प्। ९)
अङ्कुरार्पणम् ।
अथातः सम्प्रवक्ष्यामि मखिलस्याङ्कुरार्पणम् ।
प्रोक्षणे च प्रतिष्ठायामुत्सवे स्नपनेपि वा ॥
दीक्षायामालयारम्भे बालस्थाने तथैव च ।
पात्रं चतुर्विधं प्रोक्तम्वङ्गलाङ्कुरकर्मणि ॥
शङ्खं शरावघटिका पालिकासु चतुर्विधा ।
सौवर्णं रजतं ताम्रं कांस्यं वै मृण्मयञ्च वा ॥
प्रत्येकं द्वादशग्रह्य सर्वयोगेषु कीर्तितम् ।
शङ्खाकारन्तु शङ्खस्य वर्तुलञ्चाष्टमङ्गुलम् ॥
तदर्धञ्चैव विस्तारं मूलन्तस्य प्रमाणतः ।
अग्रे पद्मदलाकारमष्टपत्रसमन्वितम् ॥
तत्पद्मे शङ्खरूपं स्यात् शङ्खाकारं तमुच्यते ।
षोडाशाङ्गुलमायामं त्र्यंशमायाममेव च ॥
कीटकोटि समाकारं मुखन्तस्य प्रकीर्तितम् ।
आपस्त्र्यङ्गुलञ्चैव उदरञ्च दशाङ्गुलम् ॥
गोकर्णरूपं तत्पुच्छमेवं शङ्खस्य लक्षणम् ।
अष्टादशाङ्गुलोत्सेधं शरावं भिन्नवर्जितम् ॥
द्वितालन्तु भवेद् वक्त्रं कृष्णमण्डलवर्जितम् ।
अष्टादशाङ्गुलायामं घटिका पञ्चत्रिकम् ॥
षडङ्गुलं भवेत् पादं तन्मध्ये चतुरङ्गुलम् ।
कुम्भञ्चाष्टाङ्गुलं नाहं वक्त्रास्स्युश्चतुरङ्गुलम् ॥
प्। १०)
पालिकारत्निमात्रन्तु नालन्तस्य प्रकीर्तितम् ।
षोडशाङ्गुल विस्तारं तद्वक्त्रञ्च * * * * ॥
तदर्थं कण्ठविस्तारं तदर्थं बिलमुच्यते ॥
मण्टपस्सविधिं वक्ष्ये मङ्गलाङ्कुरकर्मणि ॥
दशहस्तप्रविस्तारं विप्रस्य तु वपुर्बुधः ।
क्षत्रस्य नवहस्तं च अष्टहस्तं तु वैश्यकः ॥
सप्तहस्तन्तु शूद्राणां तारायामं प्रकीर्तितम् ।
षट्त्रिंशत् षोडशस्तम्भं द्वादशस्तम्भमेव च ॥
अष्टहस्तं क्रमात्प्रोक्तं तथा विस्ताररूपकम् ।
चतुरश्रसमं कृत्वा दर्पणोदरसन्निभम् ॥
मण्टपञ्चो भयोः पश्चात् यथाविधि पुरस्सरम् ।
चतुर्भिस्तोरणैर्युक्तम् अष्टदिक् ध्वज शोभितम् ॥
चतुद्वारसमायुक्तं मण्टपं लक्षणान्वितम् ।
वटोदुम्बरमश्वत्थं लक्षं वृक्षादिभिः क्रमात् ॥
तोरणं कारयेत् तैश्च यथाविधि पुरस्सरम् ।
पञ्चहस्तायतं प्रोक्तं विस्तारं तद्विहस्तकम् ॥
ऊर्ध्वं शूला कृतिं कुर्यात् हस्तं भूमि निवेशयेत् ।
श्वेतं रक्तं तथा कृष्णं धूम्रञ्च वारुणं तथा ॥
प्। ११)
श्यामन्तु कपिलं पीतं ध्वजानां पूर्वतो न्यसेत् ।
विताने चोर्ध्वमाश्चर्य कण्ठचामरभूषितम् ॥
दुकूलपट्टकार्पास वस्त्रैश्श्लक्ष्णैस्ततः क्रमात् ।
स्तम्भानावेष्ट्य पश्चात् तु पल्लवैरप्यलङ्कृते ॥
धूपदीपसुगन्धैश्च पूजयेन् मण्टपं शुभम् ।
एवं कृत्वा तु पूर्वन्तु ततश्चाङ्कुरमारभेत् ॥
गोमयेन समालिप्य तन्मूलानि प्रकल्पयेत् ।
शालिभिस्तु दशद्रोणै तदर्धकैर्वा तदर्धकैः ॥
द्रोणार्धञ्चाधमञ्चैतत्तदर्धं तण्डुलोरपि ।
विकिरेयात्तण्डुलैश्शर्धै दक्षिणेतोन्ये ॥
शाहस्तं वा त्रिहस्तं वा विस्तारहस्तमथार्हिकम् ।
चतुरश्राणि न यथाक्रम * * * कारयेत् ॥
आसनं कल्पयित्वा तु पद्माकारं विचक्षणम् ।
गन्धपुष्पश्च सम्पूज्य यथाविधि पुरस्सरम् ॥
रक्ता कराली चण्डाक्षी महोच्छिष्टादि देविका ।
