अग्निकार्यम् ।
अथातस्सम्प्रवक्ष्यामि अग्निकार्यविधि क्रमम् ।
स्थण्डिलञ्चापि कुण्डं वा चाग्नीनां तु गृहं द्विधा ॥
अश्रं योन्यर्ध चन्द्रञ्च अश्रं वर्तुलं तथा ।
षडश्रं पद्ममष्टाश्रं पञ्चाश्रन्तु यथाक्रमम् ॥
चतुरश्रा कृतीकुण्डं सर्वकामार्थ साधनम् ।
प्रजा ऋद्धिकरं योनौ चार्धचन्द्ररिपुक्षयम् ॥
गुणाश्रे शान्तिदं प्रोक्तं पर्जन्यार्थन्तु वर्तुले ।
षडश्रे सस्य वृद्धिश्च जयार्थञ्चैव पद्मके ॥
वस्वश्रे पुष्टिदं ज्ञेयं पञ्चाश्रे रोगनाशनम् ।
कुण्डानान्तु फलञ्चैव स्थण्डिलञ्च विनोच्यते ॥
प्। ४५)
कुण्डे वा स्थण्डिले वापि हस्तमात्रेषु कारयेत् ।
मेखलास्त्रिभि कुर्वीत चतुस्त्रि द्व्यङ्गुलेन तु ॥
मेखलामध * स्ताकृतारोत्सेध * व्यङ्गुलम् ।
त्र्यङ्गुलोस्त्रविस्तारं मध्यमायां तु मेखला ॥
चतुरङ्गुलोच्छ्रितं वारमूर्ध्वावास्तत्रमेखला ।
कुर्यान्नाभिषडङ्गुल्यां पश्चिमं दक्षिणेव तु ॥
अश्वत्थ पत्रवन्नाभि एकाङ्गुलसमन्वितम् ।
गोमया लेपिका भूमिन्दर्भैस्सम्मृज्य वै हृदा ॥
कुण्डञ्चेत् शोधनञ्चैव क्षालनं शोषणं तथा ।
पाचनं प्रोक्षणं चैव सद्यादि ब्रह्म पञ्चकैः ॥
नक्रद्योकरमादाय प्रोक्ष्य सौम्ये विसर्जयेत् ।
शुद्धदेशोत्थ सिकतैरनाद्रैर्हस्तविस्तृतम् ॥
अङ्गुलत्रयमानोच्चं समनिम्नोन्नतं तथा ।
प्रागग्रादि त्रिरेखास्तु तद्वौ सौम्याग्र रेखया ॥
मध्यसूत्रन्तु ब्रह्माणि वैष्णवी दक्षिणेन तु ।
काली चोत्तरसूत्रिं स्यात् अधिदेवा प्रकीर्तिता ॥
त्रिस्राणां प्रागग्राणामधिदेवाः प्रकीर्तिताः ।
चामुण्डी मध्यसूत्रीन्तु पश्चिमे तु गणाधिपः ॥
पूर्वे तु योगमूर्तीनाम् अधिदेवाः प्रकीर्तिताः ।
उल्लिख्य त्रिभिः पूर्वाग्रमिध्ममेकेन कारयेत् ॥
प्। ४६)
मध्यमं दक्षिणं सौम्यं त्रीणि रेखा च कारयेत् ।
ऊर्ध्वरेखेस्तु मे सौम्यमुल्लेख्य समिधं त्यजेत् ॥
लेख्यमन्त्रमिदं ज्ञात्वा अस्त्रमन्त्रं तथैव च ।
सूर्यकान्तोद्भवं श्रेष्ठं काष्ठजं मध्यमं भवेत् ॥
श्रोत्र्यागार वह्निस्तु कन्यसस्त्विति कीर्तितः ।
शरावे ताम्रपात्रे वा पावकन्तु समानयेत् ॥
गृहीत्वा नव शरावे च आग्नेयान्दिशि विन्यसेत् ।
हेतातुरग्रे विन्यस्य सम्प्रोक्ष्य बहुरूपिणा ॥
