३४

ईश्वरौवाच
अथवक्ष्येमहेशानिभेरुण्डाम्परमेश्वरीं
भरौकारंसमुच्चार्यत्वङ्कुशाभ्यांसुवेष्टितं १
अन्त्यहीनञ्चवर्णञ्चचतुर्द्धारेफमण्डितम्
अनुग्रहेन्दुविन्द्वाढ्यन्तारस्वाहोदरस्थितः २
मनुर्दशार्णोदेवेशिमहाविषहरोभवेत्
ऋषिरस्यामहाविष्णुर्गायत्रीछन्दौच्यते ३
देवतेयम्पराशक्तिस्तृतीयंबीजमुच्यते
वह्निजायातुशक्तिःस्यात्कीलकंशृणिरेवच ४
षड्दीर्घस्वरभेदेनबीजेनैवषडङ्गकं
चन्द्रकोटिप्रतीकाशांस्रवन्तीममृतद्रवैः ५
नीलकण्ठीत्रिनेत्राञ्चनानाभरणभूषिताम्
इन्द्रनीलस्फुरत्कान्तिशिखिवाहनशोभितां ६
पाशाङ्कुशौकपालञ्चछुरिकाञ्चवराभयौ
विभ्रतींहेमसंवह्यगरुडोद्गारभूषिताम् ७
एवन्ध्यात्वाजपेद्वर्णलक्षन्तुविजितेन्द्रियः
तद्दशांशेनजुहुयात्स्वेतपद्मैःसुरेश्वरि ८

पृ० ४२ब्) त्रिकोणञ्चाष्टपत्रञ्चततोभूविंवमालिखेत्
मध्येप्रणवबीजेनत्रिकोणस्यचपार्श्वयोः ९
शृणिद्वयन्त्रिकोणेषुपञ्चमादित्रयन्न्यसेत्
अवशिष्टन्त्रिकोणाग्रकोट्यग्रेषुचसंलिखेत् १०
मालामन्त्रङ्क्रमेणैववसुपत्रेषुविन्यसेत्
वस्वक्षरविभागेनचतुःषष्ट्यर्णविग्रहां ११
भेरुण्डांसंलिखेन्मन्त्रीमहाविषहराम्प्रिये
भुवनेशींसमुच्चार्य्यततास्त्रिभुवनेतिच १२
विद्येनमस्ततःसिद्धेत्वजितेलोकपूजिते
भ्रमभ्रममहामोहेद्विधाहूमात्मकंलिखेत् १३
विच्चेयुगङ्कुलेकौलेकुरुमालेततःपरं
भेरुण्डेशिखिचालिख्यवाहिनीतिततःपरम् १४
नीलकण्ठेचरौद्रेचततोवेतालसोमच
मातकेभुवनेशीचचतुःषष्टार्णविग्रहः १५
छन्दोनुष्टुपृषिर्ब्रह्माबीजन्तुभुवनेश्वरी
भेरुण्डादेवताज्ञेयापुरुषार्थप्रदायिनी १६
षड्दीर्घस्वरभेदेनबीजेनैवषडङ्गकं
ध्यानन्तुपूर्वदेविपूजाद्वन्द्वेसमालिखेत्
महीविञ्चेमातृकायावर्णालेख्याक्रमेणतु
तत्रावाह्यमहेशानीमुपचारैःसमर्चयेत् १७
अङ्गानाम्पूर्ववत्पूजात्रिकोणेषुततःशृणु
त्रिशिखान्नीलकण्ठीञ्चऐन्द्रीचैवक्रमाद्यजेत् १८

पृ० ४३अ) त्रिकोणपार्श्वयोःपूज्येवैतालींसोममातृकां
ततस्त्रिभुवनेशानींसिद्धाञ्चैवाजितामपि १९
लोकपूज्याम्महामोहाङ्कुलाङ्कौलान्तथैवच
कुस्वमालामष्टपत्रेपुरआदिप्रपूजयेत् २०
ततश्चमातरःपूज्यावसुपत्रेषुसुन्दरि
इन्द्रादयस्तुभूविंवेपुनर्देविंसमर्चयेत् २१

इतिभेरुण्डानित्याविधिः