प्। ७५)
मातृशान्ति विधिं वक्ष्ये सर्वशान्तिकरं शुभम् ।
सर्वव्याधिहरं शुभ्रं सदाविजयवर्धनम् ॥
अकालमृत्युशमनं पुत्रपौत्रादि वर्धनम् ।
महाविघ्नप्रशमनं महाशान्तिकरं परम् ॥
सप्ताह त्रितये पूर्वे उत्सव प्रहेद् बुधः ।
तद्दिने चार्धरात्रे तु दुन्दुभेस्तु परिभ्रमे ॥
ब्रह्माविष्णुश्च रुद्रश्च सदाशिव शिवस्तथा ।
वसुभिश्चाष्टभिश्चैव द्वादशादित्य एव च ॥
रुद्र एकादशस्सर्वे अर्चयित्वा समन्वितान् ।
इन्द्राग्निश्च यमश्चैव निर्-ऋती वरुण वायवः ॥
सोमेशानगणास्सर्वे आगछन्तु महोत्सवे ।
शुचिष्टा च पिशाचाश्च भूतवेताल जातयः ॥
कूश्माण्डगुह्यका नागा सिद्धा यक्षामरुद्गणाः ।
विद्याधराश्च गन्धर्वा आगछन्तु महोत्सवम् ॥
भूलोके च यथा देव भुवर्लोके च देवता ।
स्वर्लोके च ये देव महर्लोके च देवता ॥
जनलोके च ये देवा तपो लोके च देवता ।
सत्यलोके च ये देवा आगच्छन्तु महोत्सवम् ॥
अतलादिषु पाताले आगच्छन्तु महोत्सवम् ।
दिव्यन्तरिक्ष ये देवा भूपातालेपि ये स्थिता ॥
प्। ७६)
आगछन्तु च ये देवा एकवीर्युत्सवार्थकम् ।
गिरिकन्दरदुर्गेषु श्मशाने वन देवता ॥
प्रासादे गर्भगेहे वा प्राकारे परिवारके ।
गोपुराभ्यन्तरे देवा आगछन्तु महोत्सवम् ॥
दुन्दुभिं प्रहरेद् देवीं तद्रात्रौ बलिदापयेत् ।
ध्वजमारोपयेद्धीमान् दश्विहन्तं दिनेपि वा ॥
सप्ताहे च तथा कुर्यात् मूलमन्त्रेण दापयेत् ।
चन्दनं चम्पकञ्चैव क्रमुकनालिकेरकम् ॥
याज्ञिकं वेणुदण्डं वा प्रासादद्विगुणोच्छ्रयम् ।
पञ्चदण्डाश्च पुरतय ध्वजानां विधीयते ॥
उत्सवस्य तु पूर्वे तु सप्तार्थे मङ्गलाङ्कुरम् ।
बलिभ्रमणवेलायां वाममार्गेण गम्यताम् ॥
एहिकामाद्रि फलदं बलिं सर्वत्र दापयेत् ।
शान्त्यर्थ सर्वमार्गेण अपसव्येन पुष्टिदम् ॥
तस्मात् सर्वप्रयत्नेन वाममार्गेण गम्यताम् ।
पालिका घटिका चैव शरावा त्रिविधा भवेत् ॥
प्रत्येकं नव गृह्णीयात् सप्ते वाथ समाचरेत् ।
तिलसर्षपमुद्गानि यवमाष कुलुत्थकम् ॥
प्रियङ्गुशिममाली च नव बीजैस्तु ।
नवाक्षरेण मतिमान् सजपत्वा तु समाहितम् ॥
प्। ७७)
ताम्बुलन्दापयेत् तत्र सर्वेभ्यश्च यथाक्रमम् ।
आषाढे कृष्णपक्षे व अष्टम्यान्तु विशेषतः ॥
उत्सवं कारयेत् सम्यक् पूजयेत् तु सदेशिकः ।
