पशुविधिं प्रवक्ष्यामि सर्वकामार्थसाधनम् ।
गजं वा तुरगं वापि उष्ट्रं वा महिषन्तु वा ॥
कृते तु गजमेवोक्तं त्रेतायामहमुच्यते ।
द्वापरे उष्ट्रमेवोक्तं कलौ महिषमेव च ॥
महिषालाभे जनिं प्राक्तम् अजालाभे तु पौष्टिकम् ।
सर्वलक्षणसम्पूर्ण शुभलक्षण रक्षितम् ॥
सुरूपवन्ध्या प्रशस्तास्तु मां पेशलमुत्तमम् ।
शृङ्गहीने तु वर्जित्वा कर्णहीने तु वर्जयेत् ॥
नासिहीनै तथा चैव अरहीने तु वर्जयेत् ।
पशूनाञ्च शिथिले पुछ्रहीने तथैव च ॥
प्। ८४)
अतिवृद्धमति बाल कृशं वर्जं सदा बुधः ।
शृङ्गहीनन्तु दुर्भिक्षं बधिरं कुण्डहीनके ॥
मुखनासिक हीने तु दुर्भिक्षं कलहं भवेत् ।
खुरहीने प्राणिनाशं पङ्कुना पङ्कुजन्मनः ॥
काणे काणत्वमाप्नोति तथाग्रे कुक्षिरोगकम् ।
पुच्छहीने च दारिद्र्यम् अतिवृद्धिं मृतिर्भवेत् ॥
बाला पञ्चवर्षे तु मध्यमा ।
सप्तवर्षा भवेद् वृद्धा तदूर्ध्वमतिमृद्धिदा ॥
एतान् परीक्ष्य यत्नेन सपशुं शोधयेद् बुधः ।
पायसं स्नापयेत् पूर्वं दधिना तु तथैव च ॥
स्नापयित्वा घृतेनैव स्नाप्यता तम्बुनाबुधः ।
गन्धाम्बु स्नापयेत् पश्चात् गन्धपुष्पादिनार्चयेत् ॥
अर्घ्यपाद्याचमनीयञ्च पञ्चरत्नाम्बुजा बुधः ।
मात्रेसोत्कृतां सृष्ट्वा स्पृष्ट्वा स्पृष्ट्वा तु देशिकः ॥
अकारादिक्षकारान्तं सप्तवर्गं क्रमान् न्यसेत् ।
शिरो फालभ्रुवौ कीर्णे नेत्रे नासिकपालयोः ॥
ओष्ठयोर्दन्तपङ्क्तौ च जिह्वा च चिबुकं तथा ।
येषु तेनैव सर्वेषु अवर्गं विन्यसेत् पुनः ॥
कण्ठे ग्रीवे तथा स्कन्धे वारौ हृदि विशेषतः ।
कवर्गं विन्यसेन्मन्त्री एषु स्थानेषु पूर्ववत् ॥
प्। ८५)
चवर्गा च टवर्गा च चतुष्पादेषु विन्यसेत् ।
शृङ्गयोन्यति पृष्ठौ च गुह्यस्थानस्तनेषु च ॥
नासे पुच्छाग्र पाने च ककुत्स्थाने न्यसेत् क्रमात् ।
सास्रमृत्समेदोस्थि मज्जशुक्लादि धातुषु ॥
ईरुते अश्रके चैव नवबीजं क्रमान् न्यसेत् ।
पयसा विन्यसेत् पश्चात् हुङ्कारं सर्वविन्यसेत् ॥
शृङ्गयो ब्रह्मविष्णुश्च रुद्रस्सदाशिवस्तथा ।
वसवश्चाष्टभिश्चैव रुद्रमेकादशादि च ॥
आदित्य द्वादशप्रोक्ता अश्विनौ द्वौ प्रकीर्तितौ ।
ब्राह्मं माहेश्वरी सन्ध्या यज्ञाय वासु * * * ॥
वामदेवी च रुद्री च ज्येष्ठी काला तथैव च ॥
कलविकरणी चैव बलविकरणी तथा ।
बलप्रमथिनी सर्वभूतदमनोन्मनी ॥
शिराद्र पादयोश्चैव क्रमाद्विन्यस्य देवता ।
गन्धोदकं ततो दद्यात् नवाक्षरेण बुद्धिमान् ॥
वस्त्रे युग्मे सम्पूज्य प्रणवेन तु दापयेत् ।
हारञ्च कटिसूत्रञ्च कुण्डलं मकुटं तथा ॥
निवेद्यं दापयेन्मन्त्री श्वेतपीतञ्च कृष्णकम् ।
कर्णे मन्त्रं विदेन्मन्त्री नवाक्षरसकृत् सकृत् ॥
प्। ८६)
पादस्थाने खनेत् कूपं तत्र स्थाप्य पशुं बुधः ।
आगछ पदं तत्रैव तत्र स्थाप्य पशुं बुधः ॥
देव्याचाभिमुखे स्थाप्य चतुर्दण्डी तदन्तरे ।
बिल्वं वा खदिरं वापि पञ्चहस्तं प्रमाणतः ॥
षोडशाङ्गुलनाहन्तु अग्रे पद्माकृतिर्भवेत् ।
