०४

ईश्वरौवाच
अथवक्ष्येमहादेविसर्वसाम्राज्यदेवतां
यस्याआराधनाद्विष्णुरभूल्लक्ष्मीपतिःस्वयं १
चन्द्रशमादनङ्क्ष्मेशवह्निर्दीर्घाक्षिमण्डितं
विदुकूटेश्वरीयुक्तंविद्येयंवैष्णवीप्रिये २
श्रीबीजसम्पुटङ्कुर्यात्सार्वसाम्राज्यदायिनी
ऋषिर्हरिस्तथाछन्दोगायत्रीचास्यसम्मता ३
देवतामोहिनीलक्ष्मीमहासाम्राज्यादायिनी
बीजङ्कूटंसमाख्यातंशक्तिश्रीबीजमुच्यते ४
षड्भिरायैःस्वरैर्भित्वाषडङ्गानिप्रविन्यसेत्
अतसीपुष्पसङ्काशांसर्वरत्नविभूषितां ५
शङ्खचक्रगदापद्मशार्ङ्गवाणधराङ्करैः
खड्गिःकराभ्यान्देवेशिवरदाभयशोभितां ६
एवमष्टभुजान्ध्यात्वारविलक्षञ्जपेद्वुधः
तद्दशांशेनपद्मैस्तुहुनेत्साम्राज्यसिद्धये ७

पृ० ४ब्) जितेन्द्रियःसविधिवद्यन्त्रोद्धारंशृणुप्रिये
त्रिकोणञ्चाष्टयन्त्रञ्चभूविम्बञ्चततोलिखेत् ८
चतुर्द्वारंसुशोभाढ्यंयन्त्रमेतत्समालिखेत्
अस्मिन्समावाह्यदेवीम्पूजयेदुपचारकैः ९
पूर्ववत्परमेशानिषडङ्गाचरणंयजेत्
गायत्रीचैवसावित्रिसरस्वत्यग्रभागतः १०
क्रमेणपूजयेद्देविव्राह्म्यायाश्चस्वरैःपृथक्
अष्टपत्रेषुभूविंवेत्वेकोच्चारेणपूजयेत् ११
अष्टादशमहाकोटियोगिनीभ्योनमोलिखेत्
अनेनमनुनापश्चादिन्द्रादीन्पूजयेत्ततः १२
पुनर्देवींसमभ्यर्च्यगन्धपुष्पाक्षतादिभिः
वटुकक्षेत्रपालेभ्योयोगिनीभ्योवलिंहरेत् १३