प्। ९४)
अतः परं प्रवक्ष्यामि ध्वजारोहणमुत्तमम् ।
ध्वजस्य लक्षणं वक्ष्ये उत्तमाधममध्यमम् ॥
षोडशहस्तयुक्तं तु द्विहस्तार्धन्तु विस्तृतम् ।
मूले तु घटिकोपेतं किङ्किणीख संयुतम् ॥
पार्श्वे कदलिकोपेतं तदग्रे तु द्विधाकृतम् ।
ब्राह्मणस्य ध्वजं श्वेतमुत्तमं तद्विनिर्दिशेत् ॥
त्रिशूलन्तु शिवञ्चैव कपालं कौशिकं तथा ।
नाराचं परशुञ्चैव सर्ववस्त्रं तथैव च ॥
मूलमध्ये तथान्ते च एतैश्चैव तु चाङ्कितम् ।
श्वेतसूत्रसमुद्भूतं नैकचिसमन्वितम् ॥
एवं ध्वजोत्तमं प्रोक्तं मध्यमं द्वादशं भवेत् ।
पूर्ववत् कारयेद् ब्रह्मन् मध्यमञ्च ध्वजं क्रमात् ॥
पञ्चतालन्तु विस्तारं पञ्चवर्णन्तु समन्वितम् ।
क्षत्रियस्य ध्वजं प्रोक्तं रक्तसूत्रसमन्वितम् ॥
अधमं दशहस्तञ्च द्विहस्तञ्चैव विस्तृतम् ।
पूर्ववत् कारयेत् तत्र नानाचित्रसमन्वितम् ॥
वैश्यस्य पीतवर्णेन लक्षणेन समन्वितम् ।
अष्टहस्तसमायुक्तं द्विहस्तञ्चिव विस्तृतम् ॥
शूद्राणां कन्यसञ्चैव नैकचित्र समन्वितम् ।
पूर्ववत् कारयेत् तत्र पटञ्च कृष्णवर्णकम् ॥
प्। ९५)
कार्पासं ब्रह्मणः प्रोक्तं क्षौमन्तु क्षत्रियस्य तु ।
आपिङ्गं वैश्य शूद्राणां ध्वजानां परिकीर्तिता ॥
कराली तु लिखेत् तत्र पटे चैव हि बुद्धिमान् ।
ध्वजानां लक्षणं ह्येतदुत्तमम्मध्यमाधमम् ॥
ध्वजदण्डविधिं कुर्यात् उत्तमं मध्यमाधमम् ।
प्रासादाद्विगुणं प्रोक्तमुत्तमं दण्डमुच्यते ॥
चन्दनञ्चम्पकञ्चैव मधुकं पनसं तथा ।
खदिरं देवदारुञ्च वकुलं बिल्वमेव च ॥
अशोकमनसञ्चैव श्रेष्ठवृक्षमुदीरितम् ।
मध्यमं * * * * * * * * नालिकेरकम् ॥
अधमं मुनि वृक्षं स्यात् क्रमुकं याज्ञिकं भवेत् ।
वैणवं तद्विजानीयात् मूलानाहमिहोच्यते ॥
एते वृक्षा प्रशस्ताश्च पूर्वोक्तलक्षणान्विताः ।
शतहस्तं तदर्धं वा विंशत्पञ्चदशं तथा ॥
द्वादशं हस्तदण्डं वा तथा लाभन्तु योजयेत् ।
वैणवं तद्विजानीयात् मूलेनाहमिहोच्यते ॥
षोडशाङ्गुलनाहं स्यात् मध्ये चाष्टाङ्गुलं भवेत् ।
तदग्रे तु तदर्धं स्यात् उत्तमं दण्डमुच्यते ॥
मध्यमस्य तदर्धं वा प्रासादस्य यथाक्रमम् ।
अष्टाङ्गुलञ्च नागन्तु मूलं तस्य यथाक्रमम् ॥
प्। ९६)
