अथातस्सम्प्रवक्ष्यामि मातॄणां शूलसङ्ग्रहम् ।
उत्तरं दक्षमयनमुत्तरमुत्तरन्तथा ॥
दक्षिणमयनञ्चैव षण्मासञ्चैव वर्जयेत् ।
उत्तरोत्तरमभ्युक्तमुत्तरं सर्वसङ्ग्रहम् ॥
इत्येते सङ्ग्रहं शूलं सर्वकामार्थसाधनम् ।
सुभिक्षं क्षेममारोग्यं सर्वसस्य विवर्धनम् ॥
चातुर्वण्यं हितञ्चैव सर्वारिष्टविनाशनम् ।
ग्रामे वा नगरे वापि सर्वशान्तिकरं शुभम् ॥
सुवर्णरजतं लोहं दारुशूलं तथैव च ।
मृत्तुमृण्मयस्यार्धञ्च मुहूर्तं गृहसङ्ग्रहम् ॥
प्। १५९)
स्वस्तिवाचक वाक्यञ्च ब्रह्मघोषन्तथैव च ।
पटहं मद्दलं तालं करटीतिमिला तथा ॥
शङ्खकालसमायुक्तं मातृघोषं तथैव च ।
आचार्य शिष्यसंयुक्तं वस्त्राभरणमेव च ॥
अङ्कुरार्पण पूर्वोक्तं मधिवासन कर्मणि ।
मातृमण्टपसंयुक्तं शान्तिनं शान्तिकर्मणि ॥
स्थण्डिलं तत्र कुर्वीत अष्टद्रोणन्तु शालिभिः ।
तदर्धन्तण्डुलञ्चैव तण्डुलार्धतिलन्तथा ॥
तस्यार्धं तिलसंयुक्तं दर्भमुष्टिन्तु विस्तृतम् ।
तन्मध्ये पङ्कजं लिख्य सर्वालङ्कारशोभितम् ॥
अश्वत्थोदुम्बरं प्लक्ष वटवृक्षं तथैव च ।
चतुरश्रसमं कृत्वा हस्तमात्रप्रमाणकम् ॥
स्थण्डिले विन्यसेत् पीठम् आचार्यस्साधकैस्सह ।
पाद्यमाचमनीयञ्च गन्धपुष्पादि चार्चयेत् ॥
पाद्यादि सर्वमन्त्रेण अर्चयित्वा विधानतः ।
अजं रुधिर मांसादि सर्वे हविर्निवेदयेत् ॥
निवेदनन्तु निर्माल्यं सर्वञ्चैव विसर्जयेत् ।
ताम्बूलं सद्यमन्त्रेण साधकाचार्य पूत्रकः ॥
आचार्य अ * मन्त्रस्य मृत्युपीठस्य साधनम् ।
प्रदक्षिणञ्चैव आलयस्य प्रदक्षिणम् ॥
प्। १६०)
प्रतिमन्दक्षिणञ्चैव आचार्यं सर्वमातृकम् ।
प्र * * * * * * * सदाशिव शिवस्तथा ॥
वसवश्चाष्टभिश्चैव द्वादशादित्य एव च ।
रद्रमेकादश सर्वे अश्विन्याश्च समन्वितम् ॥
इन्द्राग्नि यमनिर्-ऋति वारुणवायुरेव च ।
सोमेशोन्यस्तथा चैव आगछन्तु नमो नमः ॥
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।
वाराही च तथेन्द्राणी चामुण्डी गणरुद्रका ॥
इत्येते क्रमशश्चैव माणाञ्च नमो नमः ।
योगिनी डाकिनी चैव साकिनी पूतना ततः ॥
पालिनी दुन्दुभिश्चैव तथोच्छिष्टा च मातरः ।
भूतप्रेत पिशाचाश्च वेतालञ्च तथैव च ॥
कुमारग्र(र)कूश्माण्ड महादेव ग्रहस्तथा ।
सर्वञ्च सर्वलोकञ्च सर्वपीठञ्च देवता ॥
द्वात्रिंशदधिपश्चैव आगछन्तु नमो नमः ।
आचार्यं मन्त्रसंयुक्तं सावका संहिता च वै ॥
महाकालस्य विन्यस्य मातृमण्डलसङ्ग्रहम् ।
