बालस्थान विधिं वक्ष्ये बहुवीर्येकवीरिकम् ।
बालस्थानं प्रकुर्वीत सुभिक्षं सस्य वर्धनम् ॥
आयुरारोग्यकञ्चैव सर्वसम्पत् प्रवर्धनम् ।
पूर्वे तु विजयं ज्ञेयं पुत्रपौत्रादि वर्धनम् ॥
आग्नेयं शत्रुविजयं विपुलं धनमाप्नुयात् ।
उत्तरे जाति वृद्धिः स्यात् पूज्यमाचन्द्रतारकम् ॥
बालस्थानं पुरा कृत्वा पश्चात् प्रासादमारभेत् ।
बालस्थानं समारभ्य तत्तत्प्रासादनेष्यते ॥
वित्तहा जन्महा चैव राष्ट्रनाशस्तथैव च ।
तस्मात् सर्व प्रयत्नेन बालस्थानं प्रकल्पयेत् ॥
प्। १३७)
शिलाभिरिष्टकैर्वापि पार्थिवेनापि कारयेत् ।
त्रिहस्तं वा चतुर्हस्तं पञ्चहस्तमथापि वा ॥
षट् हस्तं सप्तहस्तं वा अत ऊर्ध्वं न कारयेत् ।
तत्रैव दारुणा चैव अर्चायाः प्रथमं कुरु ॥
मूलस्य प्रतिमां कुर्यात् शास्त्रदृष्टेन कर्मणा ।
मण्टपञ्चतुरश्रन्तु चतुर्द्वारसमायुतम् ॥
चतुस्तोरणसंयुक्तं दर्भमालाभिवेष्टितम् ।
ध्वजाष्टकसमायुक्तं पुष्पमाल्यैरलङ्कृतम् ॥
मध्ये वेदि प्रकर्तव्या धनुमुष्टिद्वयं भवेत् ।
तत्रैव पूरयेच्छाली द्रोणसप्तकमेव च ॥
तदर्धं तण्डुलं ग्राह्यं पद्ममष्टदलैर्लिखेत् ।
तन्मध्ये शयनं कुर्यात् कम्बलैर्वस्त्रपट्टकैः ॥
कस्योपरि न्यसेत् कूर्चं गन्धपुष्पैश्च संयुतम् ।
तस्योपरि न्यसेद् देवीं भीमरूपीं त्रिलोचनीम् ॥
वस्त्रयुग्मेन सञ्च्छाद्यम् उपवीतञ्च दापयेत् ।
स्वर्णपुष्पञ्च दत्वा तु मूलमन्त्रेण दापयेत् ॥
प्रासादाभिमुखाद् देविं शयने शययेद् गुरुः ।
हृदये हृयं न्यस्य ललाटे प्रणवं न्यसेत् ॥
स्थाने नवाक्षरञ्चैव नमस्कारेण हस्तयोः ।
नेत्रमन्त्रं न्यसेद्धीमान् देवीनलोष्ट्रपेन च ॥
प्। १३८)
यत्पञ्चकं न्यसेच्छोत्रं नासास्यन्तु तृतीयकम् ।
तुरीयन्तु तृतीयं वा पादयोर्विन्यसेद् बुधः ॥
सृष्टिबीजं न्यसेद् गुह्ये पृष्ठे तारन्तु विन्यसेत् ।
मूर्ध्निपादचतुर्थन्तु प्रष्टतातन्तु विन्यसेत् ॥
एवं न्यस्त्वा विधानेन बिम्बशुद्धिं समाचरेत् ।
गन्धपुष्पञ्च धूपञ्च दीपमप्यपवित्रकम् ॥
पुण्याहं विधिवत् कृत्वा स्नपनञ्चैव कारयेत् ।
विविधैर्भक्ष्य भोज्येन मूलमन्त्रेण योजयेत् ॥
ब्राह्मणान् भोजयेत् सम्यक् अष्टोत्तरशतानि वै ।
एवमेव प्रकारेण पूर्वादि क्रमयोगतः ॥
पलाशं खदिराश्वत्थं बिल्ववैकङ्कतानि च ।
देशिकन्तु पलाशेन पूगाट् खादिरमेव च ॥
तिलसर्षपलाजैर्वा समिधाज्य चरून् बुधः ।
पृथगष्टोत्तरशतं हुत्वा हुत्वा तु संस्पृशेत् ॥
तिलं हुत्वा स्पृशेत् पादं मूलमन्त्रेण बुद्धिमान् ।
हुत्वा तु सर्वपाषाणां तु एकं स्पृष्ट्वा तु संस्पृशेत् ॥
लाजं हुत्वा कटिं स्पृश्य चरुं हुत्वोदरं स्पृशेत् ।
समिधं हुत्वा स्पृशेद्धस्त मुद्रा कूर्चसमन्वितम् ॥
आज्यं हुत्वा तु सर्वाङ्गं स्पृशेन् मूलस्य मुद्रया ।
नवाक्षरेण जुहुयात् पूर्ववत् समपङ्कजम् ॥
प्। १३९)
मूलमन्त्रेण हुत्वा तु ततो मूलन्तु विन्यसेत् ।
इन्द्राग्निक यमश्चैव नैर्-ऋतिर्वरुणवायवः ॥
