द्विमुखञ्चैक हृदयञ्चतुश्श्रोत्रं द्विनासिकम् ।
आस्यद्वयञ्च षण्णेत्रं पिङ्गलं सप्तहस्तकम् ॥
त्रिमेखलं त्रिपादञ्च सप्तजिह्वा समन्वितम् ।
चतुश्शृङ्गं वृषारूढं बालादित्य समप्रभम् ॥
उपवीत समायुक्तं जटामकुटमण्डितम् ।
सव्यभागे चतुर्हस्तं त्रिहस्तमपसव्यके ॥
स्रुक्स्रुवौ चाक्षमालाञ्च शक्तिं दक्षिणतो करे ।
तोमरं व्यजनञ्चैव घृतपात्रन्तु वामके ॥
हिरण्या कनका रक्ता कृष्णा चैव तु सुप्रभा ।
अतिरक्ता बहुरूपा सप्तजिह्वा प्रकीर्तिता ॥
प्। ५३)
हिरण्यादि चतस्रस्तु जिह्वा दक्षिण वस्त्रके ।
तिस्रस्तु सुप्रभाद्यास्युर्जिह्वा वै वामवक्त्रके ॥
हिरण्यावारुणी जिह्वा कनका मध्यमे स्थिता ।
रक्ता चोत्तर जिह्वा स्यात् कृष्णा याम्यां दिशि स्थिता ॥
सुप्रभा पूर्व जिह्वा स्यादतिरक्तानले स्थिता ।
बहुरूपेश जिह्वा स्याज्जिह्वा स्थानं प्रकीर्तितम् ॥
हिरण्या श्वेतवर्णाभा कनका रक्तवर्णिका ।
रक्ता सा पीतवर्णाभा कृष्णाया धूम्रवर्णका ॥
सुप्रभा कृष्णवर्णाभा अतिरक्तारुण वर्णका ।
बहुरूपा श्यामवर्णा सा जिह्वा वर्णं प्रकीर्तितम् ॥
श्रोत्राणामाहुतिं कुर्यात् सर्वव्याधिभयं भवेत् ।
नासिकायां महापुङ्खं चक्षुषो सर्वनाशनम् ॥
केशे तु दरिद्रता चैव तज्जिह्वायान्तु होमयेत् ।
यात्रं काष्ठं तथा श्रोत्रं यात्रधूमन्तु नामिका ॥
यात्रवज्ज्वालनं नेत्र यात्रभस्मन्तु तच्छिरम् ।
रक्तायां सर्षपं हूयात् कृष्णायां लाजहूयते ॥
सुप्रभायामपूपानाम् अतिरक्तां तिलं हुनेत् ।
सिद्धार्थं बहुरूपायां सर्वासु चरुरुच्यते ॥
शेषद्रव्याणि सर्वाणि कनकायान्तु हूयते ।
अन्यजिह्वा सुतद्धुत्वा सर्वं भवति निष्कलः ॥
प्। ५४)
तस्मात् सर्वप्रयत्नेन तत् तज्जिह्वा सुहूयते ।
स्रुक्स्रुवौ चतुरङ्गुलं विच्छिन्नं घृतमाहुतिः ॥
अन्नमक्ष प्रमाणं स्यात् लाजमुष्टिमितं भवेत् ।
अवतंस प्रदक्षिण्याम् आज्येन जुहुयात् तथा ॥
सति यद्वादशाङ्गुल्यं षोडशेन तु होमयेत् ।
आज्येनाष्टशतं हुत्वा हविस्तत्सममेव वा ॥
लाजं शताष्टकं कृत्वा * * * * * * * * ।
यज्ञपात्रञ्च भूमिञ्च दर्भकूर्च मुनिस्तथा ॥
मानसी प्रणिता ज्ञेया समिधा नैव शक्तिषु ।
दिनं प्रतिहुतञ्चैव अतिरक्ता च षठयोः ॥
सप्तबाहुस्वरूपा च अग्निजिह्वा प्रकीर्तिता ।
हिरण्यमेक जिह्वा च गगनञ्च द्विजिह्विका ॥
त्रिजिह्वा रक्तवर्णञ्च कृष्णवर्णं चतुर्थकम् ।
पञ्चचैवातिरक्ता च षष्ठयोः * * * * * ।
इति ब्रह्मयामले शतसहस्रसंहितायाम् अग्निस्वरूपं नाम त्रयोदश पटलः ॥
१३ ॥