४३

अथातस्सम्प्रवक्ष्यामि प्रायश्चित्त विधिक्रमम् ।
मातृशान्तिषु योगेषु यथादोष प्रवृत्तये ॥

तद्दोष शमनार्थाय प्रायश्चित्त विनिर्णयम् ।
प्रासादञ्च्छिन्नभिन्नञ्च कालेन पतितेन च ॥

शैलं वा प्रतिमं वापि क्षतं वा भग्नमेव वा ।
सिरा चैव परैर्वापि पतितं भिन्नमेव वा ॥

हीनको व्याधितो वापि आलयं प्रतिमां तथा ।
तोरणं पतितञ्चैव द्वौसूर्य प्रभयोरपि ॥

भूमिं वा कम्पनञ्चैव अग्निना दहनेपि वा ।
समयी साधकश्चैव पुत्रकावार्य संयुतः ॥

यजमानव्याधिपीठं चित्रकेटकसर्वतः ।
हीनाद्वै दक्षिणेर्यत्र हनहीनमथापि वा ॥

हेमे तु द्रव्यहीने तु वस्त्रहीनञ्च तद्भवेत् ।
देवं न रूपं विज्ञेयं प्रायश्चित्तं प्रशस्तकम् ॥

नवाक्षरेण मन्त्रेण प्रत्येकाष्टशतं हुतम् ।
समिधा तिलपर्यन्तं देव्या गायत्री हूयते ॥

प्रासादे मण्टपे भिन्ने शूलादष्टायुधानि च ।
नवशक्तिसमायुक्तं होमयेत् तु शताष्टकम् ॥

प्रासादं भिन्नहीनन्तु बालस्थानं प्रकल्पयेत् ।
प्रासादं तत्र कुर्वीत आचार्यश्शिल्पिभिस्सह ॥

पूर्वोक्तेन विधानेन सम्प्रोक्षणमथाचरेत् ।
तत्र हीनहुते चैव मूलमन्त्रञ्च कारयेत् ॥

मातॄणाञ्च प्रतिष्ठान्ते सुधाचित्रादि शोभिते ।
चण्डालहीनवर्णञ्च श्वानस्पर्शनसङ्करे ॥

सङ्करेतरजातीनां पतितोन्मत्तका अपि ।
खण्डस्फुटित भिन्नञ्च कवाटं स्तम्भयोरपि ॥

सम्प्रोक्षणं प्रकर्तव्यं पूर्ववद्विधिचोदितम् ।
ग्रामादिपत्तनस्यान्ते नराणां व्याधिपीडिते ॥

सर्वामुख प्रयत्नेन सम्प्रोक्षणमतः कुरु ।
तत्रैवं न कुर्यात् तु पूर्वोक्तेन विधानतः ॥

पूर्वोक्तेन विधाने पुंसवं कारयेद्बुधः ।
तत्रैव स्नपनं कुर्यात् तथा वित्तानुसारतः ॥

तत्रैव तद्धानेन्मन्त्री नवाक्षरेण बुद्धिमान् ।
सहस्रन्नवकञ्चैव अष्टोत्तरशतं हुतम् ॥

तत्रैव त्रिविधं होमम् उत्तमादि यथाक्रमम् ।
सर्व द्रव्येषु शान्तानि पूर्णाहुतिं विशेषतः ॥

प्। १६५)

आचार्य व्याधिप्राप्तस्यात् कर्ता वा व्याधिपीडितः ।
होमयेन्मूलमन्त्रेण त्याज्या तिलसंयुतम् ॥

अग्निना दहने वस्त्रे आलये प्रतिमापि वा ।
सर्वद्रव्येषु संयुक्तं नवबीजेन होमयेत् ॥

भूमेर्वा कम्पने चैव रोगेषु कलहेषु च ।
तोरणं पतनञ्चैव मूलमन्त्रेण संयुतम् ॥

होमयेत् पञ्चविंशत्या हुत्वा वै कैः पृथक् पृथक् ।
नवाक्षरेण मन्त्रेण उत्तालक्तन्तथैव च ॥

चण्डालस्पर्शने चैव यत्र भिन्नञ्च वर्जयेत् ।
भाण्डमन्यत्तु संस्थाप्य प्रणवेन तु संयुतम् ॥

शयनैर्वा मरणैर्वा जलसम्प्रोक्षणं विधिः ।
श्वानैर्वा म्लेच्छजाती च शिल्पिर्वा चित्रकर्मणि ॥

आलयाभ्यन्तरे चैव गमने दोषकृद्भवेत् ।
प्रायश्चित्तन्तु कर्तव्यं सम्प्रोक्षणमथा चरेत् ॥

देवीनामर्चने काले यथादोषं प्रवर्तते ।
लिङ्गं वा प्रतिमां वापि परशुं शूलमेव वा ॥

घण्टाञ्च कलशञ्चैव धनुर्नारा च मेव च ।
अन्त्यैश्चायुधैर्युक्तं बलिबालेष्वयं तथा ॥

प्रमादात्पतिते भिन्ने यथा सम्भवतो मता ।
यथालाभं गृहीत्वा हुत्वा देवीं निवेदयेत् ॥

पगे नो। १६७ नोत् अवैलब्ले इन् थिस् त्रन्स्च्रिप्त्।

प्। १६७)

हुत्वा वै मूलमन्त्रेण पुनः प्रदक्षिणमारभेत् ।
दिव्यन्तरिक्ष भौमानि निमित्ता शत्रुदनाशुभम् ॥

