०७

प्रतिष्ठाविधिः ।

प्रतिष्ठाविधिं प्रवक्ष्यामि शृणुब्रह्मन्यथा क्रमम् ।
प्रासादस्याग्रतः कुर्यात् मण्टपञ्चतुरश्रकम् ॥

उत्तमं मध्यमञ्चैव अधमं त्रिविधं तथा ।
चतुर्भिस्तोरणैर्युक्तं चतुर्द्वारञ्च शोभितम् ॥

षोडशस्तम्भसंयुक्तं दशद्वादश हस्तकम् ।
द्वात्रिंशत्स्तम्भसंयुक्तं तथा षोडशहस्तकम् ॥

प्। १८)

मण्टपं वा प्यथो वोपि सर्वालङ्कारशोभितम् ॥

षोडशस्तम्भसंयुक्तं दशद्वादशहस्तकम् ।
द्वात्रिंशत् स्तम्भसंयुक्तं तथा षोडश हस्तकम् ॥

दर्भैर्माल्यैः परिक्षिप्तं पुष्पमालावलम्बितम् ।
घण्टाचामरसंयुक्तं कुशदर्भाञ्च गोपलम् ॥

पवित्रं कनकसंयुक्तं * * * * * * * ।
नवपञ्च त्रीणि संयुक्तमङ्गुलञ्च * गुलम् ॥

नालं त्र्यङ्गुलं प्रोक्तं ग्रन्थिरेकाङ्गुलं भवेत् ।
मातृगायत्रि मन्त्रेण योजयेत् तु विशेषतः ॥

अण्डजन्मपरमाणेन अव्यक्तं देवगिराम् ।

सुवर्णे रजते ताम्रे अलाभे मृण्मयेऽपि वा ।
अभिन्नरुक्षस्फुटितैः कलशैः कालवर्जितैः ॥

अकालमूलकलशैः सूत्रैरावेष्टितैरपि ।
सकूर्चैस्सापि धानैश्च सवस्त्रैर्वेष्टितैरपि ॥

ईदृशैः नवभिः कुम्भैः शुद्धम्बु परिपूरितम् ।
शालिमुद्गप्रियङ्गानि यवसर्षपमेव च ॥

कलशान्विन्यसेत् तत्र सर्वगन्धानि तानि तु ।
चतुर्दिक्षु न्यसेत् कुम्भान् पूर्वादि क्रमयोगतः ॥

प्। १९)

पञ्चरत्नेन संयुक्ता नवाक्षरेण मन्त्रवित् ॥

मध्ये तु विन्यसेत् कुम्भं वीरेशीतन्त्रमुच्यते ।
रक्ताक्षी विन्यसेत् पूर्वं करालीं दक्षिणे न्यसेत् ॥

चण्डाक्षी पश्चिमे न्यस्य महोच्छिष्ठोत्तरे न्यसेत् ।
अम्बिका चण्डिका चैव घोराघोरेश्वरी तथा ॥

कोणेषु कलशान्यस्य शास्त्रदृष्टेन कर्मणा ।
स्वस्वेनैव तु बीजेन नवाक्षरयुतेन च ॥

कलशं विन्यसेद् विद्वान् शूलमुद्रां प्रदर्शयेत् ।
गन्धपुष्पादिभिश्चैव वस्त्रयुग्मेन वेष्टयेत् ॥

कलशान्ते तु मन्त्राणा प्रत्येकन्तु यथाक्रमम् ।
देव्याश्च प्रतिमं ग्राह्यं ताम्रजन्दारुकन्तु वा ॥

स्थायिरूपञ्च कर्तव्यं क्षालयेच्छुद्धतोयकैः ।
वस्त्रयुग्मेन सम्पूज्य गन्धपुष्पादिभिर्यजेत् ॥

प्रणवं विन्यसेच्चित्ते वदने मूर्तिविन्यसेत् ।

नवाक्षरं न्यसेत् पश्चात् प्रतिमाङ्गे यथाक्रमम् ।
मुखे च हृदये शिरो नाभिस्तु गुह्यके ॥

