ईश्वरौवाच
पराङ्क्लिन्नेवाग्भवञ्चकरोमात्मकमक्षरम्
ततोनित्यमदप्रान्तेद्रवेमायाञ्चसंलिखेत् १
वज्रेशीरविवर्णेयंऋषिर्ब्रह्मास्यसन्मनोः
छन्दोविराट्चवज्रेशीदेवतापरिकीर्तिता २
पञ्चपञ्चचतुर्थञ्चबीजशक्तीक्रमेणतु
तार्त्तीयङ्कीलकन्देव्यास्तुतोङ्गानिप्रविन्यसेत् ३
पृ० १७ब्) आद्यन्तबीजंसन्त्यज्यद्विकञ्चैकञ्चरूपकम्
द्विकन्द्विकन्द्विकन्देविषडङ्गानिप्रविन्यसेत् ४
वृतङ्कृत्वामनोरम्यङ्कर्णिकाष्टकशोभितम्
कामबीजेनतन्मध्येमहासिंहासनंयजेत् ५
रविपत्रविशोभाढ्यन्तत्रविद्यांसमालिखेत्
चतुरस्रन्ततःकृत्वामध्येपुष्पंविनिःक्षिपेत् ६
ध्यात्वाचावाहयेद्देवीङ्कदंववनमध्यगां
रक्ताञ्चन्द्रकलाचाहमुकुदांवरभूषणाम् ७
महातारुण्यगर्वाढ्यांलोचनत्रयभूषिताम्
शोणिताव्धितरत्योतमहायन्त्रोपरिस्थितां ८
दाडिमीसापकञ्चैवपाशञ्चैवसृणिन्तथा
चापङ्कलापन्दधतीशोणमालानुलेपनाम् ९
स्मरेद्रत्नभरान्देवीम्मुपचारैःसमर्चयेत्
आदावङ्गानिसम्पूज्यरविपत्रेप्रपूजयेत् १०
हृल्लेखाङ्क्लेदिनीन्नन्दाङ्क्षोभिणीम्मदनातुराम्
निरञ्जनांरागवतीङ्क्लिन्नाञ्चमदनावतीम् ११
खेचरीन्द्राविणीञ्चैवक्रमाद्वेगवतींयजेत्
कामबीजेनसम्पूज्यसम्प्रदायान्तरंशृणु १२
विरव्यभूमिविम्बंहिअष्टपत्रंसमालिखेत्
मातरस्तत्रसम्पूज्याभूविंवेलोकपालकान् १३
पृ० १८अ) पुनर्देवींसमभ्यर्च्यवर्णलक्षञ्जपेछविः
तद्दशाण्णेनजुद्रपादम्बुजैरक्तसुन्निभैः १४
इतिवज्रेशीपूजाविधिः