गन्धादिभिर्हृदाभ्यर्च्य वर्मणा चावकुण्ठयेत् ।
प्रक्षिप्येन्धनमग्नौ तु वह्नेरायतनान्वरे ॥
नाभिमध्ये तु वागीशीन्नीलोत्पलदलप्रभाम् ।
ऋतुस्नानास्य कूर्चस्थां ध्यात्वा तन्मूलमन्त्रतः ॥
मन्त्रेण संस्कृते कुण्डे वागीशीमग्निमातरम् ।
वागीश्वरञ्च पितरमावाह्य स्थाप्य चार्चयेत् ॥
त्रिणेत्रञ्चतुर्भुजञ्चैव पद्मरागसमप्रभम् ।
वरदाभयदञ्चैव शूलपाशधरं करैः ॥
वागीशी पुण्डरीकाभां चतुर्हस्तां घनस्तनीम् ।
व्याख्यानपुस्तकधरां कमण्डल्वक्ष धारिणीम् ॥
एवं ध्यात्वा समभ्यर्च्य कूर्चमध्ये विनिक्षिपेत् ।
इति ध्यात्वा समभ्यर्च्य वागीवागीश्वर द्वयम् ॥
प्। ४७)
सम्पूज्याग्नि समादाय सम्भ्राम्या यतनं त्रिधा ।
योनिमार्गेण निक्षिप्य वह्निबीज मनुस्मरन् ॥
इत्यग्निं त्रिः परिभ्राम्य असुरांशः विवर्जयेत् ।
योनि मार्गेण चाग्निञ्च जानौ भूमौ निधाय च ॥
ह्रम् इति स्मरन् श्रुत्वा ॐ हाम् अग्नये नमः ।
इत्यग्निं समिधमादाय त्रेधाग्निं सुदापयेत् ॥
अस्त्रेण कङ्कणं बध्वा अर्चयेद् गन्धपुष्पकैः ।
सदर्भेरिन्धनं क्षिप्त्वा दत्वार्घ्यं हृदयेन तु ॥
अभ्यर्च्य गन्धपुष्पेण तण्डुलेनाहुति त्रयम् ।
गर्भाधानमिति ख्यातं कुर्यात् पुंसवनन्तथा ॥
हृदयेन यजेद्वह्निमेतत् पुंसवनं स्मृतम् ।
पुष्पं दद्यात् पुंसवने तिलेनैवाहुति त्रयम् ॥
अघोरेण ददेदर्घ्यं सीमन्तं स्यात् तदन्ततः ।
तण्डुलेन त्रयं हुत्वा वक्त्रेण कुसुमाक्षतैः ॥
अग्नये नमः प्रज्वाल्य पश्चात् तत्पुरुषेण तु ।
निक्षिप्य शिरसा मन्त्री जातकर्म विधिस्मृतः ॥
गन्धपुष्पाक्षतं दद्यात् शिरसा चैव जातकम् ।
तिलेन त्रयमाहृत्या सूतकं शुद्धिरुच्यते ॥
अस्त्रेणैव तु सम्प्रोक्ष्य ईशानेन समर्चयेत् ।
मानसे वह्निरूपन्तु ध्यात्वा वाहनं शुभम् ॥
प्। ४८)
सम्प्रोक्ष्येशान मन्त्रेण दत्वार्घ्यं पुष्पमिश्रितम् ।
तन्नामकरणं प्रोक्तम् एवं संस्कारपञ्च युक् ॥
आवाहनादि सद्यान्नं तन्मुद्रादि विशेषतः ।
दर्भैरिन्धनमग्नौ तु उपस्थानं हृदाक्षिपेत् ॥
दर्भैश्चैवासनं कल्प्य दर्भैश्चोत्तर विसर्जयेत् ।
दर्भैश्चैव परिस्तीर्य हृदग्नि दशभिस्तथा ॥
दक्षिणा चोत्तरा चैव उत्तरादघरस्तथा ।
पूर्वाग्रे चोत्तराग्रश्च प्रागादीनि क्रमात् क्षिपेत् ॥