ऊरोश्च पादयोश्चैव पद्ममुद्रां प्रदर्शयेत् ।
हृदये हृदयं न्यस्य शिरश्चिरसि विन्यसेत् ॥

प्। २०)

शिखायान्तु शिखां न्यस्य कवचं तनमस्तके ।
अस्त्रं हस्तप्रदेशे तु नेत्रं नेत्रेषु विन्यसेत् ॥

सर्वाङ्गन्तु न्यसेन्मन्त्री एकवीरी शरीरतः ।
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ॥

वाराही चैव माहेन्द्री वीरभद्रगणाधिप ।
एकवीरी शरीरे तु विन्यसेद्वैकमुद्रया ॥

वीरभद्रन्तु शिरसि गणाध्यक्षन्तु पादयोः ।
स्वस्वेनैव तु मन्त्रेण एकचित्तो दृढव्रतः ॥

ब्रह्माणी तु मुखं न्यस्य हृदिमाहेश्वरी न्यसेत् ।
कौमारी गुदरे न्यस्य वैष्णवीन्नाभि मन्त्रके ॥

वाराहीं कटिमध्ये तु जाना वैन्द्रीन्तु विन्यसेत् ।
उदरे विन्यसेत् सर्वं जगत्स्थावरजङ्गमम् ॥

चन्द्रादित्यं न्यसेन्नेत्रं ललाटेक्षेरु विन्यसेत् ।
श्रोत्रे दिशन्तु विन्यस्य आकाशे हृदये न्यसेत् ॥

पादयोः पृथिवीं न्यस्य त्रिमुर्तिश्चैव विन्यसेत् ।
देवा यक्ष यथा नागा किन्नराप्सरस्तथा ॥

गतान् स्वस्वेन मन्त्रेण हृदये विन्यसेद् बुधः ।
एवं तस्य विधानेन हारकेयूर कल्पितम् ॥

पूजयित्वा विधानेन आचार्यस्तु निवेदयेत् ।
शयनं कल्पयेत् तत्र कलशस्य च दक्षिणे ॥

प्। २१)

अण्डजैर्मुण्डजैर्वास्त्रैः कार्पासैः कम्बलैः क्रमात् ।
तस्योपरि न्यसेन्नेत्रे देवदेवाङ्गकैर्बुधः ॥

कूर्चं तत्रैव विन्यस्य लक्षणेन विचक्षणः ।
एवं विन्यस्य विधिना एकवीरीञ्च शययेत् ॥

नवाक्षरेण मन्त्रेण जयशब्दयुतेन च ।
प्राक्शिरन्तु कर्तव्यं पादयोरन्यथा कृतम् ॥

देव्योपरि न्यसेद्वस्त्रं सदेशैर्युग्मतो हरम् ।
ईदृग्विधञ्च वस्त्रं वा नेत्र निर्वाणमेव वा ॥

निवेद्यं दापयेत् तत्र स्मरणेन तु संयुतम् ॥

कलशोदकेन संस्पृश्य हृदयेनाभिमन्त्रयेत् ।
होमोदये ततस्सर्वान् सर्वमन्त्रैर्यथा क्रमम् ॥

मूर्तिपैर्लक्षणोपेतैरष्टभिस्तु यथा विधि ।
मन्त्रज्ञैः कुशलैश्शुद्धै ब्रह्मयामलतत्परैः ॥

पारशैव कुलोद्भूतै मातृदिक्षो समन्वितैः ।
नाङ्गहीनैर्न बधिरै नेत्रहीनैश्शठैस्तथा ॥

नघ्रद्वैश्वा बालैश्च होमयेत् तुल्यवर्णजैः ।
आचार्य लक्षणं वक्ष्ये शृणुष्व चतुराननम् ॥

सर्वलक्षणसम्पूर्णं समयाचारपालकम् ।
शक्तिव्रतधरं शान्तं नाङ्गहीनं नरोगिनम् ॥

प्। २२)

एकवीरविधनज्ञं ब्रह्मयामल तत्परम् ।
मात्र तन्त्र क्रियायुक्तं मात्रतन्त्रविशारदम् ॥