एवं दण्डं समुत्पाद्य ध्वजमारोपयेद्बुधः ।
अथ दारुजं वापि ध्वजमारोपयेत्क्रमात् ॥
ध्वजमारोपयेत् प्रातः राष्ट्रन्तु विजयं भवेत् ।
मध्याह्ने राष्ट्रवृद्धिः स्यात् सायाह्ने तु नृणां शुभम् ॥
अर्धरात्रौ भवेद् ब्रह्म सर्वसम्पत् करं भवेत् ।
अग्नके पदवञ्चैव * * * श्चैव नाशयेत् ॥
द्रव्यर्थमङ्गलानान्तु दिव्य भूषण भूषणम् ।
असद्देव विनाशञ्च ऋषिदेव प्रमोदनम् ॥
शावमुक्ता तदाचार्य सर्वभूषणभूषितम् ।
ताम्बूलं दापयित्वा तु सर्वेभ्यश्च विशेषतः ॥
ध्वजमारोपयेत् तस्मिन् शास्त्रदृष्टेन कर्मणा ।
ध्वजारोप्य ध्वजं ब्रह्म यथाविधि पुरस्सरम् ॥
उपध्वजोच्युते तस्मिन् हस्तायामसमन्वितम् ।
इन्द्रे तु श्वेतवर्णं स्यात् आग्नेयं रक्तवर्णकम् ॥
याम्ये कृष्णोद्भवञ्चैव नैर्-ऋत्यान्धूम्रमेव तु ।
वारुणे तु तदाकारं वायव्यं पीतवर्णकम् ॥
सौमे तु सौवर्णाभं कुङ्कुमाभन्तु शङ्करे ।
एवं दीर्घं निजं प्रोक्तं वेणुदण्डसमन्वितम् ॥
त्रयाणाञ्च ध्वजानाञ्च दीर्घजातं तथैव च ।
अथवा दारुदण्डञ्च तत्प्रमाणन्तु चोच्यते ॥
प्। ९७)
एवं कृत्वा समासेन नैवेद्यं दापयेद् बुधः ।
उत्तमञ्चैव नैवेद्यं द्रोणतण्डुलसंयुतम् ॥
पिशितन्तु तदर्धञ्च घृतप्रस्थसमन्वितम् ।
त्रयाणाञ्च ध्वजानाञ्च दध्नाञ्चोपदंशकम् ॥
कदलीफलसंयुतम् नालिकेरफलं तथा ।
गुलखण्डञ्च माषञ्च मुद्गमूलफलं तथा ॥
बृहती कारवल्लि च कूश्माण्डन्तु विशेषतः ।
लवणं मरीचिकञ्चैव स्नेहस्निग्धन्तु कारयेत् ॥
निवेद्यन्दापयेत् तत्र क्रमुपदं समिति स्मृतम् ।
मधुना चैव संयुक्तं पायसं दधिवर्जितम् ॥
स्वजाति देवं वेतालं खड्गहस्तञ्च दापयेत् ।
एवं हविर्निवेद्यञ्च ध्वजदेवाय देशिकः ॥
ताम्बूलं दापयेत् तस्मिन् ध्वजदेवं समर्पयेत् ।
एवं वै चोत्तमं प्रोक्तं हविश्चैव विशेषतः ॥
तदर्धं मध्यमं विध्यात् तदर्धञ्चासमं भवेत् ।
ॐ खड्गहस्ताय विद्महे ध्वजदेवाय धीमहि ॥
तन्नो ध्वजः प्रचोदयात् ।
पैशाचीनां पदं पश्चात् तत्पश्चात्प्रचोदयात् ॥
एवं मन्त्रं समुच्चार्य सर्वं तत्रैव कारयेत् ।
दुन्दुभिं प्रहरेत् पूर्वं ध्वजं पश्चात् समुद्धरेत् ॥
प्। ९८)
ताम्बूलं दापयेत् तत्र सर्वेभ्यश्च विभक्तितः ।
