२१५

पञ्चदशाधिकद्विशततमः सर्गः २१५

श्रीवाल्मीकिरुवाच ।

भरद्वाज महाबुद्धे मम शिष्याधिनायक ।
इति रामादयो ज्ञातज्ञेया निःशोकतां गताः ॥ १ ॥

रामादिवत्प्रबुद्धस्त्वं जीवन्मुक्तः सुखी वस ।
इति वाल्मीकिना शिष्यो भरद्वाजोऽत्र शिष्यते ॥

इति अनया वर्णितया रीत्या रामादयो निःशोकतां गताः प्राप्ताः ॥ १ ॥

एतामेव दृशं कान्तामवष्टभ्य यथासुखम् ।
नीरागस्तिष्ठ निःशङ्को जीवन्मुक्तः प्रशान्तधीः ॥ २ ॥

त्वमपि एतामेव पूर्णब्रह्मात्मदृशमवष्टभ्य दृढमाश्रित्य तिष्ठ ॥ २ ॥

धीरनभ्यस्तसङ्गा हि रामादीनामिवानघ ।
घनमोहनिमग्नापि विमूढापि न मुह्यति ॥ ३ ॥

इदं च मदुपदिष्टं ज्ञानं दुःसङ्गेन भोगासङ्गाभ्यासेन च यथा न नश्यति
तहा रक्षेत्याशयेनाह - धीरिति ॥ ३ ॥

एवमेते महासत्त्वा जीवन्मुक्तपदं गताः ।
राजपुत्रा राघवाद्या राजा दशरथादयः ॥ ४ ॥

दशरथादयो राजानः । सुपां सुलुगिति जसश्छान्दसो डादेशः ॥ ४ ॥

त्वं च पुत्र भरद्वाज स्वयमेवासि मुक्तधीः ।
सत्यं मुक्ततरोऽस्यद्य श्रुत्वेमां मोक्षसंहिताम् ॥ ५ ॥

स्वयं स्वविचारेणैव रामवत्पूर्व मुक्तधीरसि । अद्य तु इमां मोक्षसंहितां
श्रुत्वा मुक्ततरोऽसि । सम्भावितस्र्वशङ्कापङ्कक्षालनादिति भावः ॥ ५ ॥

मोक्षोपायानिमान्पुण्यान्प्रत्यक्षानुभवार्थदान् ।
बालोप्याकर्ण्य तज्ज्ञत्वं याति का त्वादृशे कथा ॥ ६ ॥

दृष्टपरमपुरुषार्थफलत्वादस्य शास्त्रस्य सर्वशास्त्रेभ्योऽभ्यर्हिततमत्वं
मन्दाधिकारिष्वप्यभ्यासे फलोपधानसमर्थत्वं च दर्शयति - मोक्षोपायानिति
। त्वादृशे मुख्याधिकारिणि फलोपधाने का कथा ॥ ६ ॥

यथा पदं पुण्यमनुप्रयाता महानुभावा राघवो विशोकाः ।
वसिष्ठवाक्यप्रसरेण साधोगन्तव्यमाद्यं पदमेवमेव ॥ ७ ॥

हे साधो यथा वसिष्ठवाक्यानां हृदि प्रसरेण
सर्वसंशयसहिताज्ञाननाशान्महानुभावा रघवो रामादयः पुण्य।
जीवन्मुक्तपदमनुप्रयाताः सन्तो विशोकाः सम्पन्ना एवमेव त्वयाप्याद्यं
नित्यसिद्धब्रह्मभावलक्षणं जीवन्मुक्तपदं गन्तव्यं विशोकेन च
भाव्यमित्यर्थः ॥ ७ ॥

सतां नयेनोत्तमसेवया च प्रश्नेन चोदारकथागतेन ।
विन्दन्ति वेद्यं सुधियोऽप्रमत्ता वसिष्ठसङ्गादिव राघवाद्याः ॥ ८ ॥

