अतः परं प्रवक्ष्यामि आशौचस्यविधिक्रमम् ।
वर्णजातिविधिञ्चैव अनुलोमविधिं क्रमात् ॥
सूतकप्रेतकञ्चैव आशौचञ्च क्रमेण वा ।
(ब्राह्मणाच्छूद्रकन्याया जातोषष्ठ उच्यते ॥)
ब्रह्मचारी जटाधारी सन्यासी शौच वर्जितः ।
वानप्रस्थश्च बौद्धश्च आशौचस्य विवर्जितः ॥
प्। १९०)
ब्राह्मणानां दशाहञ्च क्षत्रयं द्वादशं भवेत् ।
वैश्यानां षोडशञ्चैव शूद्राणां त्रिंशतिस्तथा ॥
अनुलोमजातानान्तु आशौच विधिं शृणु ।
विप्रस्य नृपकन्यायां जातो सवर्णनामकः ॥
एकादशाहमाशौचं द्विजवत्कर्ममाचरेत् ।
विप्रस्य वैश्यकन्यायां जातोंषष्ठ उच्यते ॥
उपवीत समन्त्रज्ञ द्विजवत्कर्ममाचरेत् ।
सूतकप्रेतकञ्चैव आशौचं द्वादशक्रमात् ॥
ब्राह्मणाच्छूद्रकन्यायां जातः पारशवः स्मृतः ।
निषेकादिविवाहान्त द्विजवत्कर्म माचरेत् ॥
सूतकप्रेतकञ्चैव आशौचं षोडशक्रमात् ।
क्षत्रियाद्विप्रकन्यायां जातो वै सूत उच्यते ॥
सूतकप्रेतकञ्चैव द्वादशञ्च भवेत् क्रमात् ।
ब्राह्मणाद्वैश्यकन्यायां चौयाद्वै कुम्भकारकः ॥
सूतक प्रेतकञ्चैव षोडशन्तु भवेत् क्रमात् ।
अनुलोम क्रमञ्चैव कर्मजाति क्रमं शृणु ॥
रुद्रस्य गणिकाश्चैवमाशौचञ्च षोडश ।
तपस्वी देवदासीनां पक्षाशौचं विधीयते ॥
अन्यथा नृत्तवाद्यञ्च दशपञ्च क्रमेण तु ।
विष्णुदासी दासकानां दशपञ्च क्रमेण वै ॥
प्। १९१)
लिङ्गार्चन शिवभक्तानाम् आशौचं पक्षमाचरेत् ।
मातृवर्गमाशौचं पितृवर्गञ्च वर्जयेत् ॥
तद्दासी जननास्सर्वे वेश्यापुत्रो विवर्जयेत् ।
सूतकाशौच मध्ये तु मृतश्चेत्सूतकान्तकम् ॥
मृताशौच मध्ये तु जातकं पूर्णमाचरेत् ।
आदन्तजन्मनस्सय आचौलान्ते शिखिस्मृतः ॥
त्रिरात्रमावृतादेशाद् दशरात्रमतः परम् ।
त्रिवर्षादुदकं पिण्डं श्राद्धान्तं पञ्चमात्परम् ॥
अष्टदार्थकलं ग्राह्यं सपिण्डान्तमतः परम् ।
भार्या तु गर्भिणी चैव गर्भन्यासं विवर्जयेत् ॥
द्विभार्या गर्भिणी चैव एकभार्या प्रसूतिका ।
वपनं नैवकुर्वीत नामकर्म च कारयेत् ॥
मातापितृमृते प्राप्ते क्षौरं कुर्वन्विनश्यति ।
कृत्वा चौलोपकुर्वीनात् उदकपिण्डमेव च ॥
गुर्वाचार्यपत्नीनां गर्भवानपि वापयेत् ।
पितृदीक्षा च कुर्वीरन् जातिक्षौरं न कारयेत् ॥
मातापित्रोस्तु दीक्षायां शुभाशुभ विवर्जितम् ।
शिवानुगमनञ्चैव वपनं सिन्धु सेवनम् ॥
अन्तर्वत्या पतिं कुर्वन् प्रजा भवति ध्रुवम् ।
शावान्नं सूतकान्नञ्च सीमन्तोन्नं तथैव च ॥
प्। १९२)
गो क्षीरे दशवारेण भुक्त्वा चान्द्रायणं चरेत् ।
मातापित्रोस्तु दीक्षायां मध्यमे शुभकर्मणि ॥
सप्ते दीक्षासमाप्तैव शुभक्रमणि कारयेत् ।
बहुपुत्रेण दीक्षा च मध्यमे शुभकर्मणि ॥
प्राप्ते कनिष्ठपुत्रेण दीक्षापि च समाप्यता ।
शुभकर्मेण तेनैव कुर्यादपि विशेषतः ॥
मातापितृपितृव्याणां मातुलैः पूर्वजैर्मृतौ ।
पराचार्य * * * नां गर्भवानपि वापयेत् ॥
अन्तवाग्दहनं कुर्यात् केशाश्मश्रूणि वापयेत् ।
गर्भिणी अष्टमासञ्च गर्भवान्कर्म वर्जयेत् ॥
गर्भितेनैव कर्मेण जातकं मध्यमेव च ।
प्रायश्चित्तञ्च कर्तव्यं पुनः कर्मसमाचरेत् ॥
उत्सवे च प्रतिष्ठायाम् अर्चने होम एव च ।
यत्कालमध्यमे शौचे कर्मान्त्येशौच माचरेत् ॥
मातुश्च पूर्वदीक्षायां पितॄणान्दहनं भवेत् ।
पितुश्च पूर्वदीक्षायां दहनं वपनं क्रमात् ॥
कन्या उदकपूर्वश्च मृत्युः कर्मपिता यदि ।
कन्यादानान्मुदा चैव भक्ताकर्मञ्च कारयेत् ॥
कन्याभक्तमतैश्चैव रजसायपिधाय च ।
गर्भिणी गर्भान्मरणे सूतिकादशमङ्गली ॥
सहोदरं सखीपुत्री मृतसूते शौच वर्जयेत् ।
भर्तृवर्गञ्च हीनञ्च सहोदरकर्मकारयेत् ॥
अन्त्ये परिश्रम प्रेतम् एकाहमं शौच माचरेत् ।
सर्पबन्धञ्च पाशञ्च अग्निदग्धञ्च खड्गकम् ॥
जलं वृक्षनदी शृङ्गो औषधञ्च प्रयोगश्च ।
दुर्मरणन्नवमञ्चैव प्रायश्चित्त विधि क्रमात् ॥
अन्तरात्मगजे यैव परमात्मा न योजयेत् ।
नारायण बलिञ्चैव ब्राह्मणानां विशेषतः ॥
ग्रहशान्ति विप्र भोजन कर्मञ्चैव तत्कारयेत् ।
षष्ठमासे चतुर्मासे अथवा च त्रिमासके ॥
पुनस्संस्कार कर्वेण अस्तिसञ्चय ॥
…