सोमेशानदेवानं लोकपालांस्तथैव च ।
भद्रकाली महाकाली चामुण्डी चण्डिका तथा ॥
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।
वाराही चैव माहेन्द्री वीरभद्रो गणाधिपः ॥
भूताश्चैव पिशाचाश्च वेतालं प्रेतनायकी ।
नवाक्षरेण मन्त्रेण स्वनामपदसंयुतम् ॥
प्रणवादि चतुर्थान्तं होमयेत् खलुपूर्वशः ।
वसुभिश्चाष्टभिश्चैव रुद्रैकादशभिस्तथा ॥
आदित्याद्वादशञ्चैव समुद्रास्सप्त एव च ।
सप्तद्वीपसमाख्याता लोकास्सप्तप्रकीर्तिताः ॥
पृथिव्यापस्तथाग्नीशो वायुराकाशमेव च ।
शब्दस्पर्शरूपञ्च रसगन्धैश्च पञ्चमम् ॥
कर्मेन्द्रियाणि पञ्चैव तथा बुद्धिन्द्रियाणि च ।
बुद्धिमानश्चाहङ्कार प्रकृतिः पुरुषस्तथा ॥
रागविद्याकुले चैव माया बिन्दु तथैव च ।
विग्रहेशञ्चैव शुद्धशुद्धविद्याधिकमेव च ॥
एकाहं पञ्चभिः कृत्वा मूलमन्त्रेण देशिकः ।
कलशान् स्थापयेत् पूर्वं सूत्रान् कालविवर्जितान् ॥
प्। १४०)
सकूर्चा द्रव्यसंयुक्ता सापिधाना स वस्त्रका ।
मध्यमे कलशे ब्राह्मी पवित्रारत्नविन्यसेत् ॥
क्षीरं वै पूर्वकलशे दक्षिणे तु दधिन्यसेत् ।
पश्चिमे तु घृतं न्यस्य पञ्चगव्यन्तु चोत्तरे ॥
श्यामकमग्निकलशे नैरृत्यां वैणवं न्यसेत् ।
वायव्यां शालिविन्यस्य ऐशान्यान्तु कुशोदकम् ॥
नवाक्षरेण मन्त्रेण मन्त्रयित्वा तु पूर्ववत् ।
देव्यास्तु परिधे धीमान् कलशं विन्यसेत् पृथक् ॥
रक्ता करली चण्डाक्षी * * च्छिष्टन्तथैव च ।
निवृत्तिश्च पतिष्ठ च विद्याशान्तिस्तथैव च ॥
अर्चयित्वा विधानेन गन्धपुष्पादिभिः क्रमात् ।
रात्रौ महोत्सवं कुर्यात् शङ्खभेर्यादिनिस्वनैः ॥
पुण्याहं वाचयित्वा तु सूत्रं वै बन्धयेत् तथा ।
आदौ सर्वेषु कर्तव्यं पुण्याहं सर्वकर्मसु ॥
रात्रौ होमं प्रकर्तव्यं प्रभाते स्थापनं कुरु ।
सुमुहूर्तदिने चैव बालस्थानं प्रवेशयेत् ॥
कालमन्हो विधानज्ञ यावत् प्रासादसञ्चयः ।
तावत् तिष्ठेत् बलिग्रामे त्रिसप्तद्वादश क्रमात् ॥
आस्थापन विधानेन स्थापयेद्धृदयेन तु ।
आस्थापनन्तु हृदयं स्थापनानां तु मूलतः ॥
प्। १४१)
कलशान् स्थापयेद् बिम्बे नवाक्षरेण बुद्धिमान् ।
कलशोदकेन सर्वन्तु प्रोक्षयेद्धृदयेन तु ॥
पीठे गर्भर्द्धिभित्तिश्च प्रासादं मण्टपन्तु वा ।
परिवाराञ्च सर्वांश्च प्रोक्षयेद् देशिकोत्तमः ॥
पशुं हत्वा तु तत्रैव त्रयो वा एकमेव वा ।
निवेदयेद्रक्त देवेशी हृदयेन समाहितः ॥
निवेद्यन्दापयेत् तत्र वस्त्रैराभरणैरपि ।
ब्राह्मणान् भोजयेत् पश्चात् कन्यकास्सप्त भोजयेत् ॥
सर्वे वर्ण क्रमात् ततः ।
तस्माद्भूतबलिं ग्रामे नरद्वासे समायुधः ॥
लाजसक्तु समायुक्तं सर्वत्र बलिदापयेत् ।
हृन्मन्त्रेण बलिं दत्वा बलिपीठञ्च बुद्धिमान् ॥
आचार्यान् पूजयेत् सर्वं वस्त्रहेमाङ्गुलीयकैः ।
यागोपयोगद्रव्याणि वस्त्रमाभरणानि च ॥
आचार्यस्तु यथाद्रव्यं विविधामयकन्तथा ।
इति ब्रह्मयामले शतसहस्रसंहितायां बालस्थानविधिर्नाम
पञ्चत्रिंशत्पटलः ॥ ३५ ॥