त्रिकालं वा द्विकालं वा बलिभ्रमणयोरपि ॥
तस्य वामेन मार्गेण बलिभ्रमणकं क्रमात् ।
प्रथमं ब्राहिदिवसं द्वितीयमीश्वरीं विदुः ॥
त्रयकौमारि दिवसं चतुर्थं वैष्णवी तथा ।
पञ्चमी पञ्चदिवसं षष्ठीमिन्द्राणिरेव च ॥
सप्तमं भद्रकाली च दिवसं बलिमुच्यते ।
शतद्रोणि तदर्धं वा तदर्धं वा तदर्धकम् ॥
षष्ठद्रोणमथा चैव चतुर्द्रोणमथापि वा ।
द्वयद्रोणमथा चैव कन्यसं शिवमेव च ॥
आढकेनैव वासिद्धं शालितण्डुलसिद्धकम् ।
श्वेतपद्मसमायुक्तं गन्धोकसमन्वितम् ॥
पायसेन बलिं दद्यात् ब्रह्माणी दिवसे बुधः ।
श्वेतार्क कुसुमैर्युक्तं कृसरान्नन्तु संयुतम् ॥
बलिमेतद्विजानीयान्माहेग्री दिवसं क्रमात् ।
कुमुदोत्पलपुष्पन्तु हरिद्रान्नसुदोदकैः ॥
कौमारी दिवसे कुर्यात् एकचित्तो सदा ददेत् ।
वैष्णवी तुलसी चैव गुलान्नन्तु बलिं ददेत् ॥
प्। ७८)
मञ्जिकामाषमन्नं च वाराही दिवसे युतम् ।
जातिपुष्पन्तु मुद्गान्नम् इन्द्राणी बलिमुच्यते ॥
रक्तपङ्कजसंयुक्तं रक्तान्नं रक्तमिश्रकम् ।
चामुण्डी दिवसे कुर्यात् विद्वान्मन्त्रेण मन्त्रितम् ॥
नवाक्षरेण मन्त्रेण तत्तन्नाम समन्वितम् ।
तत् तद् दिने बलिं दद्यात् तत् तन्मुद्रां प्रदर्शयेत् ॥
चतुष्पथे त्रिपथे च द्विपथैक पदन्ददेत् ।
नव पीठे च दातव्यं ग्रामद्वारे तथैव च ॥
एकवृक्षे तटाके च प्राकारे दीर्घिकेषु च ।
शिवालये सभास्थाने विष्णुस्थाने च दापयेत् ॥
दुर्गाज्येष्ठालये चैव आर्यस्थाने तथैव च ।
श्रीस्थाने स्कन्दस्थाने च विघ्नस्थाने विशेषतः ॥
बौद्धस्थानन्तु कर्तव्यम् अर्हस्थाने तथैव च ।
इन्द्राग्नि यमस्थाने निर्-ऋति वरुण वायवः ॥
सोमेशानके चैव क्रमाद् दत्वा बलिं ददेत् ।
कन्यायां दर्शने चैव ब्राह्मणानान्तु दर्शयेत् ॥
भिन्ननासिकयश्चैव चक्रवाकस्तथैव च ।
अत्र चेवेतरादेव्य दूत्यश्चैव स योगिनीम् ॥
एतान्नदृष्टमात्रेण बलिं सर्वत्र दापयेत् ।
परिभ्रमणवेलायां मुद्रानृत्तं समाचरेत् ॥
प्। ७९)
तत् तद् दिनेषु कर्तव्यं तत् तन्मुद्रां समाचरेत् ।
अन्यथा कारयेद् यस्तु व्याधिशोकभयं भवेत् ॥
ब्रह्माणी दिवसे कुर्यात् ब्रह्माणी क्रीडमेव च ।
माहेशी दिवसे चैव माहेशी क्रीडमेव च ॥
कौमारी तद् दिने चैव तत् क्रीडानां समाचरेत् ।
वैष्णवी दिनमेवन्तु वैष्णवी क्रीडमुच्यते ॥