रक्ताक्षी चैव काली च चण्डाक्षी च तथैव च ।
उच्छिष्टेश्वरी चैव प्रगादीनि परिस्तरे ॥
पूर्वे च पश्चिमे चैव उत्तराग्रं परिस्तरेत् ।
दक्षिणे चोत्तरे चैव पूर्वाग्रञ्च परिस्तरेत् ॥
उत्तमं दशदर्भाश्च अथ पञ्च कुशेन च ।
ब्रह्मासनन्तु दक्षिण्यां स्थाल्यासनञ्च पश्चिमे ॥
उत्तरे प्रणिता चैव अग्रे पात्रासनं तथा ।
वाणी वागीश्वरौ चैव उद्वासनमतः परम् ॥
स्रुक्स्रुवौ च घृतस्थालीं प्रणीतां प्रोक्षणीं तथा ।
समित्कूर्च चरु दर्वी सिरीञ्च कमण्डलुम् ॥
द्रव्यपात्राणि सर्वाणि वामकाशोपरि न्यसेत् ।
अधोमुखानि पात्राणि द्वन्द्वरूपाणि साधयेत् ॥
प्। ४९)
प्रोक्षणी पात्रमादाय जलेनैव प्रपूरयेत् ।
वितस्तिमात्रमादाय तन्मध्ये ग्रन्थसंयुतम् ॥
अङ्गुष्ठानामिकाभ्यान्तु उदकोत्प्लवनं कुरु ।
संस्कृते नैव तोयेन प्रोक्ष्य पात्राणि वर्मणा ॥
स्रुक्स्रुवौ चेन्धनादीनि हेमद्रव्याणि दक्षिणे ।
समिधाज्य चरुं लाजान् सर्षपञ्च यवं तिलम् ॥
मुद्गञ्च वैणवं चैव श्रीपत्रं कदली फलम् ।
अजमांसरुधिरञ्च मत्स्यञ्चासवसंयुतम् ॥
संस्थाप्य तेन तोयेन प्रोक्षयेत् तान शेषकान् ।
द्रव्यहोम चर्वादीनि पात्राण्युर्ध्वाननं कुरु ॥
बध्वाथ सप्तभिर्दर्भै कूर्चं होतुश्च दक्षिणे ।
आसनामन्त्रसंयुक्तम् अष्टमुद्रा प्रकीर्तिता ॥
आवाहनन्तु ब्रह्माणीमङ्गन्यासमतः परम् ।
गन्धपुष्पञ्च धूपञ्च सम्पाद्यभ्यर्चयेत् तथा ॥
प्रोक्षणीञ्चेन्निर्-ऋते स्थाप्य कूर्चं जलपूरितम् ।
जप्यन्तु वारुणी मन्त्रं * * चाग्नौ तु प्रोक्षयेत् ॥
द्विदर्भैर्ग्रन्थि संयुक्तं नासिकं तन्तु गृह्यते ।
ऐशान्ये स्थापनञ्चैव * * * * * * * * ॥
प्रणीतान्नैर्-ऋते स्थाप्य कूर्चं वा जलपूरितम् ।
पूर्वमन्त्रं जपं कृत्वा * * * * * * * * ॥
प्। ५०)
पश्चिमे चाज्यपात्रेण स्थापितन्तु विचक्षणः ।
कूर्चन्तु स्थापितं मध्ये तन्मध्ये घृतपूरितम् ॥
द्विदर्भैर्दहनञ्चैव आज्यमध्ये तु संस्पृशेत् ।
उत्तरे विसर्जनञ्चैव पश्चाद् दर्भन्तु दाहनम् ॥
सर्पिमध्ये तु संयोज्य अग्नीनान्तु प्रदक्षिणम् ।
पूर्ववत्सर्जनं कृत्वा अग्निमेकन्तु सर्जयेत् ॥
स्रुक्स्रुवे गृहीत्वा तु अग्ने स्पर्शनमेव च ।
स्पर्शनं बन्धनं कृत्वा आज्यपात्रे त्वधोमुखम् ॥
