ईश्वरौवाच
मुखवृत्तंविन्दुनादकलाढ्यम्पाशौच्यते
सामाग्नितारसहितमङ्कुशंविद्धिपार्वति १
एतन्मध्यगताविद्यायदापूज्यासुरेश्वरीः
प्रक्षरावापञ्चवर्णाताभ्यांसम्पुटितम्प्रिये २
तदाद्यगर्गलोद्धारःकथितोभुविदुर्लभः
येनानुष्टितमात्रेणत्रैलोक्याकर्षणम्भवेत् ३
सम्प्रदायेनदेविशिश्रीगुरोऽकृपयान्वितः
सम्यक्सूत्रेणरचयेत्सुवृत्तंवृत्तमुत्तमम् ४
पृ० ३२ब्) ततोभूविंवयुगलंसम्पुटीकृत्ययोजयेत्
अष्टकोणन्तथादेबीजायतेदिङ्मनोहरम् ५
अष्टदिक्षुतदंशाभ्यारेखेआकृक्ष्यमान्त्रिकः
रेखाभ्यामर्गलन्देविजायतेतीवसुन्दरः ६
एकैनैवतुमानेनरचयेदर्गलाष्टकम्
वृत्तन्तदग्रेचन्द्रस्यविंववद्रचयेद्वुधः ७
पुनरेखासमाकृष्यपूर्ववृत्तमुत्तमम्
विरच्यसाधकेन्द्रस्तुवसुकोष्टयुगङ्क्रमात् ८
व्यक्तंयथाभवेद्देविकेसुराणांवसुद्वयम्
अर्गलानिचरम्यानिवथीसम्यग्भवन्तिहि ९
तथाकार्यम्महेशानित्रैलोक्याकर्षणम्भवेत्
शक्तिबीजंसाध्यन्ममसाधकेनसमन्वितम् १०
पाशाङ्कुशमहाबीजयुगसम्पुटितञ्चयत्
कर्णिकायाम्मध्यवृत्तेसंलिखेत्साधकोत्तमः ११
अष्टकोणेषुविलिखेत्षडङ्गानियथाक्रमम्
अग्नीशासुरवायव्यकोणेषुमनुवित्तमः १२
कवचान्तानिसंलिख्यमध्येनेत्रंयजेद्वुधः
चतुर्दिगन्तकोणेषुचतुर्द्धास्त्रंलिखेत्प्रिये १३
वृत्तादिवसुकोणान्तंलिखेद्वस्वर्गलेषुच
बीजर्वृदम्महेशानिसम्प्रदायक्रमेणहि १४
वह्निशक्तिपरित्यज्यतत्रभूभूषितङ्कुरु
पृ० ३३अ) तद्बीजंस्वरसम्भिन्नंॠऌॡविवर्जितं १५
एवन्द्वादशधातत्रचतुर्धाकुरुसुन्दरी
आद्यत्रिकम्पूर्वमुखंलिखेदुत्तरतःप्रिये १६
द्वितीयम्पूर्वमुखान्तुलिखेदक्षिणतःसुधीः
तृतीयम्पश्चिमेभागेतथादक्षिणतोलिखेत् १७
चतुर्थमर्गलन्तद्वत्पश्चिमेतूत्तरान्तकः
भूवंहित्वार्कबीजानान्तत्रवायुन्नियोजयेत् १८
अग्न्यार्गलायान्त्रितयमाद्यम्पूर्वतआलिखेत्
तथापश्चिमतोप्यन्यतत्रिकंलिष्यमान्त्रिकः १९
मारुतार्गलकेतद्वल्लिखेत्पश्चिमतत्प्रिये
पूर्वतोपिचदेवेशिसर्वकार्यार्थसाधकः २०
यमार्गलायान्देवंशिकथयामिवरानने
वायुंहित्वार्कबीजानांवरुणन्तत्रःनिःक्षिपेत् २१
पूर्वतस्त्रितयंयाम्येद्वितीयम्पश्चिमान्तगं
ततोत्ररर्गलायाञ्चलिखेत्पश्चिमतःसुधीः २२
चतुर्थम्पूर्वतोदेविगुरुमार्गेणसुन्दरि
नीरंहित्वार्कबीजानांरेफन्तत्रविनिक्षिपेत् २३
लिखेद्रक्षोर्गलायान्तुत्रिकमाद्यन्त्रिकम्परं
दक्षिणोत्तरतोमन्त्रीक्रमाच्छैवार्गलम्पुनः २४
पृ० ३३ब्) आदावुत्तरतोदेविपश्चाद्दक्षिणमार्गतः
अन्तराष्टसुकोष्टेषुकेसुराख्येषुसंलिखेत् २५
