२२

ईश्वरौवाच
अथेशानेनवक्त्रेणमपायापिप्रजप्यते
विद्यानाम्पञ्चकन्देवित्रिषुलोकेषुदुर्लभां १
वाग्भवंशिवसंयुक्तंवाग्भवम्मध्यमंशृणु

पृ० २०ब्) हकलान्तेमहेशानिशिवबीजत्रयंलिखेत् २
रेफवामाक्षिविद्धिन्दुघटितन्तुतृतीयकं
हसानुग्रहसर्गाद्यंविद्यैकासुन्दरीप्रिये ३
हसान्योजपेन्मन्त्रीरवितुर्यमनुस्वरैः
अन्त्यंससर्गमायेद्धेविन्दुनादकलात्मके ४
इयन्द्वितीयादेवेशिसुन्दरीपरिकीर्तिता
केवलंवाग्भवन्देविवाग्भवेमध्यमेशृणु ५
हसराहसहस्रांशुवाग्भवेनचयोजयेत्
हत्रयङ्कलहृल्लेखाशक्तिकूटंशृणुप्रिये ६
चतुष्कंशिवबीजानांरेफानुग्रहसर्गमत्
इयन्तृतीयादेवेशिसुन्दरीचतुरक्षरा ७
कलन्तिशिवयुग्मंव्रुतथाबीजत्रयेशिवम्
परयापिण्डितङ्कुर्यात्क्रूटमेतत्त्रिधाप्रिये ८
वाग्भवेकामबीजेचशक्तिबीजेचसंलिखेत्
चतुर्थीसुन्दरीख्याताभोगमोक्षप्रदायिनी ९
जीवःशिवयुगञ्जीवःक्ष्माक्षकारशिवेनुमत्
एतदाद्यञ्चमध्यञ्चहसयुक्ष्माक्षमेन्दुमत् १०
अन्यन्तुहसलक्षेन्द्रुहेन्द्वाकाशविभूषितं
त्रिपुरेशीमनोरेखापञ्चमीसुन्दरीस्मृता ११
सम्पत्प्रदाम्भैरवीञ्चध्यायेत्पञ्चकमुत्तम्
ऋष्यादिपूजाविज्ञेयात्रिपुरेशीचनान्यथा १२

पृ० २१अ)