गरुडौवाच ॥
नमस्तुभ्यं लोकानां जयकारणम् ।
सर्वेषामेव लोकानां भय शान्तिविवक्षित ॥
सर्वेषामेव भूतानां लोकालोकनिबन्द्धनम् ।
त्वया च पालितं सर्वं प्रजानां हितकारण ॥
राक्षसै परिभूयिष्ठा तारकादिषु तत्ववित् ।
विष्णुरुवाच ॥
सृष्टिस्थितिश्च संहार कारणं त्रिविधं भवेत् ।
त्रिविधं लोकसंसृष्टिस्त्रिविधं लोकचारितम् ॥
प्। ६०)
यजनं चतुर्विधं भोगं प्राणिनाञ्च चतुर्विधम् ।
चतुर्विधञ्च चरितं सर्वेषाञ्च सुखावहम् ॥
एवमाचरितं लोकं ब्रह्ममन्त्रसमुद्भवम् ।
तात्कालिक परित्राणं राक्षसानामुपाधितः ॥
राक्षसानां वधार्थाय नवशक्त्यादि भेदतः ।
नवशक्त्या नवाकारा लोकानां हितकाम्यया ॥
यद्भुवं नाशयेत् कर्तुं तद्रूपं त्रिभिसंयुतम् ।
तत्कालेन तु संरूढं घोररूपं भयं भवेत् ॥
शक्तीनां नाशयोगन्तं * * * * * * * * ।
तस्य शान्तिं प्रकुर्वीत * * * * * * शक्ति ॥
तस्य शान्तिं प्रकुर्वीत तिस्रस्ताः परिकीर्तिताः ॥
शक्ति शान्तिं विशेषेण मातृशान्तिं विधीयते ।
ग्रामं वा नगरं वापि पत्तनं वापि कारयेत् ॥
तत्र शान्तिं विशेषेण प्रजानां हितकारणम् ।
मातॄणां स्थापयेत् तत्र सर्वभूतसुखावहम् ॥
ग्रामे वा नगरे वापि उत्तरे चालयं भवेत् ।
प्राच्यामथ प्रकूर्वीत पूर्वद्वारादिभिः क्रमात् ॥
शिलामयं लोहमयं मणिमद्वृक्षमेव च ।
शिलामयं मोक्षकामस्य लोहानां कीर्तिवर्धनम् ॥
प्। ६१)
रत्नानां श्रीकरं कुर्यात् मृण्मयं शान्तिकं भवेत् ।
प्रासादगर्भमानेन द्वारमानं तथैव च ॥
अथवा यजमानेन दशतालक्रमेषु च ।
प्रतिष्ठायां विशेषेण यजमानं यथाक्रमात् ॥
सकलं निष्कलञ्चैव निष्कलं वकुलं तथा ।
मूलमन्त्रेण संयुक्तं शक्तिमन्त्रेण विन्यसेत् ॥
तत् तत्कीर्तिं प्रतिष्ठाप्य तत् तद् देवन्तु भावयेत् ।
गन्धपुष्पं तथा धूपदीपञ्चैव हविः क्रमात् ॥
निवेद्यं तत्र विधिवद्यथा शास्त्रक्रमेण तु ।
प्रतिष्ठोत्सवकर्माणि यथालाभं क्रमेण तु ॥
ध्वजारोहण पूर्वे तु अङ्कुरार्पण कर्म च ।
एकविंशति नक्षत्रं षोडशाहं चतुर्दश ॥
द्वादशाहं नवाहं वा दीक्षयेन् मात्रकोत्सवम् ।
कुजवारादि भौमान्तम् अर्कवारादि भौमकम् ॥
सोमवारस्य रात्रौ तु अधिवासमतः परम् ।
देव्यासनं ततः कृत्वा * बलिमत्प्रदक्षिणम् ।
बलि प्रदक्षिणं कृत्वा * * * य समन्वितम् ॥
प्रविशेन्मण्टपं तत्र * * * * * * * * ।
मध्ये पीठं प्रकुर्वीत चतुस्सूत्रसमन्वितम् ॥
प्। ६२)
पुरायुधसमायुक्तं षड्वर्गं सहसंयुतम् ।
शक्तिर्वै तोरणैर्युक्तं सर्वालङ्कारशोभितम् ॥
तन्मध्ये बलिनिक्षिप्य पञ्चायुधसमन्वितम् ।