कलशान्वेदिकायान्तु तण्डुले तु यथाक्रमात् ॥
तण्डुलं शालिभिः कृत्वा अष्टद्रोणैर्विशेषतः ।
पञ्चरत्नानि सूत्राणि तण्डुले सूत्रयेत् तथा ॥
तिर्यक् तथैव सूत्राणि सूत्रयेद् वै विचक्षणः ।
द्विपदं हृदये तस्मिन् चतुर्दिक्षु तथैव च ॥
मध्ये नवपदं पद्ममष्टपत्रं ञकर्णिकम् ।
यवैर्धात्यैर्विकिरणं चतुर्विस्तारमन्ततः ॥
तिलैश्च शोभितं पद्ममाढकेन विचक्षणः ।
पञ्चरत्नञ्च तच्छुद्धकलशे चैव तु विन्यसेत् ॥
सूत्रेण वेष्टितं रक्तमाम्रपल्लवशोभितम् ।
वस्त्रयुग्मं समायुक्तं गन्धोदकसमन्वितम् ॥
एवं कृत्वा तथा ब्रह्मन् नैवेद्यं दापयेत् पुनः ।
पूर्वोक्तञ्च बलिं दद्यात् कृत्वा देवं हृदान्तिकम् ॥
एवं कृत्वा समासेन कन्याभोजनमाचरेत् ।
कन्याश्च षोडशे पात्रैर्भोजयेत् पायसेन तु ॥
ध्वजस्योत्तरपार्श्वे तु क्षेत्रपालस्य पीठकम् ।
वृत्तपङ्क्ति त्रिकोणं वा चतुरश्रमथापि वा ॥
अथवा देव्यालयं स्यात् ऐशान्यां पीठमुच्यते ।
एकविस्तारमुच्छृत्य तावदेव तु वर्णकम् ॥
प्। ९९)
इन्द्रनीलप्रतीकाशं घोरदंष्त्र महोदरम् ।
दण्डहस्तं सुहस्ताक्षमूर्ध्वकेशं भयाननम् ॥
मेघाभञ्चैव सञ्चिन्त्य क्षेत्रपालबलिं क्षिपेत् ।
चतुर्विंशति वर्णैश्च मन्त्रस्याभ्यर्चनं भवेत् ॥
क्षेत्रस्य मन्त्राघं सर्वं क्षेत्रपालबलिं क्षिपेत् ।
दुन्दुभिः प्रहरं पूर्वं कृत्वा तत्र बलिं क्षिपेत् ॥
आदौ तु चाङ्कुरं कृत्वा तदन्ते ह्यसिवासनम् ।
तदन्ते ध्वजमारोप्य तदन्ते भेरिताडनम् ॥
तदन्ते श्रीबलिं कुर्यात् तदन्ते चाङ्कुरन्तथा ।
तदन्ते यागपूजा च तदन्ते श्रीबलिं तथा ॥
तदन्ते चोत्सवं प्रोक्तं तदन्ते स्नपनं कुरु ।
तदन्ते गुरुपूजा च शस्त्रदृष्टेन कर्मणा ॥
क्षेत्रपालबलिं वक्ष्ये यथाविधि पुरस्सरम् ।
शतप्रस्थैश्च पक्वं स्यात् तदर्धं वा विशेषेतः ॥
अजमांस युतं पक्वं तलचूर्णसमन्वितम् ।
गुलखण्डसमायुक्तमिक्षुखण्डसमन्वितम् ॥
कदलीफल संयुक्तं मध्वाज्येन समन्वितम् ।
एवं प्रहरणञ्चैव सर्व वाद्येन बुद्धिमान् ॥
तस्मात् सर्व प्रयत्नेन कुजवारबलिं क्षिपेत् ।
तद्वारात्पूर्ववारे तु ॥
इति ब्रह्मायामले वीरविधाने ध्वजारोहणविधिर्नाम एकविंशत्पटलः ॥ २१ ॥