स्नानम् ।
अथातस्सम्प्रवक्ष्यामि स्नानकर्मविधिक्रमम् ।
आग्नेयं वारुणं स्नानम् आतपं द्विचतुर्विधम् ॥
आग्नेयं दीक्षिता स्नाने वल्मीके दर्भमुलके ।
नदीकूप तटाके वा अन्येभ्यश्चैव मन्त्रवित् ॥
तैलं मलदन्तकाष्ठ शुचौ देशे तु निक्षिपेत् ।
प्रक्षाल्य पाणिपादेन दन्तकाष्ठञ्च कारयेत् ॥
उपस्पृश्य शुचिस्तस्मिन् स्नानात्सम्पारशैवकः ।
सद्योज मृत्तिकां गृह्य वामेन क्षेपणञ्चरेत् ॥
अभिमन्त्रेण घोरेण वक्त्रेणैव त्रिभागिकम् ।
निवेदनमीश मन्त्रेण विघ्ननाशाय साधक ॥
भागमेकं भवेद् दिक्षु भागमेकस्य चाम्भसि ।
सङ्गृह्य लिख्य चात्मानं कुर्यात् स्नानं यथाक्रमम् ॥
गङ्गा च यमुना चैव कोजिनी काण्ठकी तथा ।
सिन्धुस्सरस्वती चैव सिन्धो पञ्चनदी स्मृता ॥
प्। ३८)
चतुस्सागरमध्यस्थ ध्यानन्तु सलीलं तथा ।
सर्वतीर्थानि पुण्यानि अस्मिन् तिष्ठन्तु वाम्भसि ॥
गङ्गाह्रदं जपेत् पूर्व पश्चाच्छ्रुक्ष्ये तु मुत्तमम् ।
पावणं सर्वतीर्थेभ्यो शिवतीर्थन्तु यद्भवेत् ॥
परिपूर्णाञ्जलिं कृत्वा शिरस्योपरि निक्षिपेत् ।
निमग्नदण्डवत् तत्र स्मरेदीशानमुत्तमम् ॥
उत्तीर्य सलिलात् पश्चात् सद्योजातमनुस्मरन् ।
निष्क्रम्य जलमध्यात् तु उपविश्योत्तरं मुखम् ॥
विधिना चम्य गायत्री लोचनादि तलं स्पृशेत् ।
प्राणायाम त्रयं कृत्वा ध्यायेद्धृदयमं शिवम् ॥
निरोधाज्जायते वायुर्वायोरग्निस्तु जायते ।
तपो नामापि जायन्ते ततोन्तश्शुद्धिरुच्यते ॥
बहिरभ्यन्तरे शुद्धे शिवहस्तन्तु कारयेत् ।
पश्चादात्म शिवं कुर्यात् त्रितत्व सहित द्विज ॥
उपस्पृश्य जलं तत्र कूर्चहस्ते जलं स्पृशेत् ।
देवानृषि पितॄंश्चैव क्रमेणैव तु तर्पयेत् ॥
ध्यानमार्गं समाप्तेन साधकस्य विधीयते ।
जलस्नं पुरा कृत्वा भस्मसानं यथाक्रमम् ॥
श्वेतं रक्तं तथा कृष्णं कपिलं जरयाक्रमात् ।
गोमयेन सुसङ्ग्राह्य ओङ्कारमभि मन्त्रयेत् ॥
प्। ३९)
नकारं स्थापनं कृत्वा मकारं शोधयेत् क्रमात् ।
शिकारं मुष्टिकां कृत्वा वकारं शोधयेत् क्रमात् ॥
यकारमग्नि दग्धन्तु ओङ्कारं गृहसाधकः ।
भस्मभूतं तथा कृत्वा पुनस्संस्कार कर्मणि ॥
पात्रन्तु स्थापयेत् तत्र अग्निना दहेन क्रमात् ।
पञ्चाक्षरं ततो जप्यमन्य पात्रस्य सङ्ग्रहम् ॥
गन्धपुष्पसमायुक्तं शुद्धदेशेन दापयेत् ।
अमृतस्वत्परं बीजं याम्यं संस्पृश्य नित्यशः ॥
दीक्षिता पूजयेन्नित्यं सर्वपापहरं परम् ।
ज्ञानदीक्षा तपोदीक्षा मन्त्रदीक्षा क्रमेण तु ॥
ज्ञानदीक्षा तु विप्राणां तपो दीक्षा नृपस्य तु ।
मन्त्रदीक्षा तु वैशस्य शूद्रस्यैव तथैव च ॥
अन्येषाञ्चैव जातीनां शूद्राणाञ्च तथैव च ।
अन्येषाञ्चैव जातीनां कर्मयोग्यं न कारयेत् ॥
दीक्षा क्रमेण कर्तव्यं गुरुमाराध्य वर्तते ।
अग्निमाता पितारुद्र दीक्षितो यस्य पूजकः ॥
तस्य जन्तु कुलोजात पूर्वजन्म विवर्जितः ।
मण्डले स्थण्डिले चैव स्फटिके वा मणिर्यथा ॥
भित्ति चित्रपटे वापि हृदये वापि कारयेत् ।
पूजयेद् वापि पिण्डात्मा ध्यानं कूर्वित साधकः ॥
प्। ४०)
ब्रह्मचारी गृहस्थश्च वानप्रस्थश्च भिक्षुकः ।
शैवं पाशुपतं सोम त्रय सिद्धान्तमेव च ॥
पूर्वञ्च दक्षिणञ्चैव पश्चिमं चोत्तरं तथा ।
ऊर्ध्वमूर्ध्नाभिसंयुक्तमीशानं परिकल्पयेत् ॥
ईशानपूर्वतो मूर्तिम् ईश्वरो चैव दक्षिणे ।
पश्चिम ब्रह्ममूर्तिस्तु उत्तरे तु शिवस्तथा ॥
ऊर्ध्वं सदाशिवं चैव पञ्चमूर्तिरिदं क्रमात् ।
तत् तन्मुखेन दीक्षाया तत् तद्भावन्तु पूजयेत् ॥
सृष्टिस्थितिश्च संहारं मूर्तिभेद क्रमेण तु ।
ब्रह्माणं पूजयेन्नित्यं भस्मोद्धूलित विग्रह ॥
सर्वसङ्ग परित्याज्य एकत्वं भावयेत् क्रमात् ।
विष्णुञ्च पूजयेन्नित्यं जपहोम क्रियादिभिः ॥
गृहस्थस्य विशेषेण दीपाकार स उच्यते ।
दीक्षितानाञ्च सर्वेषां नरनार्यस्सुभक्तितः ॥
त्र्यङ्गुल्यन्तु परिक्रम्य त्रिपुण्ड्रस्सविधीयते ।
त्र्यङ्गुलं परिधे यत्तु सर्वेषां च विशेषतः ॥
एवं विधि क्रमेणैव पूजयित्वा विशेषतः ।
एकत्वं भावयेत् तत्र कुलजातस्समाप्नुयात् ॥
इति ब्रह्मयामले शतसहस्रसंहितायां दीक्षाभेद शुद्धस्नानविधिर्नाम
दशमः पटलः ॥ १० ॥