तत्प्राप्तावन्येषामपि सत्सङ्गसेवाप्रश्नादिरेवोपायैत्याह - सतामिति । नयेन
शिक्षणेन उत्तमया लोभालस्यनिद्रादित्यागसहितया सप्रेमनिरन्तरसेवया ।
उदाराभिर्बोधोपायभूताभिः कथाभिराख्यायिकाभिः सङ्गतेन तदुपदेशेन
सुधियोऽधिकारिणो वेद्यमात्मतत्त्वं विन्दन्ति लभन्ते । अप्रमत्तास्तदेकासक्ताश्चेत् ।
यथा वसिष्ठसङ्गाद्राघवाद्या अविदंस्तद्वदित्यर्थः ॥ ८ ॥

तृष्णावरत्रादृढबन्धबद्धा ये ग्रन्थयोऽज्ञस्य हृदि प्ररूढाः ।
सर्वे हि ते मोक्षकथाविचाराद्बाला ह्यबाला इव यान्त्यभेदम् ॥ ९ ॥

तृष्णालक्षणाया वरत्रायाश्चर्मरज्ज्वा दृढबन्धैर्बद्धा अज्ञस्य हृदि
प्ररूढा ये देहेन्द्रियादितादात्म्यसंसर्गाध्यासरूपा ग्रन्थयोये च
गृहपुत्रदारादिषु ममताभिनिवेशलक्षणाः
सर्वभूतेष्वैकात्म्यानुभवैकरस्याभावाद्रागद्वेषादिहेतवो ग्रन्थयस्ते सर्वे हि
अस्मान्मोक्षकथाविचारात् यथा बालाः स्त्रियः पूर्वं
बाल्यात्क्रीडाद्यभिनिवेशाद्रसानभिज्ञत्वाच्च भर्तृषु वैरस्ययुक्ता अपि कालेन
अबालाः प्रौढाः सत्यो भर्तृभिरभेदमैकरस्यं यान्ति
तद्वत्सर्वभूतेष्वभेदमैकरस्यं यान्तीत्यर्थः ॥ ९ ॥

मोक्षाभ्युपायान्सुमहानुभावान् ज्ञास्यन्ति ये तत्त्वविदां वरिष्ठाः ।
पुनः समेष्यन्ति न संसृतिं ते कोऽर्थः सुताऽन्येन बहूदितेन ॥ १० ॥

हे सुत पुत्रवदनुकम्प्य भरद्वाज मन्दाधिकारिणामपि श्रवणाभ्यासे
अज्ञाननिबर्हणसमर्थत्वात्सुमहानुभावानिमान्मोक्षाभ्युपायान्
गुरुपूर्वश्रवणेन ये ज्ञास्यन्ति ते तत्त्वविदां वरिष्ठाः सन्तः पुनः संसृतिं न
समेष्यन्ति । इयं मम सङ्क्षिप्तपरमरहस्योक्तिः । अन्येन बहुना उदितेन कोऽर्थः किं
प्रयोजनमित्यर्थः ॥ १० ॥

बहुश्रुता ये प्रविचार्य सम्यक्प्रबोधितार्थे कथया जनाय ।
सन्तो वदिष्यन्ति पुनः शिशुत्वं न ते प्रयास्यन्ति किमन्यवाक्यैः ॥ ११ ॥

इदानीं वक्तॄणास्वपि गुरुमुखाद्विचार्यैव सम्प्रदायतोऽर्थं
सम्यग्ज्ञात्वाअन्येभ्यः श्रावयतामेव बोधफलावाप्तिर्नान्येषामिति नियमं
सूचयन्नाह - बहुश्रुता ये इति । अमुं ग्रन्थं ये सन्तो बहुश्रुतानां
गुरूणामग्रे स्वयं सम्यक्प्रविचार्य तत्संवादकथया ग्रन्थे सम्यक्प्रबोधितार्थे
सति पुनः पश्चात्स्वयमपि शुश्रूषवे जनाय सम्प्रदायतो वदिष्यन्ति ते शिशुत्वं
मौर्ख्यं पुनर्जन्म वा न प्रयास्यन्ति । अवश्यं तत्त्वज्ञानफलं
प्राप्स्यन्तीत्यर्थः । अन्यैः सम्प्रदायतोऽनधिगतैर्वाक्यैः श्रुतैः श्रावितैर्वा किम् ।
किं प्रयोजनमित्यर्थः ॥ ११ ॥

