प्। १००)
अथातस्सम्प्रवक्ष्यामि कुजवारबलिं शृणु ।
सर्वपापहरं राज्ञे सर्वसम्पत्प्रवर्धनम् ॥
ब्राह्मणानां हितञ्चैव महामारी विनाशनम् ।
राजाराष्ट्रजयञ्ञ्चैव पुत्रपौत्रविवर्धनम् ॥
गृहज्वरविनाशञ्च भूतदुष्ट विनाशनम् ।
महाशान्तिकरञ्चैव महावृष्टिविवर्धनम् ॥
राजसेना सुखार्थञ्च हस्त्यश्वनरवर्धनम् ।
तस्करान्नभयञ्चैव मातॄणां प्रीतिवर्धनम् ॥
तस्मात् सर्वप्रयत्नेन कुलवारबलिं क्षिपेत् ।
तद्वारात्पूर्ववारे तु रात्रौ सूत्रन्तु बन्धयेत् ॥
अष्टद्रोणैस्तु संसिद्धे पङ्कजं तत्र चालिखेत् ।
एवं कृत्वा विधानेन प्रोक्षयेन्मूलमन्त्रकम् ॥
तन्मध्ये कलशं न्यस्त्वा कृष्णमण्डलवर्जितम् ।
त्रिसूत्रं वेष्टयेत् तत्र गन्धोदक सुपूरितम् ॥
पञ्चरत्नसमायुक्तं वस्त्रद्वय विभूषितम् ।
एकवीरीं न्यसेत्कुम्भे मूलमन्त्रेण देशिका ॥
गन्धपुष्पञ्च दीपञ्च अर्घ्यञ्चरु निवेदयेत् ।
अजरक्तन्तु सम्पूज्य वामहस्तन्तु बन्धयेत् ॥
प्रभाते विमले शुद्धे परशेचनमारभेत् ।
द्विगुणमाराध्य यत्नेन शास्त्र दृष्टेन कर्मणा ॥
प्। १०१)
एवं कृत्वा विधानेन चरुलाज फलादिभिः ।
एकाहन्तु हुनेत् तत्र मूलमन्त्रेण देशिकः ॥
देव्यास्तु पुरतः कृत्वा कुण्डे वा स्थण्डिलेपि वा ।
मातॄणामर्चनञ्चैव मातृमन्त्रेण देशिकः ॥
होमं तत्र प्रकर्तव्यं तद्देशे तु हुनेत्क्रमात् ।
रक्तं मांसं घृतञ्चैव सर्षपञ्चतिलस्तथा ॥
लाजापूपादि संयुक्तमेकैकाष्टशं हुनेत् ।
भूतपीठं न्यसेन्मध्ये अजसप्तन्तु पातयेत् ॥
सकलं निष्कलं न्यस्य तद्रक्तं तु निवेदयेत् ।
मधुत्रयेणसंयुक्तं रुधिरं मध्यसंयुतम् ॥
मध्यमांससमायुक्तं कटके चैव निक्षिपेत् ।
एवं कृत्वा विधानेन योजयेद् देशिकोत्तमः ॥
शूलं ध्वजञ्च परशुं चान्नलिङ्गं क्रियाकरम् ।
कपालं डमरुञ्चैव रत्नव्याघादकन्तथा ॥
एतांश्च तान् समुद्धृत्य दीक्षिते परशैवके ।
क्षुरिकाहस्तसंयुक्तं बलिञ्चैव हि कारयेत् ॥
नानापटहसंयुक्तं नानावाद्यसमन्वितम् ।
डमरुकध्वनिसंयुक्तं सर्व * * समन्वितम् ॥
मातृभक्ति समायुक्तं माहेश्वरि समन्वितम् ।
समयी साधकश्चैव पुत्रकाचार्यकस्तथा ॥
प्। १०२)
क्षुरिकाश्रित हस्तस्तु सङ्गञ्चैव मनोहरे ।
कुजवारबलिं शीघ्रं मध्याह्ने च विनिक्षिपेत् ॥
ग्रामे वा नगरे वापि केटके कुब्जकेपि वा ।
द्विपथे त्रिपथे कोष्ठे वल्मीके च तथैव च ॥
चतुष्पथे श्मशाने च बलिं सर्वत्र दापयेत् ।
बलि भ्रमणवेलायां नराणां लङ्घनं न तु ॥
त्रिशूलं लङ्घनं कृत्वा धानमोक्षमवाप्नुयात् ।
स्त्रीणाञ्चैव तु विप्राणां लङ्घने तत्र सम्भवे ॥
निरपेक्षञ्च कर्तव्यं कृत्वा चैव बलिं भ्रमे ।
वैश्य क्षत्रिय लङ्घे तु मांसच्छेदन्तु कारयेत् ।
श्वानमार्जारमहिषा खरोष्ट्राश्च तथैव च ।
मूलमन्त्रेण मन्त्रज्ञ पशूनाञ्चैव घातयेत् ॥
एवं बलिं क्षिपेद् ब्रह्मन् शृणु शास्त्रस्य निश्चयः ॥
इति ब्रह्मयामले शतसहस्रसंहितायां कुजवारबलिर्नाम द्वाविंशः पटलः
॥ २२ ॥