पत्रं कर्णिकायुक्तं स्यात् यत्नाकारं समं तथा ॥
सूपं संस्थापयेत् तत्र देव्याश्चैव पुराकृतम् ।
पशुं संवेष्टयेत् तत्र बलरजाति संयुतम् ॥
नालिकेरस्तु चर्मन्तु यन्त्रयित्वा तु रज्जुभिः ।
कनिष्ठाङ्गुल परीणांहन्त्रीरावृत्ति क्रमेण तु ॥
निच्छिन्द्रेंवजयेत् तत्र नागपाशमनुस्मरन् ।
कुशवज्रसमायुक्तं सापकं विरतैर्युकम् ॥
विद्वान् संसृष्टमात्रेण अन्नं पाञ्चमरुज्जकैः ।
सव्यापसव्यमात्रेण क्रामयित्वा तु सापकम् ॥
पश्चात् खड्गं गृहीत्वा तु खड्गशास्त्रविचारकः ।
खड्गदेवासुरे लक्ष्मी पद्मे ब्राह्मणदेवता ॥
घण्टाया विघ्नदैवत्वं शुद्धाशे विष्णुदैवतम् ।
कटिकास्कन्द दैवत्यं यारयोश्चन्द्रसूर्ययोः ॥
मध्यमे रुद्रदैवत्यम् अग्रे संहारकालिकाम् ।
इत्यन्तु खड्गदैवत्यं पूजयेत् खड्गदेवताम् ॥
प्। ८७)
ॐ खं खड्गाय शत्रसंहाराय नमः ।
पशूनां सर्वकर्णे तु जीवन्मुक्तेति मन्त्रतः ॥
ॐ पशुजीव मुक्तिप्रदे देवी सायुज्य देहं स्वाहा ।
एकेन प्रहरेणैव ग्रीवाश्चेदविशारदः ॥
शतमर्धं तदर्धं वा चोत्तमन्तु प्रशस्यते ।
महाबलि प्रकारेण वधं पीठे बलिं क्षिपेत् ॥
तद्भागं प्रोक्षयित्वा तु गन्धादीनां तु पूजयेत् ।
वस्त्रयुग्मेन सम्पूज्य स्वरूपप्रियदर्शनम् ॥
यथालाभो पशुं छित्वा तथा लाभो फलं भवेत् ।
तत्पशुं जीवमुक्तन्तु सद्यस्सायुज्यमाप्नुयात् ॥
इत्येते बलिमुद्दिश्य कर्तॄणान्तु फलं शृणु ।
सर्वसम्पत्करं भद्रं जयदं सर्व सिद्धिदम् ॥
रोमरोमेषु कल्पं वा स्वर्गलोके महीयते ।
सर्वरोम समाप्तेषु पश्चात् सायुज्यमाप्नुयात् ॥
ब्राह्मणादि क्रमेणैव पशुं हत्वा विशेषतः ।
अन्येषाञ्चैव जातीनां पशुच्छेदं न कारयेत् ॥
छेदने चैव तत्रैव राजराष्ट्रं विनश्यति ।
प्रायश्चित्तं प्रकुर्वीत पुनश्शान्तिं समारभेत् ॥
सर्वलक्षणसम्पूर्णं सर्वावयवशोभितम् ।
एवं लक्षणसंयुक्तं तम्भदछेदयेत्पुनः ॥
प्। ८८)
ग्रीवे तु प्रहरेन्मन्त्री तद्रक्तं विनिवेदयेत् ।
वसन्दृष्ट्या भवेत् तत्र प्रायश्चित्तं समाचरेत् ॥
पुनः पशुं हुनेत्तत्र उदापूर्वमूदीरकम् ।
होमं कृत्वा तु मन्त्रज्ञस्तद्दोषशमनाय च ॥
मण्डलं कारयेत् तत्र त्रिभिर्वर्णैर्लिखेद् बुधः ।
चतुरश्रं बार्ह्यतो लिख्य शूलेनैव सुभूषितम् ॥
मध्ये पद्मं समालिख्य अष्टपत्रं सकर्णिकम् ।
मातृन् वै पूजयेत् तत्र गन्धपुष्पञ्च धूपकैः ॥
कलशं नवकं स्थाप्य सापिधानं सकूर्चकम् ।
सञ्ज्ञारक्त समायुक्तं नवाक्षरेण मन्त्रितान् ॥
व्योमं पारशवं कृत्वा चत्वस्तु चतुर्दशी ।
मातृदीक्षा क्रमञ्चैव परं पर्यायमेव च ॥
अन्यत्कर्ण न कर्तव्यं यामलाचारसंयुतम् ।
समयी पुत्रकश्चैव साधकाचार्य एव च ॥
चित्रकं पारशैव स्यात् पुत्रकाणां शिवद्विजः ।
मातृदीक्षा समायुक्तं चतुर्वर्णन्तु योश्रकम् ॥
आदौ पारशवाश्चैव नित्यं देव्यास्तु पूजकाः ।
दीक्षिता कर्मयोग्यानां पारशैव विशेषतः ॥
ब्राह्मणान् शूद्रकन्यायाम्मन्त्रयुक्तेन सङ्ग्रहः ।
