पीठम् ।
वक्ष्येहं बलिपीठस्य लक्षणं क्रमशोधुना ।
मूलगेहे तलोत्थेयं भूतपीठस्य विस्तृतम् ॥
पादबाह्ये तु मध्ये वा पादाभ्यन्तरमेव वा ।
विस्तारमुत्सेधमर्धाधिक मथापि वा ॥
पादाधिकं तथा कृत्वा विधिपीठस्य चोच्छ्रयम् ।
होमादि कर्णिकान्तञ्चेत् द्वात्रिंशदंशकं भवेत् ॥
कुमुदोच्चन्तु भूतांशं कम्पेमेकांशमुच्यते ।
षडंशं चरणोच्चं वा कम्पमानं शिवांशकम् ॥
कलांशन्तु महापद्मं पद्मोत्सेधं युगांशकम् ।
पक्षोत्सं कर्णिकोत्सेधं होमादुपरि विन्यसेत् ॥
अथवान्य प्रकारेण द्वारमानविधिं शृणु ।
हारोच्छ्रेयं तारं पादहीनं द्विपादकम् ॥
प्। ३६)
उत्तमाधममध्यञ्च तुङ्गं पूर्वोक्तमाचरेत् ।
होमाकर्णिक पर्यन्तमष्टाविंशति सङ्खया ॥
उपानोच्चं कलोच्चं वा रसांशञ्च प्रमाणकम् ।
कुम्भोत्सेधं शरांशं स्यात् कंअमेकांशमुच्यते ॥
युगांशं कण्ठमानन्तु शिवांशं कम्पमूर्ध्वकम् ।
शिवाक्ष्यंश मेहपट्टी पक्षांशं वा विशेषतः ॥
वेदांश पद्मन्तु विन्यस्य शिवांशं कर्णिकोदयम् ।
पीठतारं युगाश्रन्तु निष्कलस्य शरीरकम् ॥
स्थितं वै आत्मकं विद्यात्सकलञ्चलितो भवेत् ।
आयुक्षा तु समाख्याता आत्मनेन तु दृश्यते ॥
क्षेत्रं क्षेत्रस्य रूपेण विभेदा पठ्यते मया ।
तिलमध्ये स्थितं तैलं क्षीरमध्ये यथा ध्रुवम् ॥
तिलवत् क्षेत्रमित्याहुः तैलं क्षेत्रस्य उच्यते ।
उभयोरितरं नास्ति आकाशविविभुन्नयेत् ॥
मातृकं क्षेत्रमित्युक्तं क्षेत्रज्ञोथ प्रभुरुच्यते ।
अक्षरं परमाधारमधेयं शक्तिरुच्यते ॥
अनुनात्मानमित्युक्तम् आत्मास्तु स भैरवम् ।
मन्त्रं परमाशक्तिश्शक्ति भैरवमुच्यते ॥
भैरवं भैरवोद्भूतं शक्त्यामुन विवित्रयम् ।
अन्यथा देवता शक्ति भैरवेषु समुद्भवा ॥
प्। ३७)
नानाभेदस्वरूपाणि नानाशास्त्रकलां धरेत् ।
एवं शक्त्या भवेद् ब्रह्मन् ब्रह्मशक्ति ततः परम् ॥
मातृदीक्षा क्रमञ्चैव अर्चनं नात्र कारयेत् ॥
इति ब्रह्मयामले शतसहस्रसंहितायां पीठलक्षणं नाम नवमः पटलः
॥ ९ ॥