आज्येन प्रोक्षणीमिन्धमेकविंशति सङ्ख्यया ।
पूर्वदक्षिण पश्चात् तु उत्तरे मध्यमे हुनेत् ॥
सद्यादि कण्ठवेधन्तु हृदयान्न प्राशनम् ।
सद्येन च चौलं कुर्याद् वामदेवेनोपनीतकम् ॥
अघोरेण व्रतं कुर्यात् पुरुषेण समापनम् ।
ईशानेन विवाहञ्च यथाविधि पुरस्सरम् ॥
स्रुक्स्रुवेण गृहीत्वा नैर्-ऋत्यान्दिशमादिकम् ।
ऐशान्यान्तं हुनेत् कृत्वा पश्चाद्वायवमादिकम् ॥
आग्नेयान्तं हुनेत् पश्चात् पूर्वाद्यैशान्यमन्तकम् ।
इन्द्रादिनाममन्त्रन्तु होमयेत् तु विशेषतः ॥
मन्द्रोद्धार क्रमेणैव मन्त्रकोश विधिक्रमात् ।
स्वाहान्ते देविका होमं नगरं शान्तिवर्धनम् ॥
प्। ५१)
पुत्रपौत्रादि वृद्धिञ्च श्रीदेवी सन्निधिस्तथा ।
असुरादि पार्श्वश्वान्तं फट्कारान्तेन होमयेत् ॥
ओङ्कारं सम्पुटं श्रेष्ठं हुङ्कारन्तु दशाक्षरम् ।
पुष्पर्थे च वषट्कारं मूलमन्त्रेण कारयेत् ॥
एवं ज्ञात्वा तु मन्त्रस्य होमयेत् तु विचक्षणः ।
होमद्रव्याणि सर्वाणि देवयुक्तेन साधयेत् ॥
मत्स्यन्तु शिरसं गृह्य मांसान्विं तु वै गृही ।
खण्डमामलकं प्रख्य मद्येन सह होमयेत् ॥
देवि होमन्तु शान्त्यर्थं नगरस्य तु वर्धनम् ।
कुण्डञ्च स्थण्डिलञ्चैव नलिनामधिदेवता ॥
स्रुक्स्रुवाधि दैवत्यं विराली शक्तिरुच्यते ।
मण्टपञ्च वितानञ्च नमस्कृतं * * * * ॥
देवी चैव तु * * * सौम्य मूर्तिरिति स्मृतम् ।
यह्यस्थापयेदस्त्रमिद्रादि क्रमयोगतः ॥
पूर्वन्तु दापयेद् वज्रम् आग्नेयां शक्तिमेव च ।
दण्डन्तु स्थापयेद्याम्यां नैर्-ऋत्यां खड्गमेव च ॥
वारुण्यां स्थापयेत् पाशं वाय * * * * * * ।
गदाञ्च स्थापयेत् सौम्यम् ऐशान्यां शूलमेव च ॥
इत्येवं लोकपालानाम् अस्त्राणाञ्च त्रिधामतः ॥
प्। ५२)
चयित्वा विधानेन निर्माल्य ज्वालिनीं ददेत् ।
निर्माल्य ज्वालिनीन् दद्यात् पश्चाद् देवं विसर्जयेत् ॥
देव्या प्रदक्षिणं कृत्वा स्तुति जप्योपहार च ।
प्रणम्य दण्डवद्भुमौ देव्या ध्यानपरायणः ॥
गोमयेन ततः पश्चात् घषयेत् सुसमाहितः ।
शुद्रकन्याद्विजानान्तु उद्भवो शास्त्रपाठकाः ॥
सर्वतन्त्र समाचार पारशैवा प्रकीर्तिताः ।
पूजा होम विशेषज्ञा इति शास्त्रस्सनिश्चयः ॥
इति ब्रह्मयामले शतसहस्रसंहितायाम् अग्निकार्यविधिर्नाम द्वादश पटलः ॥
१२ ॥