जातस्तयोश्च जात्यादावशक्तः पारशवस्तथा ॥
प्। ८९)
षोडश क्रियया युक्तं सर्वसंस्कारसंयुतम् ।
मातृदीक्षा च कर्तव्यं जन्मापारशवस्मृतः ॥
अन्येषाञ्चैव योग्यानां सर्वेषान्तु विशेषतः ।
न दीक्षितश्च यत्कर्मं तत्कर्मं निष्फलं भवेत् ॥
तस्मात् सर्वप्रयत्नेन पारशैव न पूजनम् ।
होमं कृत्वा विशेषेण चतुर्दिक्षु समं तथा ॥
रक्ता कराली चण्डाक्षी महोच्छिष्टा पृथक् पृथक् ।
खदिराश्वत्थ बिल्वञ्च वटश्चैव चतुर्दिशम् ॥
पृथगष्टोत्तरशतं ब्रह्मा वै त्वेकविंशति ।
समिधाज्य चरुं लाजं सर्षपञ्च यवन्तिलम् ॥
मुद्गञ्च वैणवञ्चैव श्री पत्रं कदलीफलम् ।
तत् तन् मन्त्रेण होतव्यं चतुर्दिक्षु यथाक्रमम् ॥
नवाक्षरेण मन्त्रेण समिद्द्रव्येण होमयेत् ।
कुलविद्या विधानेन पश्चाद् ग्राम परिग्रहे ॥
सप्ताहे त्रिदिने वापि कारयेदुत्सवं क्रमात् ।
अथवा एकरात्रं वा ग्रामे सम्यक् परिभ्रमेत् ॥
भ्रमणान्ते विशेषेण पूर्वोक्त विधिना हुनेत् ।
पूर्वं पद्मविधि कृत्वा स्नपनं कारयेद्बुधः ॥
स्नपनं कारयित्वा तु स्नपनोक्तविधानतः ।
ब्राह्मणान् भोजयेत् तत्र यथावित्तानुसारतः ॥
प्। ९०)
दीनानां कृपणानाञ्च अन्नपानादि दापयेत् ।
गर्भदोषोद्भवे तत्र एते नैव तु शाम्यति ॥
अवन्न कुर्यादज्ञानात् मृत्युदोषं भविष्यति ।
दुर्भिक्षं कलहं घोरम् अनावृष्टिर्भविष्यति ॥
गर्भिणी वयदोषार्थं क्रिया चैषा प्रकीर्तिता ।
एवं कृत्वा विधानेन सर्वशान्तिर्भविष्यति ॥
धनमाय शुचौ * * * प्रभामतुलं भवेत् ।
हृद्देशं प्रणवेनैव षट्कारेण तु गृह्यताम् ॥
फट्कारं मुखदेशे तु हुङ्कारेण शिरस्तथा ।
सदलन्तद्वये नैव पार्श्वे ह्री मां समन्त्रितम् ॥
षोडशाक्तेन बीजेन स्वाहा प्रणवयोजितम् ।
तस्मात् समृद्धते मन्त्री यान्तेजं वा स्थितं हरेत् ॥
सर्वाङ्गन्तु हरेन्मन्त्री नवाक्षरेण मन्त्रितम् ।
सं सं दृश्य मतिमान् मूलमन्त्रेण वाचयेत् ॥
वाचयित्वा विधानेन योजयेन् मूलविद्यया ।
तच्छेषं होमयेन्मन्त्री नवाक्षरेण शतं बुधः ॥
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।
वाराही चैव चेन्द्राणी चामुण्डी वीरभद्रकम् ॥
गणेशश्चैव तत्क्षेत्रं लोकपालास्तथैव च ।
पिशाच प्रेतभूताश्च कूश्माण्डा गुह्यकास्तथा ॥
प्। ९१)
गन्धर्वा किन्नरा सिद्धा सर्वेभ्यो बलिदापयेत् ।
मूलमन्त्रेण मन्त्रज्ञो बलिमेषां विनिक्षिपेत् ॥
चतुष्पथे त्रिपथे वापि तटाके क्षेत्रदीर्घिके ।
प्राकारे चालये चैव श्मशाने चैत्यके बुधः ॥
हुतशेषं भवेत् सर्वं भक्तियुक्तो दृढव्रतः ।
रक्तान्नञ्च प्रदातव्यं परियुक्तेन वै बुधः ॥
बलिं दद्याद् विधानेन रक्त भाण्डं त्यजेद् बहिः ।
ग्रामसीमा बहिर्वापि कूपे स्थाप्य च मन्त्रवित् ॥
पश्चाद्वा पांसुभिर्धीमान् कुण्डञ्चैव समुक्षिपेत् ।
कन्यकां भोजयेत् तत्र एकविंशति सङ्ख्यया ॥
एवं पशुविधिः प्रोक्तो लक्षणन्तु प्रशस्यते ।
इति ब्रह्मयामले शतसहस्रसंहितायां पशुविधिर्नाम एकोनविंशत् पटलः ॥
१९ ॥