वाराही दिवसेनैव वाराही क्रीडमेव च ।
इन्द्राणी दिवसे कुर्यात् इन्द्राणी क्रीडकारयेत् ॥
चामुण्डी दिवसे कुर्यात् चामुण्डी क्रीडकारयेत् ।
एकवीरीं ततः कृत्वा कामरुद्रान्तु कारयेत् ॥
कैलासमुद्रया कुर्यात् चण्डिकामुद्रया कुरु ।
तत् तद् देव न वा कुर्यात् मुद्रा नृत्तं यथा क्रमम् ॥
मुद्रा नृत्तं तु कर्तव्यं हासनक्रीडनादिशेत् ।
मुद्रानृत्तं विशेषेण कारयेत् सर्वयत्नतः ॥
नृत्तकस्तु शिवं प्रोक्तं पाठकस्तु पितामहः ।
प्रेक्षं भद्रकालादि तस्मात् तु पुत्रकस्तथा ॥
शिवपादे समुत्पन्नं तेन पादप उच्यते ॥
सर्वशान्तिस्थितान्यत्र मुद्रानृत्तं तु कारयेत् ।
ग्राममध्ये प्रकर्तव्यं महामुद्रां समाचरेत् ॥
प्। ८०)
सुभिक्षं क्षेत्रमारोग्यं पुत्रपौत्र विवर्धनम् ।
तस्मात् सर्व प्रयत्नेन ग्राममध्येषु कारयेत् ॥
मुद्रालक्षणमेवोक्तम् अयागमधुना शृणु ।
करकञ्चाक्षमाला च ब्रह्माणी चाङ्गमुद्रया ॥
हरिणं परशुञ्चैव माहेशी चाङ्गमुद्रया ।
वज्रशक्ति धरञ्चैव कौमारी चाङ्गमुद्रया ॥
शङ्खचक्रधरञ्चैव वैष्णवी चाङ्गमुद्रया ।
हलञ्च मुसलञ्चैव वाराही चाङ्गमुद्रया ॥
वज्रशक्ति धरञ्चैव इन्द्राणी चाङ्गमुद्रया ।
शूलखड्गधरञ्चैव कट्वाङ्गं नागपाशकम् ॥
केटकञ्च कपालञ्च घण्टा डमरुकं तथा ।
अङ्गन्तु चण्डिकानान्तु इदानीं शृणुमुद्रिकाम् ॥
नृत्तकाले प्रयोक्तव्यम् एषां सर्वात्मना बुधः ।
लोहेन कारयेत् सर्वं मत्सवाङ्ग यथाक्रमम् ॥
पञ्चरङ्ग त्रिरङ्गं वा एकरङ्गमथापि वा ।
स्त्रीणां नृत्तं प्रकर्तव्यं गेयवाद्य समायुतम् ॥
रथे वा कूटयन्त्रेण प्रतिमा सप्तदापयेत् ।
हंसोक्षहञ्च गारुढं हरिनागपिशाचकम् ॥
स्वस्वेनायुध मुख्येषु पार्श्वे स्थाप्य विशेषतः ।
प्रत्येकं कूटयन्त्रं स्थापयेत्सुसमाहितः ॥
प्। ८१)
नवनाट्य बलिञ्चैव यत्पुस्त्वास्तु गम्यताम् ।
नैत्यकूटबलिञ्चैव धर्मे ध्वजसमायुतम् ॥
क्षरिका पाणिनस्सर्वे तत्पुरस्तात् तु गम्यताम् ।
देव्या ध्वजान्तरे यस्तु मार्गोच्छेदं यथा भवेत् ॥
गजं वा तुरगं वापि उष्ट्रवो महिषन्तु वा ।
नराणामरुणञ्चैव वनसूकरमाविकम् ॥
कुक्कुटाश्च नवानान्तु छेदितं देवता पुरा ।
तन्मार्गे यदि छेदं स्यात् नवहत्या सदा बुधः ॥
हविकल्पेन भावे तु हुत्वा देवान्निवेदयेत् ।