पाशश्रीभुवनेशानीकामबीजचतुष्टयं
विपरीतञ्चमन्त्रज्ञोवस्वर्णमिदमालिखेत् २६
अन्त्यपाशम्परित्यज्यशृणिंसयोज्यसाधकः
तद्वहिर्वसुकोणेषुविलिखेतुक्रमेणहि २७
कामिन्यन्तेरञ्जिनीस्थात्ततोग्रेप्यत्रिवल्लभा
अष्टवर्णानुक्तरूपाअपराकेसरेषुच २८
अन्तकोष्टस्वरूपेषुचन्द्रकात्यानीमनुं
शक्तिगौरित्रिकेरुद्रदयितेपञ्चवर्णकम् २९
योगीश्वरींसमालिख्यकवाचास्त्राग्निवल्लभा
चण्डीकात्यायनीदेवीत्रिषुलोकेषुदुर्लभा
अथातःसम्प्रवक्ष्यामिवहिरस्येववेष्टतत् ३०
हंसःपदंवामनेत्रंविद्विन्दुपरिभूषितम्
पुनर्हंसपदञ्चैतत्पञ्चार्णमनुमालिखेत् ३१
स्वरद्वन्द्वोदरगतंसप्तार्णञ्चाष्टधाभवेत्
वहिःपद्मञ्चाष्टपत्रमतिसुन्दरमालिखेत् ३२
दलेषुकर्णिकामन्त्रीस्त्रियन्त्माञ्चाष्टसुक्रमात्
पाशाङ्कुशाभ्यान्तद्वाह्येवृत्ताकारेणवेष्टयेत् ३३
अनुलोमप्रकारेणमात्रिकावेष्टनंलिखेत्
पृ० ३४अ) तथैवप्रतिलोमञ्चमातृकावेष्टनम्प्रिये ३४
एतत्सर्वण्ठकारेणवेष्टयेन्महताप्रिये
घटार्गलम्महायन्त्रम्पुरुषार्थफलप्रदं ३५
अस्मिन्समावाह्यदेवीमुपचारैःसमर्चयेत्
आदार्वगानिदेवेशिकराङ्गेषुचविन्यसेत् ३६
आनन्दरूपिणीन्ध्यात्वामुद्रासमद्धविग्रहः
परिवारार्चनङ्कुर्यात्प्रथमाचरणंशृणु ३७
हृल्लेखापञ्चकञ्चायन्द्वितीयाङ्गादतिप्रिये
कोणाष्टकेयथापूर्वन्ततःपद्मदलेषुच ३८
मातरोदेवदेवेशिपूर्वादिपरिपूजयेत्
लोकपालांश्चतद्वाह्येपुनरंवाममर्चयेत् ३९
उपचारैर्मनोरम्यंस्तांवूलान्तैःपृथक्पृथक्
यथाशक्तिजपङ्कृत्वानियमेनतुसुन्दरि ४०
अयन्नित्यप्रकारस्तुपुरश्चरणकंशृणु
रविलक्षञ्जपेद्विद्यान्तद्दशांशेनहोमयेत् ४१
त्रिमध्वक्तैःक्षीरवृक्षैःसमिद्भिश्चतथातिलैः
समासेनहुनेत्सम्यक्पुरश्चारीततोभवेत् ४२
जातीपुष्पैर्वश्यकामोसम्पत्यैकमलैःप्रिये
समिद्भिःपुष्टिकामस्तुखादिरैर्जुहुयात्प्रिये ४३
एकाक्षरेपिदेवेशिसन्त्यत्रभुवनानितु
व्योमबीजेमहेशानिकैलासादिप्रतिष्टितं ४४
ब्रह्मबीजान्न्यवर्णादिनिष्पन्नम्बहुधाप्रिये
पृ० ३४ब्) तेनायंवर्ततेलोकेभूमण्डलसमस्थितिः ४५
तुर्यस्वरेणपातालेशेषरूपेणधार्यते
महाभूमण्डलन्तस्मात्पातालस्यापिनायिका ४६
अतेवमहेशानिभुवनाधीश्वरीभवेत्
हकारेव्योमतुर्येणस्वरेणानिलसम्भवाः ४७
विकारेसतिरेफेणसाक्षाद्वह्निस्वरूपिणी
वह्निबीजंवसुज्ञेयन्तस्माद्रेफंवस्वन्धरा ४८
अतेवमहेशानिरन्तयोःसमताभवेत्
विन्दुश्चन्द्रामृताद्देवीप्लावयन्तीजगत्त्रयम् ४९
द्रवरूपाभवेतस्मात्सृजन्तीचार्द्धमात्रया
अतेवमहेशानिभुवनेशीतिकथ्यते ५०