अतः परं प्रवक्ष्यामि लङ्घनस्य विधिक्रमम् ।
स्त्रीणाञ्चैव तु विप्राणां प्रमादाल्लङ्घने सति ॥
रक्तस्रावेन कर्तव्यमेकवीरी निवेदनम् ।
क्षत्रियस्य तु लङ्घैश्च मांसच्छेदन्तु कारयेत् ॥
अथवा पृथुमांसैश्च अजमेकं हुनेत् बुधः ।
वैश्यस्य लङ्घने चैव प्रति मांसन्तु दापयेत् ॥
शूद्राणां लङ्घने चैव एकमासन्तु दापयेत् ।
हंसैर्मयैश्च महिषैः श्वानैश्चैव खरोष्ट्रकैः ॥
अश्वञ्चैव तथा जम्बु वानरादि तथैव च ।
हस्तिनं कुक्कुटञ्चैव सद्योतन्तु दापयेत् ॥
पशूनाञ्च तपस्वीनां ब्राह्मणेन तु लङ्घने ।
अष्टोत्तरशतं हुत्वा अजमेकव्यघातयेत् ॥
प्रतिलोमादिलङ्घैर्वा चण्डालै * * लङ्घयेत् ।
सद्यो घातन्तु कर्तव्यं मुत्सव्य * * * * * ॥
मूलगायत्रिमन्त्रेण जुहुयाद्योविकं विदुः ॥
प्। १५३)
कन्यानां लङ्घयित्वा तु अष्टोत्तरशतं हुतम् ॥
इति ब्रह्मयामले शतसहस्रसंहितायां नगरपरिभ्रमणलङ्घविधिर्नाम
एकोनचत्वारिंशत्पटलः ॥ ३९ ॥