अतः परं प्रवक्ष्यामि यथा वेदानुपूर्वशः ।
शान्तिकं पौष्टिकञ्चैव आभिचारकमारणम् ॥
ब्राह्मणादिक्रमेणैव शान्तिं कृत्वा यथाक्रमम् ।
असुराणां विनाशार्थं मातॄणामुद्भवं क्रमात् ॥
मातॄणां शान्तिकं कृत्वा सर्व भूहितं भवेत् ।
उत्तमामध्यमधम त्रिविधं पशुरुच्यते ॥
प्। ९२)
हस्तीहयनरं हत्वा उत्तमन्तु विनिर्दिशेत् ।
मध्यं माहिषमेवोष्ट्रं त्वधमं त्वजसूकरैः ॥
हरिणमुत्तमञ्चैव कुक्कुटञ्चाधमं भवेत् ।
ललाटे श्वेतवर्णन्तु संयुतं नेत्रगुग्गुलम् ॥
सङ्काशमांसं * ष्णसुदर्शनं भूस्वग्रीवहम् ।
बृहक्ष * * * * * बृहत् स्कन्द बृहच्छिरम् ॥
शृङ्गहीनं भवेद्ध्वाधि दृष्टिहीनं धनक्षयम् ।
शोत्रहीनं ह्यनावृष्टि पादहीनन्तु पङ्कुना ॥
पुच्छहीनं भवेन्मृत्यु अग्निदग्धं कुलक्षयम् ।
समपेक्ष्यं सदारिद्र्यं दन्तहीनं नृपाद् भयम् ॥
गर्भन्वत्र समुत्पन्नं प्रजानामहितक्षयम् ।
पुनश्शान्तिं प्रवक्ष्यामि योजयित्वा विचक्षणः ॥
पाषाणस्फटिकं कुर्यात् महामारी प्रकोपनम् ।
तस्य शान्तिं प्रकुर्वीत पुनश्शान्तिर्विधीयते ॥
प्रायश्चित्तं प्रकुर्वीत सर्वदोषन्तु शम्यति ।
महिषं सर्वाङ्गयुक्तं सुदर्शनं सुशोभनम् ॥
पूर्वोक्तन्तु पशुं तत्र सर्वलक्षणसंयुतम् ।
शुभवर्णं शुभं प्रोक्तां वाहनां वर्णनावहम् ॥
प्। ९३)
कृष्णवर्ण सुभिक्षञ्च धूम्राभं वाहनं भवेत् ।
ललाटे नीलवर्णन्तु पशुं सुखमवाप्नुयात् ॥
गुग्गुलासदृशं नेत्र पुत्रलाभेन संशयः ।
ह्रस्वग्रीवञ्चिरायुष्यं सुलक्षणं सुखावहम् ॥
एवं विधिविधानज्ञो मातॄणां वृद्धिविवर्धनम् ।
पञ्चरात्रं पशुं शोध्य चरुणाप्युपलक्षयेत् ॥
मातॄणां तत्र सम्पूर्ण शुद्धस्नानमलीनकम् ।
पृथक् पञ्चाष्टवर्गेषु उत्तमं पशुरुच्यते ॥
बालाति वृद्धसंयुक्तं वर्जयित्वा विशेषतः ।
षष्ठाहं पूर्वरात्रे तु पशुं कृवाधिवासनम् ॥
वेदिमध्ये प्रकर्तव्यं मण्डलं चतुरश्रकम् ।
हुम्फट्कारेति मन्त्रेण अष्टपत्रं सकर्णिकम् ॥
मध्ये पशं तथा व्याप्य सप्तरोहिणि मन्त्रतः ।
छेदयेन्मूलमन्त्रेण भक्तियुक्तो नरोत्तमः ॥
उत्सवादिषु सर्वेषु बलिकर्म समाचरेत् ।
वाहनं देवि यानस्य द्रस्यविधिरुच्यते ॥
इति ब्रह्मयामले शतसहस्रसंहितायां शान्तिविधिर्नाम विंशत् पटलः ॥ २० ॥