पुत्रकश्चित्रकश्चैव सहमुद्रां प्रयोजयेत् ॥
ब्रह्मस्थानं विशेषेण मुद्रापीठं प्रकल्पयेत् ।
प्रासादपूर्व भागे तु यागमण्टपमुत्तमम् ॥
मध्ये वेदीं प्रकुर्वीत चतुस्ताल प्रमाणतः ।
एकतालसमुत्थेयं प्रमाणं परिकीर्तितम् ॥
वृत्तं वा चतुरस्रं वा अग्निकुण्डं यथाक्रमम् ।
दिशेषु चतुरश्रन्तु विदेशे वृत्तमुत्तमम् ॥
चतुष्षष्टिस्तदर्धञ्च षोडशञ्चाष्ट होमयेत् ।
नवाङ्गहीना न बधिरा न शठा न जलस्तथा ॥
सर्वावयवसंयुक्त स्वरूप प्रियदर्शन ।
मातृदीक्षा च संयुक्तस्सर्वशास्त्रविशारदः ॥
यामलानान्तु सर्वेषा वाच्यवाचकसंयुतान् ।
सर्वभूतदयायुक्तान् मन्त्रतन्त्र परायणान् ॥
एवन्तु लक्षणैर्युक्तमाचार्यन्तु विशेषतः ।
देवाग्निं पूजयेत् पूर्वम् ईशानादि यथाक्रमम् ॥
मकुटं तत्र खचित्वा तु हस्तमात्र प्रमाणकम् ।
त्रिवेदीं तत्र कुर्वीत चतुरश्रं समं तथा ॥
प्। ६३)
चतुस्त्रिद्व्यङ्गुलं कुर्यात् प्रमाणं तत्र कारयेत् ।
आचार्यस्साधकश्चैव समयी पुत्रकस्तथा ॥
केलके परिचारेण शान्तिं कुर्याद् विशेषतः ।
देव्याग्नि जनितः पूर्व ईशान्यां दिशि योजयेत् ॥
दक्षिणे भैरवाग्निस्तु पूर्वे वा च तथैव च ।
मयित्वाग्निं विशेषेण श्रोत्रियाग्निमथापि वा ॥
अथवा मन्त्रसंस्कारमग्निबीजे समन्वितम् ।
द्रव्यादि विश्वसंयुक्तं मूलमन्त्रेण होमयेत् ॥
द्रव्यहीनं विपरीते च तद्भवेत् ॥
द्रव्या * * * * * च क्रियाया सहवर्तते ।
प्रायश्चित्तं प्रकुर्वीत * * * * * होमयेत् ॥
मियाज्य चरुंश्चैव * * * सक्तुतुलस्तथा ।
लाजञ्च सर्षपञ्चैव क्रमेण विधियोजयेत् ॥
द्रव्यान्ते पशुसंस्कार योजयेत् तु विचक्षणः ।
होमं तत्र प्रकुर्वीत भैरवाग्निमिहोच्यते ॥
शान्तिकं पौष्टिकञ्चैव आभिचारकमेव च ।
शान्तिकं योजयेत् तत्र सृष्टिन्यासं प्रकीर्तितम् ॥
पौष्टिकं योजयेत् तत्र स्थितिन्यासं प्रकीर्तितम् ।
आभिचारकसंयोज्य संहारन्यासमुच्यते ॥
प्। ६४)
सात्विकाराजसञ्चैव तामसीञ्च गुणत्रयम् ।
सात्विकं स्थापनं कालं राजसं शान्तिकर्मणि ॥
तामसमाभिचारेण क्रमेण सहवर्तते ।
कालञ्चैवावकालन्तु शुभं वा त्वशुभं भवेत् ॥
दिने मुहूर्ते तत्रैव योगे च करणान्विते ।
सर्वयोगं विशेषेण बन्धुयोगं विशेषतः ॥
यत्र योगक्रियायोगं तत्र भाग्यमुदाहृतम् ।
वेदादि च मनुष्याणां बुद्धिर्भवति निश्चला ॥
निर्मलं निस्पृहस्वस्ते नित्यांशाश्वतमव्ययम् ।
आराधयेत्ससम्बन्धः योगमोक्ष करान्वितम् ॥
सर्वयोगफलञ्चैव मातृशान्तिं विशेषतः ॥
इति ब्रह्मयामले शतसहस्रसंहितायामुत्सवविधिं नाम षोडश पटलः ॥ १६
॥