३२

भूमिदोषविधानन्तु प्रवक्ष्याम्यनुपूर्वशः ।
सर्वव्याधिहरं शुभ्रं सदा विजयवर्धनम् ॥

अकालमृत्युहरणं वसूरीदोषनाशनम् ।
महाज्वरविनाशार्थं महाशान्तिकरं शुभम् ॥

अनाव्षृटेस्तु शमनम् अतिवृष्टिविवर्धनम् ।
महोत्पाते भूमिकम्पे महावाते तु कारयेत् ॥

प्। १२५)

लम्बा मूषिकाकीर्णे शिवोत्कृष्टे तु कारयेत् ।
स्वचक्र परचक्रं वा कलहे जनसम्भवे ॥

महाव्याधिसमाकीर्णे नराणां व्याधिपीडिते ।
देव प्रतिमरोधेन देवप्रासाद भेदने ॥

सभास्थानादि भेदेन फलपुष्पनिपातने ।
महावाते प्रजामारे गजानां मरणेपि वा ॥

अकस्मादश्वमरणे शस्त्राणां पतनेपि च ।
अशनिपाते तु कर्तव्यं मातृयागे तु शान्तिकम् ॥

आषाढे वा भाद्रपदे दुर्भिक्षे तु तथैव च ।
महापीठे च निर्बन्धे दुर्भिक्षे सस्यनाशने ॥

भूमिदोषेण कर्तव्यं मातृयागे तु शान्तिकम् ।
आषाढे भाद्रपदे च फाल्गुने चैत्रमेव च ॥

वैशाखे ज्येष्ठमासे च कार्तिके पुष्यमेव च ।
कृष्णपक्षे चतुर्दश्या भूमिदोषन्तु कारयेत् ॥

सूर्योदये वा कर्तव्यं पूर्वा * * वायशोनम् ।
प्रत्यूषे वापि कर्तव्यं मध्योदयञ्च उत्तमम् ॥

अर्धोदये तु मोहं स्यात् सर्वकामार्थसाधनम् ।
ग्राममध्ये तु कर्तव्यं सर्वव्याधि निवारणम् ॥

सम्मार्जनञ्च तत्कृत्वा गोमयेन तु लेपयेत् ।
गन्धपुष्पैरलङ्कृत्य धूपदीपसमन्वितम् ॥

प्। १२६)

पुण्याहं जयशब्दैश्च शङ्खदुन्दुभिनिस्वनैः ।
काहलैर्-अल्लरीशब्दै वंशैसूर्यरवैश्शुभैः ॥

ब्राह्मणान् भोजयेत् तत्र पञ्चाशद् वेदपारगाः ।
कन्यका भोजयेत् तत्र चतुष्षष्टि मनुत्तमम् ॥

गन्धपुष्पैरलङ्कृत्वा सुरभिन्धूपदीपकैः ।
पूर्वोत्तरमुखो भूत्वा ब्रह्मस्थाने तु दोहयेत् ॥

अन्यास्सर्वास्तु तत्रैव भूमौ दोह्यर्विधानवित् ।
मूलमन्त्रेण मन्त्रज्ञः प्रथमं दोहयेत् तथा ॥

नवाक्षरेण मन्त्रेण दोहयेत् सर्व दोहनम् ।
भूमिदोहन वेलायां वासोद्धारन्तु कारयेत् ॥

द्विरत्नि मात्रकुण्डन्तु मेखलात्रयभूषणम् ।
रत्निमात्रन्तु खतं स्यात् नाभिनेमि समन्वितम् ॥

मेखलान्तु चेत्सर्वं त्रिप्रदेशं सुशोभनम् ।
षडङ्गुलन्तु विस्तारमेकैकं कारयेद् बुधः ॥

अश्वत्थ पत्रवत्कार्यं योनिं प्रादेशमात्रकम् ।
नाभिर्वै तालमात्रन्तु अष्टपत्रं सकर्णिकम् ॥

कण्ठं कृत्वा यथान्यायं होमं कुर्याद् विचक्षणः ।
नवाक्षरेण मन्त्रेण मूलमन्त्रं हुनेत् क्रमात् ॥

वासोद्धारं पुनः कुर्यात् पलाश वृक्षादिकम् ।
त्रिरत्निमात्रमुत्सेधं यथालक्षणं * * * ॥

प्। १२७)

अश्वत्थं खदिरं वापि पलाशञ्चैव कारयेत् ।
सन्धानञ्च सहस्रन्तु तदर्धं वापि कारयेत् ॥

अष्टोत्तरशतं वापि सर्षपादि चरुं बुधः ।
तत्पुरं तु होमं कृत्वा पश्चाद्वारं तु कल्पयेत् ॥

पुत्रसूत्रेण मतिमान् समिधाञ्चैव होमयेत् ।
हृदामन्त्रेण पूर्वेण दक्षिणे मूलविद्यया ॥

पश्चिमे कवचं जप्य उत्तरे चास्त्रमन्त्रतः ।
यथाद्वारसमाप्ते तु पीठयुक्तसमाहितम् ॥

प्रथमं बीजमन्त्रेण ततस्तु कुलविद्यया ।
तत्रैव मूलमन्त्रेण ततस्तु कालिमन्त्रतः ॥

बृहतीरन्तरञ्चैव महाव्रतज्येष्ठसोमक ।
वकणं वा कुण्डमन्त्रञ्च बहिः पवनमेव च ॥

शिखायान्तु शिखां न्यस्य नेत्रे नेत्रे तु विन्यसेत् ।
हृदये हृदयस्ये हस्तमन्त्रन्तु हस्तकम् ॥

पिङ्गला मूलमन्त्रेण व्योमव्यापि तथैव च ।
चामुण्डा हृदयञ्जप्य तथा पारशवोत्तमम् ॥

आचार्यो होमयेत् तत्र शक्तिमन्त्रन्तु पाठकः ।
सुवर्ण कलशं वापि रजतं मृण्मयेपि वा ॥

श्लक्ष्णतारमविच्छिन्न द्योतको चेतयेद् बुधः ।
स्रजते स्रतदेव्या च यारं तु चयेत् ॥

प्। १२८)

तत्क्षणाच्छान्तिमाप्नोति रोगन्तु नाशयेत् ।
पांसुना शीघ्रमाप्नोति सर्वरोगविनाशनम् ॥

यथा गछन्ति शान्ति * * * * * * * * * ।
त्रैलोक्यं शान्तिमाप्नोति असुराणान्तु नाशनम् ॥

वसूरिकाज्वरञ्चैव क्षयं वाथ महाभयात् ।
तत्क्षणान्नाशमायाति वसुधाराप्रभावतः ॥

आचार्यं पूजयेत् तत्र ब्राह्मणानान्तु भोजयेत् ।
ब्राह्मणान् पूजयेत् पश्चात् सम्यग्वस्त्रैराभरणैश्च वा ॥

इति ब्रह्मयामले शतसहस्रसंहितायां दोहवसुधारार्ध विधिर्नाम
द्वात्रिंशत्पटलः ॥ ३२ ॥