ये वाचयिष्यन्त्यनपेक्षितार्था ये लेखयिष्यन्ति च पुस्तकं वा ।
ये कारयिष्यन्त्यपि वाचकं वा व्याख्यातृयुक्तं शुभमार्यदेशे ॥ १२ ॥

इदानीमर्थावगमं विनापि ग्रन्थपारायणस्य पुस्तकलेखनस्य
वाचकवृत्तिकल्पनेन व्याख्यापनस्य च फलमाह - ये वाचयिष्यन्तीति द्वाभ्याम्।
अनपेक्षितार्थाः व्युत्पत्त्यभावादर्थापेक्षारहिता अपि
पारायणदक्षिणाद्रव्यानपेक्षा निर्लोभाश्च ये पुस्तकं वा लेखयिष्यन्ति । ये
वृत्तिकल्पनेन व्याख्यातृपुरुषयुक्तं केवलं वाचकं वा कारयिष्यन्ति ते
सकामाश्चेद्राजसूयस्य यज्ञस्य फलेन युक्ताः सन्तो मुहुर्मुहुः स्वर्गं
प्रयास्यन्ति । उदारसत्त्वा निष्कामास्तूत्तमजन्म सद्गुरुसच्छास्त्रश्रवणादिकं प्राप्य
तृतीयजन्मलाभेन मोक्षं प्रयास्यन्ति । लक्ष्मीमिवेत्युभयत्र दृष्टान्तः ॥ १२ ॥

ते राजसूयस्य फलेन युक्ता मुहुर्मुहुः स्वर्गमुदारसत्त्वाः ।
मोक्षं प्रयास्यन्ति तृतीयजन्मलाभेन लक्ष्मीमिव पुण्यवन्तः ॥ १३ ॥

इमां पुरा मोक्षमयीं विचार्य सुसंहितां सद्वचनाद्विरिञ्चः ।
प्रयुक्तवानेतदचिन्त्यरूपो भवन्त्यसत्याश्च न तस्य [सत्यवाच इति
पाठष्टीकानुगुणः स एव साधुः ।] वाचः ॥ १४ ॥

ईदृशमहाफलत्वमस्य ग्रन्थस्य कुतस्तत्राह - इमामिति । मया क्र्तामिमां
मोक्षमयीं सुसंहितां पुरा पूर्वकाले अचिन्त्यरूपो विरिञ्चः सतां मुनीनां समाजे
आमूलाग्रं स्वयं विचार्य एतद्वाक्यं सर्वान्प्रयुक्तवान् । किमेतत् । सत्यवाचो
वाल्मीकेर्वसिष्ठस्य स्वस्य च वरदानं न ते वागनृता काव्ये काचिदत्र भविष्यति इति
सूचनार्थश्चकारः ॥ १४ ॥

मोक्षाभ्युपायाख्यकथाप्रबन्धे याते समाप्तिं सुधिया प्रयत्नात् ।
सुवेश्म दत्त्वाभिमतान्नपानदानेन विप्राः परिपूजनीयाः ॥ १५ ॥

एतच्छास्त्रसमाप्तौ गृहान्नधनादिदानं विप्रादिभ्योऽवश्यं कर्तव्यमित्याह ##-
॥ १५ ॥

देयं च तेभ्यः खलु दक्षिणादि चित्तेप्सितं स्वस्य धनस्य शक्त्या ।
मत्वानुरूपं कृतमेव सङ्गपुण्यं यथाशास्त्रमुपैत्यसौ तत् ॥ १६ ॥

