षडक्षराणिषट्कोणेवस्वपत्रेषुवैस्वरान् ९
युग्मयुग्मप्रभेदेनपत्राग्रेषुचवैलिखेत्
नारसिंहम्महाबीजम्मातृकांवेष्टयेत्ततः १०
अत्रावाह्यमहादेवीमुपचारैःसमर्चयेत्
आदाषडङ्गावरणन्त्रिकोणेपूजयेत्ततः ११
पृ० ४७अ) ब्रह्मविष्णुमहेशांश्चषट्कोणेषुततोयजेत्
षडयोगिनीरष्टपत्रेमातरःपूजयेत्क्रमात् १२
चतुरस्रेलोकपालान्पुनर्देवींसमर्चयेत्
इतिविजयानित्याविधिः