४५

शूलप्रतिष्ठां प्रवक्ष्यामि शृणु ब्रह्मन्यथा क्रमम् ।
प्रासादस्याग्रतः कुर्यात् ऐशान्यन्तु विशेषतः ॥

नवहस्तं सप्तहस्तं पञ्चहस्तमथापि वा ।
मण्टपं कारयेत् तत्र शास्त्रदृष्टेन कर्मणा ॥

मण्टपञ्चतुरश्रन्तु लक्षणेन समन्वितम् ।
त्रिविधैकं समाशृत्य मण्टपं कारयेद् बुधः ॥

(नवहस्तं सप्तहस्तं पञ्चहस्तमथापि वा ।
मण्टपं कारयेत् तत्र)

द्विविधं मण्टपं प्रोक्तं चोत्तरे वासनं भवेत् ।
षोडशस्तम्भसंयुक्तं चतुष्तोरणसंयुतम् ॥

पञ्चभागं त्रिभागैकं देवी विस्तारमुच्यते ।
तद्विभागैकमुत्सेधं दर्पणोदरसन्निभम् ॥

मेखलात्रय संयुक्तं सर्वलक्षणसंयुतम् ।
यदैकमेखलां कुर्यात् * * * * * * * * ॥

प्रथमा मे * * प्रोक्ता चोक्तमाद्यप्रकीर्तिता ॥

तस्मादङ्गुलहीना च द्वितरा * प्रकीर्तिता ।
मध्यमा सा च प्रकीर्तिता ॥

उत्सेधन्तावदेवोक्त तस्माद्विस्तारमुच्यते ।
दिक्सोपान समायुक्त मनोज्ञा च प्रकीर्तिता ॥

उत्सेधन्तावदेवोक्तं तस्माद्विस्तारमुच्यते ।
दिक्सोपानं भवेत् ब्रह्मन् चतुर्दिक्षुक्रमेण तु ॥

चतुद्वारसमायुक्तं दर्भमालावलम्बितम् ।
वापनोपरि सञ्छन्नं पुष्पमालोपशोभितम् ॥

धूपदईपसमायुक्तं तोरणैश्च समन्वितम् ।
प्लक्षोदुम्बरमश्वत्थं वटं पूर्वादितः क्रमात् ॥

प्लक्षन्तु तोरणञ्चैन्द्रे याम्ये चौदुम्बरं भवेत् ।
अश्वत्थम् वारुणं ज्ञेयं वटं सौम्ये च कीर्तितम् ॥

एवं वै तोरणं ज्ञेयं लक्षणेन समन्वितम् ।
भूमौ ततः प्रविष्टञ्च तदूर्ध्वञ्च चतुर्भुजम् ॥

आपन्तोरणसंयुक्तं लक्षणेनसमन्वितम् ।
अर्चयित्वा विधानेन कलशं तेषान्तु मूलतः ॥

एवं वा मण्टपं कृत्वा ध्वजस्य स्थापनं कुरु ।
अधिवासनं विना पूर्वे ध्वजमुथापयेद् गुरुः ॥

ध्वजमुत्थाय विधिना स्थण्डिलं तत्र कारयेत् ।
स्थण्डिलञ्च प्रकर्तव्यं देविकायां विचक्षणः ॥

प्। १७५)

एकोत्तर पदेष्वेव मध्ये पद्मं प्रकल्पयेत् ।
एकैकान्तरितस्तस्मिन् पदमेकन्तु ह्रासयेत् ॥

द्रोणतण्डुलसंयुक्तं विकिरेन्वसमन्ततः ।
शोभितञ्चैव पद्मैस्तु मध्यमेन तिलेन च ॥

तत्पद्मं कर्णिकायुक्तं लक्षणेन समन्वितम् ।
आसनं कल्पयेत् तत्र शास्त्रदृष्टेन कर्मणा ॥

पञ्चाचार्यसमायुक्तम् अथवास समन्वितम् ।
अष्टमङ्गलसङ्कीर्णे मङ्गलं कुरु * * * ॥

जलावाहसंयुक्तं शूलं वै लक्षणान्वितम् ॥

एवं कृत्वा विधानेन शूलं स्थापयेत् बुधः ।

वेदिकायान्तु परितः चैन्द्रादिक्रमयोगतः ।
चतुरश्रं भवेदैन्द्रं योन्याकारन्तु पावके ॥

अर्धचन्द्रो भवेद्याम्ये त्रिकोण नैर्-ऋतं भवेत् ।
वर्तुलं वारुणं ज्ञेयं षट्कोणं वायुगोचरे ॥

सौम्ये पद्मनिभाकारैरैशान्यामष्टकोणकम् ।
एतेषु होमं कर्तव्यं शास्त्रदृष्टेन कर्मणा ॥

समित्सर्पि दधिक्षीरं मधुलाजाधिकं क्रमात् ।

प्। १७६)

ततः प्रभाते विमले शूलस्थापनमारभेत् ।
स्थापयेन्मातृमन्त्रेण आचार्यो मन्त्रविग्रहः ॥

मण्टपस्य तु तन्मध्ये वेदिकायां विचक्षणः ।
वेदिकायां मनोज्ञायां शास्त्रोक्तायां वरानने ॥

रत्नन्यासोत्तरे काले शूलन्तत्र प्रतिष्ठयेत् ।
तदन्ते स्नपनं कुर्यादन्ते भूतबलिं क्षिपेत् ॥

अपराह्ने तदन्ते तु यज्ञस्तु यथाक्रमम् ॥

इति ब्रह्मयामले शतसहस्रसंहितायां शूलप्रतिष्ठा नाम
पञ्चचत्वारिंशत्पटलः ॥ ४५ ॥