अथातस्सम्प्रवक्ष्यामि स्थानदेव विधिक्रमम् ।
चतुष्पथे त्रिपथे चैव कोणे चैव कपर्दिने ॥
ब्रह्मस्थाने सभास्थाने देवस्थाने तथैव च ।
मण्टपे गोपुरे तत्र सिद्धिदं क्षेत्रमेव च ॥
चतुष्पथे चतुरश्रं त्रिपथे च त्रिकोणके ।
दुम्बरैर्मालिनी देवी कपर्दीविश्वरूपिणी ॥
देवस्थानं तथा प्रोक्तं * * * * * * * * ।
चतुर्मुखी ग्राममध्ये तु पूर्वे चैव तु गोमुखी ॥
आग्नेय्यां षण्मुखी देवी नीलकेशी यमस्य तु ।
सिंही च नैर्-ऋते स्थाने वारुणे महिषमर्दिनी ॥
वायव्यां घातकी देवी सोमे चैव सुदर्शिनी ।
ऐशान्यां पिङ्गलाक्षी च ग्रामपीठञ्च देवता ॥
ग्रपञ्च आत्मगोपी च तटाके चैव कोणकी ।
पर्वते अष्टहासी च वापी वै चतुर्भुजी ॥
वने च वज्रकाली च शास्ता स्थाने तु शालिनी ।
शिवस्थाने वज्रपाणि विष्णुस्थाने श्रीभूतकम् ॥
बिल्वे सरस्वती देवी कोष्टे च गणराजिनी ।
दुर्गास्थाने तु दुर्गा च ज्येष्ठा स्थाने तु ज्येष्ठनी ॥
प्। १२४)
मण्टपे अष्टसहस्री च गोपुरे पीठनासिनी ।
गोस्थाने गोमुखी चैव नदीनां सर्वदेवता ॥
महावृक्षे उग्रदंष्ट्री अभिमुखी नमो नमः ।
ॐ नमो भगवती नागराजी नागादिकीर्तिता ॥
श्मशाने नमो भगवती कुशली विश्वरूपिणी ।
ॐ नमो भगवती उग्रदंष्ट्राभिमुखी नमः ॥
ॐ नमो भगवती कृच्छ्रीप्रियदर्शी नमो नमः ।
ॐ नमो भगवती कुटिली उग्रमालाधरी नमः ॥
ॐ नमो भगवती धातु ह्रीङ्कारिणी नमो नमः ।
ॐ ज्वालाधिपतये ज्वाला हेमरूपायि विमलध्रुवाय नमो नमः ॥
ज्वालाधिपति मन्त्रम् ।
इति ब्रह्मयामले शतसहस्रसंहितायां स्थानदेव विधिर्नाम
एकत्रिंशत्पटलः ॥ ३१ ॥