शङ्खादि विन्यसेत् पश्चात् कोशकृत् पांसुपूरयेत् ॥
आम्रपल्लवसञ्च्छन्नं गन्धाद्यैरर्चयेच्छुभान् ।
बीजानि पूरयेत् पश्चात् यवपूर्वादिनि क्रमात् ॥
यवमाष कुलस्थानि चम्बवैणवकानि च ।
शाली प्रियङ्गुरपामार्गं श्याकानिष्पावकानि च ॥
प्। १२)
तिलसर्षपमुद्गानि बीजानि च त्रयोदश ।
यथा लाभं गृहीत्वा तु देशकालानुरूपतः ॥
वारिणा क्षालयित्वा तु गोक्षीरेणापि वै क्रमात् ।
ताम्बूलं दापयेत् तत्र सर्वेषां मातृवोगिनाम् ॥
आचार्यस्सविशेषेण ताम्बूलं दापयेत् ततः ।
आचार्य श्शुद्ध भूतात्मा शुद्धगन्धानुलेपनम् ॥
नववस्त्रपरीधानं चोष्णीषञ्चोत्तरीयकम् ।
साङ्गुलीयकपाणिस्तु सर्वाभरणभूषितः ॥
अति दीर्घा वामकुब्जो चक्षुहीना विसर्जकाः ।
बधिराः कुक्षिरोगाश्च लाजपात विसर्जयेत् ॥
विकटञ्चाङ्गहीनञ्च शिपिविष्टा विसर्जयेत् ।
सर्वलक्षणसंयुक्तं सर्वाङ्गं सर्वशोभनम् ॥
मातृ गायत्रि मन्त्रेण ब्रह्मयामल पाठकान् ।
सर्वतन्त्र क्रियायुक्तं * * * * * * * * ॥
गुरुशिष्यंस्तथैव च * * * निन्दा * * ॥
निन्दा * * * * * * कुलनिन्दा विसर्जयेत् ।
एतैर्वा वापयेद्बीजं नवाक्षरेण मन्त्रवित् ॥
ब्रह्मघोषैश्च विविधै स्वस्तिवाचकमङ्गलैः ।
शङ्ख दुण्ठाभिनिर्घोषैर्गीतवाद्यादि निस्वनैः ॥
प्। १३)
एतैर्वा वाचयेद् बीजं नवाक्षरेण मन्त्रवित् ।
नवाक्षरेण मन्त्रेण बीजानां वापयेद्गुरुः ॥
मात्रमन्त्राभि जप्तेन वारुणञ्चैव सेचयेत् ।
सदशैश्चादयेद् वस्त्रैस्सुसूक्ष्मैश्च पृथक् पृथक् ॥
रात्रिं तु मातृगायत्रीं मङ्गलाङ्गुर रक्षणैः ।
लक्षणे चोच्यते तस्मिन्नाचार्य मन्त्रविग्रहः ॥
पयोधि * क्षण सेव्याह विस्तासां प्रदापयेत् ।
पावका देवता पञ्च हविस्तासां प्रदापयेत् ॥
एवं कृत्वा प्रतिदिनम् एवं पुष्पादिभिर्यजेत् ।
अङ्कुरार्पणं वक्ष्यामि वर्णभेदाननेकशः ॥
श्वेतानि रजताभानि कुञ्जराभानि तानि च ।
हरिद्र हानि तान्येव कोमलानि शुभानि च ॥
श्वेताभं सर्वकामार्थं रजताभं विवर्द्धिदम् ।
कुञ्जराभं तु * * धनं छ्रीतं कोमलं भवेत् ॥
स्वर्णाभं स्वर्ण वृद्धिः स्यात् हरिद्रापुष्टिवर्धनम् ।
मृद्धनि पुत्रपौत्रिं स्यात् जीर्णतां प्रकीर्तितम् ॥
कृषे धूम मृतुनाशंस्याजञ्जानिह वर्धनम् ।
तथा तिर्यग्गतं चैव वसु पलं पलम् ॥
कृष्णाभोच्चाटनञ्चैव धूम्राभं कलहं भवेत् ।
नीलाभमम्बु नाशं स्यात् अपमृत्युर्भविष्यति ॥
प्। १४)
अधोगतं चेकलाभं तिर्यगं चैव रोगदम् ।
तस्मात् सर्व प्रयत्नेन अनाभानि विवर्जयेत् ॥
नवाक्षरेण मन्त्रेण पशुमेकन्तु घातयेत् ।
प्रायश्चित्त विशुध्यर्थं होमं तत्र विधि क्रमात् ॥
नवाक्षरेण मन्त्रेण अष्टोत्तरशतं * * ।
अङ्कूरार्पण काले तु बीजानि च सञ्चयम् ।
तत्सर्वं दापयेद् ब्रह्मन् आचार्यन्तु तानि वै ॥
पूर्वोक्त मण्टपे रम्ये गुप्तेन निक्षिपेत् ततः ।
इति ब्रह्मयामले शतसहस्रसंहितायाम् अङ्कुरार्पण पञ्चमः पटलः ॥ ५ ॥