ईश्वरौवाच
देविपश्चिमवक्त्रेणमयाद्यापिप्रजप्यते
विद्याचतुष्टयंसाक्षादमृतानन्दविग्रहम् १
महासिंहासनगतान्तत्रसञ्जीवनींशृणु
शक्तिबीजंसमालिख्यशिवचन्द्रौसमालिखेत् २
अनुसारविसर्गाभ्याम्मन्त्रितौक्रमतःप्रिये
सञ्जीवनिचजूञ्जीवम्प्राणग्रन्थिस्यमालिखेत् ३
कुरुशव्दम्भृगुःसर्गीवक्तिजायान्वितोमनुः
विंशत्यर्णऋषिशुक्रोगायत्रञ्छन्दौच्यते ४
सञ्जीवनीदेवतास्याच्छक्तिरन्त्यादिबीजकम्
तृतीयञ्चचतुष्कञ्चद्वितीयम्पञ्चकन्तथा
चतुर्द्धिकञ्चक्रमतःषडङ्गानिप्रविन्यसेत्
भूर्जेक्षीरेणविलिखेत्षट्कोणेमण्डलंसुधीः
कर्पूराभांहारमुक्ताभूषणैर्भूषिताम्परां
ज्ञानमुद्राक्षमालाञ्चदधतीञ्चिन्तयेत्पराम्
एवन्ध्यात्वावाह्यमध्येपूजयेदुपचारकैः
पृ० १६अ) आदावङ्गानिसम्पूज्यषट्कोणेषुचपूजयेत्
सञ्जीवनीतथाबुद्धिम्पूर्वसञ्जीवनीन्ततः
अहङ्कारमयीन्तद्वत्सतुसञ्जीविनीम्प्रिये
सर्वसञ्जीविनीञ्चैवराजसञ्जीवनीङ्क्रमात्
शक्तिबीजन्नदेवेशिङेनमोन्ताःप्रपूजयेत्
वर्णलक्षञ्जपेन्मन्त्रम्पुरश्चरणहेतवे
तद्दशांशेनजु*(हु) यादूर्वात्रिमधुरान्विताः
इतिसाधारणीपूजाविशेषंशृणुपार्वति
इतिपूजाम्पुराकृत्वात्वन्यदावरणंशृणु
प्राणापानतथाव्यानमुदानञ्चसमानकम्
अग्निकोणेततश्चैवविततञ्चतथाद्यनं ८
सुखिरंवैखरीशद्वन्द्वितीयेकोणकेयजेत्
पृथिव्यप्तेजआख्यातंवाय्वाकाशौतृतीयके
शव्दस्पर्शश्वरूपञ्चरसगन्धौचतुर्थके
इच्छाज्ञानाक्रियाचैवपरामायाचपञ्चमे
भूर्भुवःस्वस्तपःसत्यंषष्टकोणेक्रमाद्यजेत्
सर्वस्यान्तेवदेदेविद्विठःसञ्जीविनीपदम्
त्रिशःसञ्जीवनीपूजामृत्युसञ्जीविनीतथा
इतिसञ्जीविनीपूजाविधिः