स्वधनस्य मध्ये तेषां चित्तेप्सिता दक्षिणा यथाशक्त्या देया । असौ कर्ता
तत्स्वकृतमेव् अवश्यं सज्जत इति सङ्गं पुण्यं फलात्मना
यथाशास्त्रमुपैत्येवेति मत्वा विचिन्त्येत्यर्थः ॥ १६ ॥

एतत्ते कथितं कथाक्रमशतैर्वोधाय बुद्धैर्बृहच्छास्त्रं
बृंहितब्रह्मतत्त्वममलं दृष्टान्तयुक्त्याञ्चितम् ।
श्रुत्वैतच्चिरनिर्वृतिं भज भृशं जीवद्विमुक्ताशयो लक्ष्मीं
ज्ञानतपःक्रियाक्रमयुतां भुक्त्वाऽक्षयामक्षयः ॥ १७ ॥

हे भरद्वाज ते तव बुद्धेर्बोधाय कथाक्रमशतैर्बृहितं ब्रह्मतत्त्वं
दृष्टान्तयुक्त्या अञ्चितमेतच्छास्त्रं मया कथितम् । एतच्छ्रुत्वा जीवन्नेव
विमुक्ताशयः सन् लोकानुग्रहाय ज्ञानतपःक्रियाफलयुतां
प्रारब्धभोगसत्कर्मफलभूतां योगज्ञानसिद्ध्यैश्वर्यलक्ष्मीमक्षयां
चिरस्थायिनीं भुक्त्वा सदेहो विदेहश्च चिरनिर्वृतिं नित्यनिरतिशयानन्दरूपां
मुक्तिं भृशं भजेत्याशीरन्ते मङ्गलार्था ॥ १७ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ०
ग्रन्थप्रशंसातद्वाचनादिविधिर्नाम पञ्चदशाधिकद्विशततमः सर्गः ॥ २१५ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
प्रन्थप्रशंसातद्वाचनादिविधिर्नाम पञ्चदशाधिकद्विशततमः सर्गः ॥ २१५ ॥

षोडशाधिकद्विशततमः सर्गः ॥ २१६ ॥

श्रीवाल्मीकिरुवाच ।

एतत्ते कथितं राजन्कुम्भयोनेः सुभाषितम् ।
अमुना तत्त्वमार्गेण तत्पदं प्राप्स्यसि ध्रुवम् ॥ १ ॥

अरिष्टनेमिसुरुचिकारुण्यादिकृतार्थता ।
वर्ण्यतेऽत्र गुरुभ्यश्च शिष्यैरात्मनिवेदनम् ॥

कुम्भयोनेर्वसिष्ठस्यागस्त्यस्य च रामादीन्सुतीक्ष्णं प्रति च सुभाषितम् । अमुना
एतद्ग्रन्थरूपेण ॥ १ ॥

राजोवाच ।

भगवन्भवतो दृष्टिर्भवबन्धविनाशनी ।
आलोकितो यया चाहमुत्तीर्णोऽस्मि भवाम्बुधेः ॥ २ ॥

राजा अरिष्टनेमिरुवाच वाल्मीकिं प्रति । दृष्टिः कृपाकटाक्षः ॥ २ ॥

देवदूत उवाच ।

इत्युक्त्वासौ ततो राजा विस्मयोत्फुल्ललोचनः ।
उवाच वचनं मां तु मधुरं श्लक्ष्णया गिरा ॥ ३ ॥

राजोवाच ।

देवदूत नमस्तुभ्यं कुशलं चास्तु ते विभो ।
सतां साप्तपदं मैत्रमित्युक्तं तत्त्वया कृतम् ॥ ४ ॥

