एकाहमुत्सवं वष्ये श्रूयतां कमलासन ।
पूर्ववन्मण्टपं कृत्वा तोरण ध्वजसंयुतम् ॥
वैदिका चतुरश्रन्तु चत्वारिंशत्कुलं क्रमात् ।
तद्बाह्ये द्वारकेक्षुदण्डन्तत्रैव कारयेत् ॥
प्। १०३)
रत्निमात्रं प्रमाणानि चतुरश्रसमन्तथा ।
कृष्णपक्षे प्रशस्तन्तु अङ्गारक चतुर्दशी ॥
रोहिण्यामुत्सवं श्रेष्ठम् अङ्गारकदिनैर्युतम् ।
ब्रह्मणे वैष्णवे पुष्ये अङ्गारकदिनैर्युतम् ॥
प्रतिमासिनि कुर्वीत अङ्गारबलि निवेदयेत् ।
पूर्वाह्णे चार्चयेद् देवीं कूर्चान्नन्तु निवेदयेत् ॥
शान्तिहोमं प्रकूर्वीत देव्यग्नि विधिसंयुतम् ।
रक्तोदकं बलिं पूर्वं मध्याह्न बलिकर्मणि ॥
चरुमांसञ्च रुधिरं लाजानि च तुलानि च ।
कूर्च * * * * * आपूपानि च बहूनि च ॥
बलिद्रव्यञ्च युधञ्चैव अर्चयेन्मन्त्र पूर्वकम् ।
धूपदीपसमायुक्तं वितानं वस्त्रशोभितम् ॥
मधुध्वजसहञ्चैव पाशश्च मज्जकं तथा ।
खड्गगर्भिधनुस्सङ्गैक्षुरिकै कृच शोभितम् ॥
बलिरक्षां प्रकूर्वीत नयेत् तत्र सदेशिकः ।
बलिपात्रमायुधम्मार्य मौनी व्रतपरायणः ॥
ब्रह्मचारी तपस्वी च शुचिविप्रसमासन ।
मन्त्रञ्च मातृकं न्यस्त्वा * * * * * शोभितम् ॥
सप्तमुद्रां प्रकुर्वीत तोरणानि च सञ्ज्ञया ।
क्षेत्रपालबलिं दद्यात् स्थापयेत् तद्विचक्षनः ॥
प्। १०४)
आलयन्तु परिभ्रम्य शन्नोगच्छन्त्यथाक्रमम् ।
ग्रामं वा नगरं वापि पत्तनं वा प्रदक्षिणम् ॥
ब्रह्मस्थाने तु प्रथमं ब्रह्मदेवि बलिं ददेत् ।
इन्द्रादीशानपर्यन्तं बलिं कुर्यात् समन्ततः ॥
देवी वेषधरो वापि मुद्रां वा बल्यनन्तरम् ।
चतुरश्रमण्डलं पूर्वमाग्नेयां योनिमाकृतिम् ॥
याम्यायामर्ध चन्द्रे तु नैर्-ऋत्यान्तु त्रिकोणकम् ।
वारुण्यां वर्तुलं विद्यात् वायव्यान्तु षडश्रकम् ॥
पद्ममष्टदलं सौम्ये ऐशन्ये चाष्टकोणकम् ।
हस्तमात्र प्रमाणानि मण्डलन्तु कारयेत् बुधः ॥
वापी कूपतटाकञ्च गोपुरञ्च तथैव च ॥
देवस्थाने सभास्थाने मण्टपे च विहारके ।
वनान्तरे संस्थाने वटप्लक्षश्मशानके ॥
नगरस्य चतुद्वारे एकवृक्षे शिवालये ।
बलिं दद्याद् विशेषेण स्वनाम्ना चाभिमन्त्रवित् ॥
मुद्राबन्धनमस्कारमर्चयित्वा पुनः पुनः ।
बलिमुद्रां ददेत् पश्चात् बलिमन्त्रमनुस्मरेत् ॥
यात्रा होमन्ततः कृत्वा पारशैवं विशेषतः ।
चतुष्टय जपित्वा तु चामुण्डा हृदयञ्जपेत् ॥
प्। १०५)
तदर्धरात्रे तत्काले देवी पूजा यदुत्तमम् ।
अष्टाह समहारावं बलिदानादनन्तरम् ॥
नवद्वयगुणावाहे * * * * * * * * ।
भनुने नाममन्त्रेण अर्चयित्वा यथाक्रमम् ॥
आस्यानाञ्चैव चार्घ्यञ्च पाद्यमाचमनीयकम् ।
अर्घ्यान्तमर्चयेद् विद्वान् बलिन् तत्रैव निक्षिपेत् ॥
श्मशानान्तानि सर्वाणि पूजयित्वा विशेषतः ।
रात्रौ तु बलिदानं स्यात् तत् तत्स्नपन मारभेत् ॥
विशेषहविषन्दद्यात् पशुं हत्वा निवेदयेत् ।
आचार्यं पूजयेद् विद्वान् वस्त्राभरणभूषणैः ॥
इत्थं कुर्यात् ततो विद्वान् सर्वदुःखविनाशनम् ।
सर्वतीर्थ फलं पुण्यं सहस्र गोदानकल्पकम् ॥
इति ब्रह्मयामले शतसहस्रसंहितायाम् एकाहोत्सवविधिर्नाम त्रयोविंशः
पटलः ॥ २३ ॥