ईश्वरौवाच
अथातःसम्प्रवक्ष्यामिमातङ्गींरत्नदेवताम्
वाग्भवङ्कामबीजञ्चसर्गवान्भृगुरुत्तमे १
अनुग्रहेणसंयुक्तःपुनराद्यम्परांलिखेत्
श्रीबीजन्तारकञ्चैवनमोभगवतीतिच २
मातङ्गीश्वरिसर्वान्तेमनोहरिजनादिके
सर्वराजवशञ्चान्तेकरिसर्वनुखान्तकं ३
रञ्जनीतिततःसर्वस्त्रीशव्दञ्चततोवदेत्
पुरुषान्तेवशञ्चोक्ताकर्यन्तेसर्वदुष्टच ४
मृगन्नेवशमालिख्यसर्वलोकपदंवदेत्
ततश्चवशमालिख्यकरिशव्दन्ततोलिखेत् ५
परांश्रियङ्कामबीजंवाग्भवञ्चततोलिखेत्
सप्ततिश्चत्रयोवर्णामातङ्गीविग्रहाप्रिये ६
इयंसमस्तविद्यानांराज्ञीमोक्षार्थसिद्धिदा
ऋषिर्मतङ्गोभगवान्गायत्रञ्छन्दौच्यते ७
देवतानादमूर्तिस्तुमातङ्गीपरमेश्वरी
कामबीजंवाग्भवञ्चबीजशक्तीचकीलकम् ८
पृ० २५अ) तार्तीयन्देवदेवेशिषडङ्गान्यथविन्यसेत्
आद्यबीजत्रयेणैवद्विरावृत्याषडङ्गकम् ९
अम्भोजार्पितदक्षाघ्रिङ्क्षामान्ध्यायेन्मतङ्गिनीं
कणद्वीणालसन्नादश्लाघ्यान्दोलितकुण्डलाम् १०
दन्तपङ्क्तिप्रभारम्यांशिवांसर्वाङ्गसुन्दरीम्
कदंवपुष्पदामाघ्यांवीणावादनतत्पराम् ११
श्यामाङ्गींशङ्खवलयान्ध्यायेत्सर्वार्थसिद्धये
अथयन्त्रम्प्रवक्ष्यामित्रिकोणम्पञ्चकोणकम् १२
वसुपत्रङ्कलापत्रवसुपत्रञ्चतुर्दलम्
चतुरस्रञ्चतुर्द्वारमेवम्मण्डलमालिखेत् १३
आवाह्यदेवतांसम्यगुपचारैःसमर्चयेत्
अग्नेशासुरवायव्यमध्यदिक्ष्वङ्गपूजनं १४
अथवक्ष्येमहेशानिचरप्रत्यपूजनम्
अग्रद्वाराचतुर्दिक्षुप्रादक्षिण्येनपूजयेत् १५
सरस्वतीञ्चलक्ष्मींश्चशङ्खपद्मनिधीप्रिये
विदिक्षुवामभागादिप्रादक्षिण्येनपूर्ववत् १६
वटुकङ्गणराजञ्चक्षेत्रपालञ्चयोगिनीः
ततश्चतुर्दलाग्रेषुसिद्धमातङ्गिनीङ्क्रमात् १७
महालक्ष्मीमयींसिद्धलक्ष्मीमातङ्गिनींयजेत्
महामातङ्गिनीन्देवीम्प्रादक्षिण्येनपूजयेत् १८
पृ० २५ब्) अष्टपत्रेमहेशानित्वसिताङ्गादिभैरवान्
असिताङ्गोरुरुश्चण्डःक्रोधौन्मत्तभैरवः १९
कपालीभीषणश्चैवसंहारश्चाष्टभैरवाः
प्रादक्षिण्येनदेवेशिपुरआरभ्यपूजयेत् २०
वामाज्येष्टाचरौद्रीचशान्तिःश्रद्धाचपञ्चमी
वागीश्वरीक्रियाशक्तिर्लक्ष्मीःपुष्टिस्तथैवच २१
मोहिनीप्रमथास्वासाचीचीवैविन्दुमालिनी
स्वरानन्दानागवुद्धिरेताःषोडशकीर्तिताः २२
पुरआरभ्यदेवेशिप्रादक्षिण्येनपूजयेत्
षोडशारेततोदेविलक्ष्मीचैवसरस्वति
रतिःप्रीतिःकीर्तिशान्तिःतुष्टिपुष्टिश्चपूर्ववत्
पत्राष्टकेषुदेवेशिमातृणाञ्चाष्टकंयजेत्
पूर्ववत्पञ्चपत्रेषुद्राविणोशोषिणीतथा
स्तम्भिनीमोहिनीचैवतथाचाकर्षकारिणी २६
त्रिकोणेपिहिदेवेशियजेदग्नेपिपूर्ववत्
प्रादक्षिण्येनमनुनारतिप्रीतिमनोभवाः २७
पुनःसम्पूज्यदेवेशींसर्वोपस्करकैःप्रिये
पुनश्चरणकार्येषुलक्षत्रयमुदाहृतम् २८
प्रवालमालयादेविदशांशेनतुहोमयेत्