द्वितीयं लक्षणैर्युक्तं शिल्पिसायकसङ्ग्रहम् ॥
यात्रा पात्रपीठस्य द्वा वा पीठे शिल्पिना कृतम् ।
सर्वलक्षणसंयुक्तं शिल्पिनां लक्षणैर्युतम् ॥
प्। १६१)
इत्येते क्रमशश्चैव शूलं ग्रभगृहं भवेत् ।
सर्वलक्षणसंयुक्तं शिल्पि चित्रकलक्षणम् ॥
ब्राह्मणा क्षत्रिया वैश्या शूद्रैर्वा शूद्रलक्षणम् ।
दशतालं नवतालं तु विप्रस्य नवतालं क्षत्रियस्य तु ॥
अष्टतालन्तु वैश्यस्य सप्ततालन्तु शूद्रकः ।
वामदक्षिण खड्गञ्च मध्यमा शूलपत्रकम् ॥
चतुरङ्गुलि विस्तारं पत्रखड्गञ्च वक्त्रकम् ।
द्वितालं सर्ववर्णञ्च शूलस्थापनमेव च ॥
अग्रं दशाङ्गुलवक्त्रं पीठाष्टाङ्गुलवक्त्रकम् ।
पीठन्तु षोडशाङ्गुल्यं चतुरश्रं पीठसङ्ग्रहम् ॥
सर्वलक्षणसंयुक्तं चित्रपत्र * * * * ।
शान्तिकञ्चैव कालीस्थापनमुत्तमम् ॥
सर्वलक्षणसंयुक्तं सर्वचित्रविचित्रकम् ॥
सर्वाङ्गं सर्वसंयुक्तं शिल्पचित्रकलक्षणम् ।
शूलपत्रञ्च देवस्य ब्रह्मब्रह्मञ्च विन्यसेत् ॥
वामपत्रं तथैशान्यां दक्षिणं विष्णुपत्रकम् ।
इत्येते अधिदेवा वा शूलपत्रस्य देवता ॥
शूलपीठं महाकालं मध्यमञ्च विधीयते ।
बहुवीरञ्च पीठस्य अस्त्रपीठस्य विन्यसेत् ॥
प्। १६२)
अग्रपीठस्य दण्डं वै पादपीठं तदीशितम् ।
शान्त्यर्थस्य विस्तारं त्रिभागं भागमेव च ॥
दण्डं वक्त्रेणसंयुक्तं षोडशाङ्गुलविस्तृतम् ।
त्रिभागं घण्टविस्तारं सर्वलक्षणसंयुतम् ॥
पादपीठस्य विस्तारं द्वितालं चतुरङ्गुलम् ।
सर्वचित्रकलेख्यञ्च अष्टपत्रं सकर्णिकम् ॥
वामाङ्गमभिसंयुक्तं मनोन्मनि मयान्तकम् ।
द्वात्रिंशदधि दैवत्यम् अभ्यन्तराभ्यन्त देवता ॥
मध्ये दण्डस्य देवानाम् अष्टमञ्चाधियोगिनी ।
इत्येते क्रमशश्चैव शूलसङ्ग्रहमेव च ॥
ब्राह्मण क्षत्रियी वैश्या शूद्रो वा पुत्र वृद्धिदम् ।
सर्वलोकहितं पुण्यं सर्वशान्तिकरं परम् ॥
सर्वव्याधिविनाशञ्च सर्वारिष्टविनाशनम् ।
ग्रामं ग्रामपतिञ्चैव शूलसङ्ग्रहमेव च ॥
ब्राह्मण क्षत्रियो वैश्य कर्ता भर्ता विवर्धनम् ।
महामारी प्रशमनं वातव्याधि विनाशनम् ॥
सुभिक्षं ग्रामवृद्धिञ्च सर्वसस्य विवर्धनम् ।
मन्त्रहीनं क्रियाहीनं द्रव्यहीनं तथैव च ॥
मुहूर्तकालहीनञ्च कालकलन्तथैव च ।
सर्वदोषं विशेषेण कर्तव्यं सर्ववर्जितम् ॥
प्। १६३)
लोहार्चनञ्च शूलञ्च लोहार्थं मात्रशूलकम् ।
इति ब्रह्मयामले शतसहस्रसंहितायां शूलस्थापनविधिर्नाम
चत्वारिंशत्पटलः ॥ ४२ ॥