ईश्वरौवाच
अथवक्ष्येमहादेविमहाविद्येश्वरीम्परां
नित्यक्लिन्नांसमालिख्यमुखेतारंसमालिखेत् १
हृल्लेखान्तेफरेमात्माचन्द्रबीजंविसर्गवान्
चतुर्दशाक्षरीविद्याऋषिर्ब्रह्मानिगद्यते २
पृ० ४४अ) गायत्रीछन्दआख्यातन्देवतापरमेश्वरी
आद्यन्तेबीजशक्तेचहृल्लेखाकीलकम्भवेत् ३
चतुष्केनचयुग्मेनयुग्मेनयुगलेनच
युगलेनचयुग्मेनन्यसेदङ्गानिदेशिकः ४
जवाकुसुमसङ्काशांरक्तांशुकविराजितां
माणिक्यभूषणान्नित्यान्नानाभूषाविभूषिताम् ५
पाशाङ्कुशौकपालञ्चसुरपापरिपूरितम्
अभयन्दधतीन्ध्यात्वाच्चतुर्लक्षञ्जपेत्सुधीः ६
दशांशेनैवजुहुयाद्वविषातिलतण्डुलैः
त्रिकोणंवेदपत्रञ्चवसुपत्रञ्चभूगृहं ७
एवम्मण्डलमालिख्यमध्येदेवींसमर्चयेत्
आदावङ्गानिसम्पूज्यत्रिकोणेषुप्रपूजयेत् ८
ब्रह्माणीवैष्णवीरौद्रीततोवेदास्त्रपूजनं
वेदमाताचहृल्लेखायोगिनीचन्द्रशेखरा ९
पुरआदिक्रमेणैववेदास्रेषुप्रपूजयेत्
नित्यानिरञ्जनाक्लिन्नाक्लेदिनीमदनातुरा १०
मदद्रवाद्राविणीचक्षोभिणीचस्वरेर्चयेत
मातरश्चैवसम्पूज्याभूविंवेलोकपालकाः ११
इतिमहाविद्येश्वरिविधिः