मातृमण्डलवेत्तारं मात्रस्फूर्ति विचारगम् ।
दीक्षासंस्कारयुक्तञ्च प्रतिष्ठाक्रमवित्तमम् ॥

शुभदेशे समुत्पन्नम् अभिषेक क्रियान्वितम् ।
एकवीरविधानज्ञं शक्ति व्रतधरं शुभम् ॥

समुक्त पादनयनं कालमण्डलवर्जितम् ।
रक्तं रक्तोष्ठसंयुक्तं रक्तपाणिं विचक्षणम् ॥

मनोज्ञं वा प्रवक्तारं शास्त्रानुष्ठानतत्परम् ।
शीलाचारसमायुक्तं गुणासम्भोगवर्जितम् ॥

गुणाशान्तं समुद्भूतं सद्भिश्चैव तु सम्पदम् ।
सलक्षणैश्च संयुक्तमालोल दीर्घलोचनम् ॥

मृदुपादक सग्रञ्च शुभकण्ठसमध्वलम् ।
एवं लक्षणसंयुक्तमाचार्यं विधिवत्सदा ॥

बिल्वञ्च खदिरञ्चैव पलाशं वटमेव च ।
अश्वत्थोदुम्बरञ्चैव पद्मञ्चैव शरं तथा ॥

वैकङ्गतोह्यपामार्गम् अर्कञ्चैव यथाक्रमम् ।
अपामार्गं वास्तु होमे होमयेत् तत्र वित्तमः ॥

अष्टोत्तरशतञ्चैव होमयेत् सर्व मूर्तिपः ।
आचार्य द्विगुणं हुत्वा समिधाज्यादिभिः क्रमात् ॥

प्। २३)

प्रत्येकाष्टशतञ्चैव होमयेत् सर्वमूर्तिषु ।
अष्टमूर्तिषु मन्त्रैश्च पृथक् वै होमयेद् बुधः ॥

स्वतामपदसंयुक्तं नवाक्षरसमन्वितम् ।
स्वरण्यन्तससंयुक्तं होमयेन्मूर्ति धारकान् ॥

पृथिवी आपिनी ते जीव यशखड्गिनी तथा ।
सौरी चन्द्री तथा पात्नी अष्टमूर्तिः प्रकीर्तिताः ॥

तासां मूर्तिस्तु मूर्ध्नीनां मारयेन्मूर्तिवारकः ।
पृथिवी पूजनं पूर्वम् आपिनी वारुणेन तु ॥

तेजी अग्नि प्रदेशे तु वायवी वायुगोचरे ।
खड्गिनी नैर्-ऋते भागे सौरी ईशानगोचरे ॥

चन्द्री सोमे तु विन्यस्य ह्यस्ती दक्षिणे न्यसेत् ।
एवं न्यस्त्वा न विधानेन चाष्टमूर्तिषु योजयेत् ॥

मूर्तीनाञ्चैव सर्वासां स्वनाम्ना चैव होमयेत् ।
अवर्गं जुहुयात्पूर्वे कवर्गमग्नि गोचरे ॥

चवर्गं याम्यदेशे तु वर्गत्त्रैन्नैर्-ऋते हुतम् ।
तवर्गं वारुणञ्चैव पवर्गं वायु गोचरे ॥

पवर्गं सोमदेशे तु षवर्गमीशगोचरे ।
एतैस्सर्वैस्तु संयुक्तमाचार्यो होममारभेत् ॥

पूर्ववत्प्रक्रमादेव लोकपालान्न्यसेत् क्रमात् ।
सप्तजिह्वा न्यसेस्तस्य यथास्थाने यथाक्रमम् ॥

प्। २४)

अष्टमस्य तु खण्डस्य तृतीये लक्षणान्वितम् ।
सप्तमस्य तु खण्डस्य द्वितीय लक्षणान्वितम् ॥

षष्ठेनैव समोपेतं मूर्ध्नि बिन्दु सुशोभितम् ।
बहुरूपा भवेज्जिह्वा न्यस्तव्या सङ्गरेदिशि ॥