ब्राह्मणाक्षत्रिया वैश्या स्त्रियामन्नं सभैरवम् ॥
तन्मार्ग यदि छेदं स्याद्धन्तव्यं शास्त्रवित्तकैः ।
बौद्धमार्षतं वापि सन्न्यास व्रतधारिणम् ॥
शैवं पाशुपतं वापि इति (यदि) मार्गन्तु लङ्घयेत् ।
नमस्कृत्वा विधानेन कर्तव्यन्तु सदा बुधः ॥
एवं परिभ्रमे ग्रामे नगरे पत्तनेपि वा ।
नगरे कुञ्जरे वापि तीर्थे वापि समाहितः ॥
नाना जनसमायुक्तं नानाक्रीडसमन्वितम् ।
नाना कुहक संयुक्तं नानाविद्या समायुतम् ॥
नाना चित्रसमायुक्तं नानाविध समाकुलम् ।
नानाध्वज समायुक्तं नानायोगिनि सङ्करम् ॥
प्। ८२)
नानाब्राह्मण संयुक्तं नानामेषसमाकुलम् ।
नानागजसमायुक्तं नानातुरगसंयुतम् ॥
नानाराजसमायुक्तं नानाशास्त्रसमाकुलम् ।
एकाहं त्र्यहञ्चैव पञ्चाहे सप्तमे दिने ॥
एवं देव्यास्तु चैवोक्तं नवाहं वापि कारयेत् ।
अथवा षोडशाहं वा मासमेकन्तु कारयेत् ॥
बलिभ्रमणवेलायां यात्राहोमन्तु कारयेत् ।
अपामार्गसमिद्भिस्तु अष्टोत्तरशतं हुतम् ॥
आज्येनाष्टरशतं हुत्वा त्वष्टशतं हुतम् ।
अष्टमे दिवसे रात्रौ रक्षां कृत्वा तु बन्द्धयेत् ॥
आचार्यं पूजयेत् तत्र अजं वा महिषन्तु वा ।
अजं विन्द पशुं वापि प्रतिसरं बन्धयेत् तथा ॥
तत्पश्चात् पञ्चविंशैर्वा सप्तचाचैकमेव वा ।
पशुं निबन्द्धयेत् सूत्रं रक्तसूत्रं विशेषतः ॥
तत्रादौ जागरं वापि ग्रहे वा आलये बुधः ।
कलशं स्थापयेत् तत्र रक्तवस्त्रेण वेष्टयेत् ॥
कलशे वामभागे तु रक्षासूत्रं न्यसेद् बुधः ।
शालिमध्ये न्यसेत् सर्वमेकैकं पञ्चद्रोणकम् ॥
तदर्धं तण्डुलं ग्राह्यं पद्ममष्टदले न्यसेत् ।
सूत्रं नवाक्षरं न्यस्य तच्छक्ति कलशं तथा ॥
प्। ८३)
कलशोदकेन संस्पृश्य सूत्रेणैव तु बन्धयेत् ।
बन्धयित्वा तु सूत्रं वा पशुना रक्षयेद् बुधः ॥
प्रासादे तु बलिं दद्यात् पूर्वोक्त विधिना बुधः ।
इक्षुखण्डसमायुक्तं रक्ततोय समन्वितम् ॥
मध्याह्ने दापयेत् तत्र सर्व दिक्षु यथाक्रमम् ।
आतपे तु पशुं हत्वा यथाविधितुनु क्रमात् ॥
रक्तं वै मांसखण्डञ्च तद् देव्यान्तु निवेदयेत् ।
एवं शान्तिविधिं प्रोक्तं पश्चात् पशुविधिर्भवेत् ॥
इति ब्रह्मयामले विद्यापीठावतारिते प्रतिष्ठातन्त्रे एकाशीति विधानाङ्गे
मातृशान्तिविधिं नाम अष्टादशपटलः ॥ १८ ॥