काकैर्वा कुक्कुटैर्वापि शृङ्खल * * * * * ।
महावातभयं वापि यत्रदीर्घञ्च मानुषे ॥

मानुषैर्वा विरोधस्स्यात् * * * * * * * * ।

प्रमादाद्यत्र हीने तु सर्वयुक्त प्रमाणकैः ।
मूलगायत्रि मन्त्रेण सहस्रं वा शताष्टकम् ॥

स्वचक्रं परचक्रं वा क्षोभयुद्धं यथा भवेत् ।
देव्या गायत्री मन्त्रेण होमयेन्मूलविद्यया ॥

दर्वीव होमद्रव्येव निष्कले प्रतिमेपि वा ।
कालित्थश्च लडं वापि मूलमन्त्रेण होमयेत् ॥

यत्र कुम्भं प्रतिष्ठाप्य पतितं चेत्प्रमादतः ।
नवाक्षरेण मन्त्रेण तदेवं होमयेद्बुधः ॥

स्नपनस्याधिवासेन कलशं भग्नमेव च ।
तत्रैक कलशे मध्ये यदादोषं प्रवर्तते ॥

ध्वजे च पतिते वापि ध्वजादण्डस्य भेदने ।
तत्र होमं प्रकुर्वीत समयाद्यासु विद्यया ॥

पशूनां छेदने यत्र उदरे वत्सदृश्यते ।
तद्दोषशमनार्थाय प्रायश्चित्तं विशेषतः ॥

प्। १६८)

जप्त्वा सम्प्रोक्षणं कृत्वा ततश्चोत्सवमारभेत् ।
सप्ताहमपि कुर्वीत उत्सवं प्रत्यहं बुधः ॥

स्नपनञ्च प्रकर्तव्यं यथाशास्त्रानुसारतः ।
तत्तच्छान्तिं प्रकूर्वीत प्रजोत्पातकमारणम् ॥

सर्वदुःखकरं नित्यत्यं यजमानव्याधि पीडितः ।
होमयेद् विधिवत्पूर्वं मूर्तमादिषु योजयेत् ॥

नित्योत्सवविहीने तु सन्धिहीने तथैव च ।
तस्य होमं प्रकूर्वीत मूलमन्त्रादिसंयुतम् ॥

एकं पञ्चदशं वापि एकाष्टं पूजहीनके ।
मासेन नवं कुर्यात् पञ्चाशच्च शताष्टकम् ॥

अर्धमासे दशत्येकं स्नापयेत् तु यथाविधि ।
मासादिवत्सरान्ते तु प्रायश्चित्तं यथाविधि ॥

एककालं द्विकालं वा त्रिकालं वा न पूज्य च ।
एकादशकरात्रं वा देव्यादि छिन्न पूज्य च ॥

यस्य कालविहीने तु तस्य शान्तिं समारभेत् ।
कालाधिकं भवेत् तत्र होमाद * * कं भवेत् ॥

यस्य हीने विदे वियाने तदा पृष्टे प्रतिलोमानुलोमकैः ।
ग्रामे वा नगरे वापि नराणां व्याधिपीडितम् ॥

तस्मात् सर्वप्रयत्नेन देवि सान्निध्यकारकम् ।
प्रायश्चित्तं प्रकुर्वीत वाद्यहीनं तथैव च ॥

प्। १६९)

करमुद्रा विहीनन्तु होमस्थानन्तु यद्भवेत् ।
नृत्तकाले प्रमादाद्वा नराणां पातने सति ॥

तथा होमं प्रकुर्वीत पशुं हत्वा यथाविधि ।
आज्याहुति सहस्रं वा क्षेत्रशान्तिं तथा कुरु ॥

तस्मान् नृत्तं समारभ्य ग्रामादीनां प्रदक्षिणम् ।
मार्जनं ताटनं कुर्यात् देव्योवन्तु वर्जयेत् ॥

मार्जना हीने तु ताट्यं स्थाननाशं भविष्यति ।
तस्मात् सर्व प्रयत्नेन शान्तिहोमं समाचरेत् ॥

ततस्तु शेषमातोद्यं पटहादि यथाक्रमम् ।
नरादि मक्षिकान्तानि न कुर्यात् तत्र लङ्घनम् ॥

प्रमादाल्लङ्घयित्वा तु हुत्वा देव्या निवेदयेत् ।
नवाग्नीव शिवं ध्यात्वा अर्चयेन्मूलविन्यसेत् ॥

अन्यांस्तु लङ्घयित्वा तु देवीं तत्र प्रपूजयेत् ।
उत्सवो दिश्यावद्यस्तु धार्यते त्रिषु पौरुषम् ॥

महादोषः प्रवर्तन्ते वदामीतिरजस्वला ।
दोषानुरूपं संवक्ष्ये शान्तिं कुर्याद् विचक्षणः ॥

प्रतिष्ठाकालक्रिया सर्वे कारयेत् सुसमाहितः ।
एवं परीक्ष्य बहुधा कारयेत् तत्र वित्तमः ॥

आचार्यं पूजयेत् सम्यक् वस्त्रहेमाङ्गुलीयकैः ।

इति ब्रह्मयामले शतसहस्रसंहितायां प्रायश्चित्तविधिर्नाम
त्रिचत्वारिंशत्पटलः ॥ ४३ ॥