सप्तखण्डा तृतीया च द्वितीयेन समन्वितम् ।
षष्ठेन तु समायुक्ता बिन्दुना परिभूषितम् ॥

रजताभाजसा जिह्वा सैन्द्रे चैव व्यवस्थितम् ।
द्वितीये चाष्टमखण्डान्ये द्वितीयकम् ॥

षष्ठेनैव समारूढ चैन्द्र खण्डान्यथा क्रमम् ।
बिन्दुनोपरिसंयुक्ता रक्ता जिह्वा च सम्भवेत् ॥

अग्निभागे स्थिता सा च सक्तपापविनाशिनी ।
खण्डस्य चाष्टमस्यैव मातीया शान्तिदा शुभा ॥

सप्तमस्य तु खण्डस्य द्वितीयेन समन्वितम् ।
षष्ठेनैव समयुक्तं बिन्दुनोपरिभूषितम् ॥

कृष्णाख्या तु भवेज्जिह्वा नैर्-ऋते दिशि संस्थिता ।
सप्तमस्य तु खण्डस्य चादिबीजासु शोभना ॥

पुनरग्निसमायुक्तं षष्ठस्वरसमन्वितम् ।
बिन्दुनोपरिसंयुक्तं सर्वकामार्थसाधनम् ॥

सुप्रभा शोभना जिह्वा वारुण्यं दिशिसंस्थिता ।
सप्तमस्य तु खण्डस्य चादिबीजा शुभङ्करी ॥

प्। २५)

द्वितीयेन समायुक्ता षष्ठबीजेन संयुता ।
विन्दुनोपरिसंयुक्ता सदाविजयवर्धनी ॥

अतिरक्ता भवेज्जिह्वा वायव्यां दिशिसंस्थिता ।
सप्तजिह्वा समाख्याता शास्त्रदृष्टेन कर्मणा ॥

एवं सप्तविधां जिह्वा चाग्निकुण्डे प्रयोजयेत् ।
एवं वै स्थण्डिले जिह्वा योजयेद् देशिकोत्तमः ॥

एतैस्सर्वैस्समायुक्तः आचार्यो मन्त्रहोमयेत् ।
समिद्धुत्वा स्पृशेत्पादमाज्यं हुत्वा यदि स्पृशेत् ॥

चरुं हुत्वा स्पृशेद्बिन्दुं तिलान् हुत्वा हुतिस्पृशेत् ।
लाजं हुत्वा मुखं स्पृश्य शूलमुद्राभिमन्त्रयेत् ॥

कृगाक्षरे स्पृशेत् पश्चात् क्ष्वकाकादीनि वै बुधः ।
हुत्वा हुत्वा स्पृशेन्मन्त्री पादादि शिरसान्तकम् ॥

हृदये हृदयं स्पृश्य शिरश्शिरसि विन्यसेत् ।
शिखायान्तु स्पृशेन्न्यस्य कवचं स्तनमध्यकम् ॥

स्तनमध्यं स्पृशेत् मन्त्री सर्वमन्त्रैर्यथा क्रमात् ।
आज्यं हुत्वा भवेत् तत्र हृन्मन्त्रादि यथाक्रमम् ॥

पञ्चपञ्चभिराहुत्या षडंशेन विधुर्बुधः ।
एकवीरशतं हुत्वा नवाक्षरेण बुद्धिमान् ॥

चतुर्मूर्तिश्चतुर्हत्वा अष्टमूर्तिस्तु चाष्ठधा ।
द्वादशैव तु मुनीनां द्वादशाहुतिरुच्यते ॥

प्। २६)

षोडशैव तु मूर्तीनां षोडशाहुति होमयेत् ।
द्वात्रिंशन्मूर्तिभिश्चैव द्वात्रिंशाहुतिरुच्यते ॥

तत् तत्पूरणहोतव्यं स्वनामपदसंयुतम् ।
योगिनीनां दशं हुत्वा परिवारेण पञ्चधा ॥

एवं हुतं विधानेन वारिणा प्रोक्षयेद् गृहम् ।
पञ्चगव्येन सम्प्रोक्ष्य नवाक्षरेण बुद्धिमान् ॥