वन्धूककुसुमैर्मन्त्रीत्रिकोणेकुण्डकेशुचिः २९
पृ० २६अ) एवंसंशुद्धमन्त्रस्तुसर्वकर्माणिसाधयेत्
राज्यार्थीमल्लिकाजातीपुन्नागैःश्रीफलछदैः ३०
श्रीकामुकःशुभ्रपद्मैःपङ्कजैर्वापिशुप्रभे
उत्पलैर्भोगकामस्तुलक्ष्मीपुष्पश्चसुब्रते ३१
जपावन्धूकवकुलकिञ्जल्कैर्वशकारिणी
वश्यार्थीमधुसंयुक्तैर्मधूककुसुमैर्हुनेत् ३२
आकर्षणेतुलवणतिलैस्त्रिमधुसंयुतैः
वञ्जुलैर्वृष्टिकामस्तुधनार्थीहेमपुष्पकैः ३३
वश्येकदंवकुसुमैराज्यार्थीधान्यतण्डुलैः
साज्यान्नैरलकामस्तुवश्येकुङ्कुमरोचनैः ३४
गन्धद्रव्यैस्तुसौभाग्येनन्द्यावर्त्तैस्तुवाङ्मुये
करिपुष्पैःसम्पदर्थीपालाशैस्तेजसेहुनेत् ३५
कापिलेनघृतेनाथतेजस्वीहवनाद्भवेत्
उन्मादनकरोहोमौन्मत्तकुसुमैर्भवेत् ३६
विषवृक्षैश्चनिवैश्चश्लेष्मान्तकविभीतकैः
उलूकगृद्ध्रकाकैस्तुनिंवतैलपरिस्तुतैः ३७
होमयेद्रिपुनाशायनराश्रेवह्निकुण्डके
यमाशाभिमुखोनग्नोभूत्वादृष्टिमलीमसः ३८
उच्चाटनंवायुभागेविद्धेशोरक्षसोभवेत्
इन्द्राग्नेयविभागेपिशान्तिकेप्राङ्मुखोभवेत् ३९
पृ० २६ब्) पश्चिमेस्तम्भनञ्चोक्तमुत्तरस्यान्तुदेशिकः
साधयेत्सर्वकर्माणिपौष्टिकादीनिसाधकः ४०
पायसैर्गुडखण्डैश्चकुर्यादिक्षुरसैरपि
पित्तशान्तिकरोहोमस्तन्यङ्केवलमेवच ४१
उन्मादनाशनन्तूर्णम्पायसङ्घृतसंयुतं
मरीचतिलतैलाक्तङ्कासश्वासहरम्भवेत् ४२
निर्गुण्डीमूलहोमेनवातदोषविनाशनं
शृण्वथाकर्षणंशीघ्रमाकृतित्रितयङ्कुरु ४३
जीवन्यासन्ततःकृत्वामृदाचक्रीगृहोत्थया
मधूछिष्टेनचान्यापिलवणेनापिपुत्रिका ४४
कृत्वातन्नामसङ्कल्पमृद्रूपाङ्कुङ्कुमेन्यसेत्
सप्ताङ्गुलमधःपश्चाल्लावणीमेखलागतां ४५
लंवयेदूर्द्धतःपश्चाद्वृक्षेमाक्षिकसम्भवाम्
लवणम्पेष्यमधुनालावन्याहोमयेत्सुधीः ४६
आरभ्यदक्षिणम्पादंवामपादावधिप्रिये
मनुजानामयंहोमःस्त्रीणान्देविविपर्ययः ४७
सप्तरात्रान्महादेविक्षुभ्यन्तिविरहातुराः
पतन्तिसाधकस्याङ्केभयलज्जाविवर्जिताः ४८
लवणन्निंवतैलेनहोमयेछत्रुनाशने
हरिद्राचूर्णसंयुक्तंलवणंस्तभनेहुनेत् ४९
पृ० २७अ) पूर्वाह्नेपूर्वरात्रौचशुभार्थञ्चयजेद्वुधः
मध्याह्नेमध्यरात्रेतुकुर्यादुच्चाटनादिकं ५०
मातङ्गीविग्रहोभूत्वासर्वकर्माणिसाधयेत्
आवेशनन्ततःकुर्यात्कन्न्यानांसन्निधःसुधी ५१
कन्यापूजाचकर्तव्यायोगिनीनांविशेषतः
अष्टाष्टाकंसमभ्यर्च्यमातङ्गीतृप्तिकृत्सुधीः ५२
वलिन्निवेदयेत्पश्चात्मातङ्ग्यास्तुवरानने
देविशक्तिनमश्चान्तेभगवत्यपिसंलिखेत् ५३
मातङ्गीचततोब्रूयाच्चण्डालीचसमालिखेत्
ततःसर्वजनञ्चोक्तमेवशंवसमालिखेत् ५४
आनयेतिचसंलिख्यद्विठान्तोमनुरुच्यते
अनेनबलिदानंस्यान्मातङ्ग्यासिद्धिहेतवे ५५
वटुकादिवलिन्तद्वत्सम्यगुक्षिप्यमान्त्रिकः
साधयेत्सर्वकर्माणिमातङ्ग्यास्तुप्रसादतः ५६