बाह्ये चाभ्यन्तरे चैव परिवार ग्रहेषु च ।
प्रोक्षयेत् पञ्चगव्येन पश्चात् स्थापनमारभेत् ।

अधिवासन वेलायां पशून् सप्त च पातयेत् ।
रुधिरं मांसमस्थिञ्च होमयेन्मूलमन्त्रतः ॥

ततो दिशा बलिं दद्यात् रक्तमांसैश्च विन्यसेत् ।
शङ्खभेर्यादिभिर्घोषैर्डमरुकैश्च काहलैः ॥

मातृघोषैश्च संयुक्त पटहमदलसङ्कुलैः ।
नृत्तगीतादिभिस्तत्र ह्रादयेत् तत् प्रदक्षिणम् ॥

अधिवासविधि ह्येतन्ना ब्रह्म उदाहृतम् ।
सुमुहूर्ते तु सम्पन्ने प्रभाते स्थापनं भवेत् ॥

रत्नादिविन्यसेत्पूर्वं पश्चात् स्थापन मारभेत् ।
रत्नानि लोह धान्यानि बीजान्योषधयस्तथा ॥

क्रमेण विन्यसेत् ब्रह्मन् शास्त्र दृष्टेन कर्मणा ।
वज्रन्तु मरकतञ्चैव मौक्तिकं पद्मरागकम् ॥

प्। २७)

वैडूर्यं पुष्परागञ्च इन्द्रनीलं प्रवालकम् ।
गोमेदकन्तु माणिक्कं नवरत्नं प्रकीर्तितम् ॥

नवाक्षरेण मन्त्रेण पूर्वादिक्रमयोगतः ।
सुवर्णरजतं ताम्रमायसं त्रपुसीसकम् ॥

आरुढं च विपुलं पूर्वादि क्रमतो न्यसेत् ।
हरितारं गञ्जकञ्च माक्षिरं गुनपीतथा ॥

सौराष्ट्र गैरिकञ्चैव वत् * * * गरन्तथा ।
नवाक्षरेण मन्त्रेण पूर्वादि क्रमतो न्यसेत् ॥

तिलसर्षप मुद्गानि व्रीहिनिष्पावकानि च ।
यवमाष प्रियङ्गूनि नवाक्षरेण विन्यसेत् ॥

लक्ष्मी च सहदेवी च विष्णु क्रान्ति बलं तथा ।
गरिकञ्जीव्रवल्ली च वाह्री च पाक्सव चलान् ॥

नवाक्षरेण मन्त्रेण क्रमेण विन्यसेद् द्वये ।
कारयेत् तु नवपुटं ताम्रैणैव शोभितम् ॥

ब्रह्मस्थानं न्यसेन्मन्त्री एकत्वञ्च न कारयेत् ।
कूर्मञ्च पृथिवी चैव शङ्खञ्चैवात पत्रिकम् ॥

वज्रञ्चैव तु शूलञ्च गदा खड्गन् तथैव च ।
नवाक्षरेण मन्त्रेण स्मरणेनैव संयुतम् ॥

न्यसेद्वीजानि मार्गञ्च रजान्योषधि लोहकान् ।
ब्रह्मस्थानं न्यसेत् पूर्वमायुरारोग्यदं शुभम् ॥

प्। २८)

एवं न्यस्य च विधिना पायसेन तु लेपयेत् ।
सुमुहूर्ते च सुदिने शङ्ख दुन्दुभि निस्वनैः ॥

स्थापयेद् विधिनाचार्यो ब्रह्मस्थानन्तु कौतुकम् ।
कूटाक्षरं नवैर्बीजैर्नवाक्षर युतैरपि ॥

सुमुहूर्ते तु कर्तव्यम् ऊर्ध्वस्थापनमाचरेत् ।
अर्घ्यन्दत्वा ततो मन्त्री वीरध्यान परायणः ॥

पशून्वै घतयेत् तत्र प्रतिष्ठा कालिके तथा ।
सपुत्रं वा जपैर्दर्वैः यजमान पुरस्सरैः ॥

कवितुकस्य तु सम्मन्त्र्यस्य स्थापयेद् विधिना तथा ।
देवभागं न्यसेत् स्थाप्य ब्राह्मे चर्चां प्रकल्पयेत् ॥

कृताक्षर नवबीजैर्नवाक्षरयुतैरपि ।
स्मरणेन समायुक्तं त्रिभिर्जप्तं प्रवेशयेत् ॥

अर्घ्यन्दत्वा तु तत्रैव भद्रकालीं प्रवेशयेत् ।
सकलं निष्कलं रूपं ध्यात्वा देव्यः पुनर्न्यसेत् ॥

आवाहयेत् ततो देवीं भीमरूप कपालिनीम् ।
त्रिशूल खड्ग खट्वाङ्ग खेटकैश्च समन्वितः ॥

घण्टाडमरुकञ्चैव नागपाश समन्विता ।
मुण्डमालाधरीं देवीं त्रिणेत्रिं रक्तलोचनीम् ॥

श्यामवर्णाञ्च सुघनीं रौद्रीं चैव परात्पराम् ।
भूतप्रेत गणैस्सर्वै मातृयोनि गणैर्युताम् ॥

प्। २९)

एतैस्सर्वैः परिभूतैः देवीमावाहयेद्बुधः ।
अचिन्त्यां परमां सूक्ष्माम् अव्यक्ताम् अक्षयां दयाम् ॥

नानारूप जगद्योनिं विश्वमूर्तिं महेश्वरीम् ।
अनेक वदनान्देवीं नैकहस्तां महेश्वरीम् ॥

नैकरूप घृतश्यामाम्मनेका घ्राणसंयुताम् ।
अनेकश्श्रोत्रसंयुक्तमनेकस्तनसंयुताम् ॥

अनेक मुखसंयुक्तां समुद्राम्बरभूषिताम् ।
इन्द्रश्रपविचित्राङ्गी विन्यसेत् तन्त्रवित्तमः ॥

कलशोदकेन सम्प्रोक्ष्य स्वापि रूपन्तु विन्यसेत् ।
परिवारन्यसेच्चैव स्वस्वेनैव तु मन्त्रवित् ॥

देव्योदकेन सम्प्रोक्ष्य न्यसेत्स्वरलिपिन्यथा ।
निवेदयेत् तदा देहमर्चयित्वा विधानतः ॥

पायसं कृसरान्नञ्च पीतान्नञ्च गुलोदनम् ।
शुद्धान्नघृतसंयुक्तन्दधिमधुघृतान्विताम् ॥

भक्ष्य भोज्यञ्च पायञ्च लेह्यं शोष्यं तथैव च ।
बौलकामण्डका चैव पूरिका घृतकन्तथा ॥

मधुमांसञ्च पानञ्च गुलपिष्टं मधुन्तथा ।
त्रिविधा तु भवेद् देवी लक्षमांसेन संयुता ॥

निवेदयेद् विशेषेण अर्घ्यैश्च बहुकादकान् ।
दिशाबलिं ततो दद्यात् मांसानां लाजसंयुतम् ॥

प्। ३०)

आचार्यं पूजयेत् सम्म्यक् गोरुमिकाञ्चनादिभिः ।
प्रतिष्ठा विधायां प्रोक्तं राष्ट्रशान्त्यर्थकारणम् ॥

गर्भगेहे तु मतिमान् सप्तकोष्ठानि कारयेत् ।
प्रतिष्ठाप्य पूजयेत् तन्त्र वित्तम * * * * ॥

ध्रुवार्चादेविकं स्थाप्य भूतात्मा रणभागिके ।
पैशान् पैशातु भागेतु स्वार्पयेत् तन्त्रवित्तमः ॥

एवं तु त्रिविधं लेख्यं यथाविधिपुरस्सरम् ।

इति ब्रह्मयामले शतसहस्रसंहितायां प्रतिष्ठाविधिर्नाम सप्तमः पटलः ॥
७ ॥