मैत्रं मित्रभावः सप्तभिः पदैरनुगतैर्लभ्यत इति साप्तपदम् । शैषिकोऽण् । इति
यत्सद्भिरुक्तं तत्त्वया सत्यं कृतमित्यर्थः ॥ ४ ॥

इदानीं गच्छ भद्रं ते देवराजनिवेशनम् ।
अनेन श्रवणेनाहं निर्वृतो मुदितोऽपि च ॥ ५ ॥

सर्वतापोपशमेन निर्वृतो निरतिशयानन्दलाभेन मुदितः ॥ ५ ॥

श्रुतार्थं चिन्तयन्नत्र स्थास्यामि विगतज्वरः ।
इत्युक्तोऽहं ततो भद्रे परं विस्मयमागतः ॥ ६ ॥

इति राज्ञा अहमुक्तः संस्तद्विनयादिगुणसम्पदा परं विस्मयमागतः ॥ ६ ॥

न श्रुतं पूर्वमेवैतज्ज्ञानसारं श्रुतं मया ।
तेनैव मुदितश्चान्तः पीतामृत इवाधुना ॥ ७ ॥

स्वस्यापि सत्सङ्गवशेन श्रवणलाभात्कृतार्थता जातेत्याह - न श्रुतमिति ।
पूर्वं कदापि न श्रुतमपूर्वमेवैतज्ज्ञानसारं सत्सङ्गान्मया श्रुतम् ॥ ७ ॥

ततो वाल्मीकिमापृच्छ्य आगतोऽस्मि त्वदन्तिके ।
एतत्ते सर्वमाख्यातं त्वया पृष्टं ममानघे ।
इतः परं गमिष्यामि शक्रस्य सदनं प्रति ॥ ८ ॥

त्वदन्तिके त्वामुपदेष्टुमित्यर्थः । अनघे इति सम्बोधनेन
निष्पापत्वादधिकारसम्पत्तिं त्वयिदृष्ट्वा एतत्सर्वं ते तुभ्यमाख्यातमिति सूचितम्
॥ ८ ॥

अप्सरा उवाच ।

नमोऽस्तु ते महाभाग देवदूत त्वया मम ।
श्रावितादर्थविज्ञानात्परां निर्वृतिमागता ॥ ९ ॥

परां निर्वृतिं सुखविश्रान्तिमागता अहमिति शेषः ॥ ९ ॥

कृतार्था वीतशोकास्मि स्थास्यामि विगतज्वरा ।
इदानीं गच्छ भद्रं ते यथेच्छं शक्रसन्निधौ ॥ १० ॥

अग्निवेश्य उवाच ।

ततः सा सुरुचिः श्रेष्ठा तमेवार्थमचिन्तयत् ।
स्थिता सा हिमवत्पृष्ठे समीपे गन्धमादने ॥ ११ ॥

तमुपदिष्टं ब्रह्मात्मैक्यलक्षणमेवार्थम् ॥ ११ ॥

कच्चिदेतच्छ्रुतं पुत्र वसिष्ठस्योपदेशनम् ।
तत्सर्व्मवधार्याथ यथेच्छसि तथा कुरु ॥ १२ ॥

तत्सर्वमिति । मोक्षस्य कारणं कर्म ज्ञानं वा मोक्षसाधनम् इति त्वदीयसन्देहस्य
तदवधारणे मूलापगमादेवोच्छेदसिद्धेरिति भावः ॥ १२ ॥

कारुण्य उवाच ।

स्मृतिर्वाग्दृष्टिसत्ता च स्वप्ने वन्ध्यासुतेऽजले ।
मरीचिका यथा तद्वज्ज्ञानात्सांसारिकी स्थितिः ॥ १३ ॥

अत एव स्वस्य समूलसर्वसंशयविषयबाधाद्बाधितानुवृत्तिमात्रेण
यथाप्राप्तानुवर्तनमेव जीवन्मुक्तस्य परिशिष्यत इति कारुण्य उवाच -
स्मृतिरित्यादिना । अतीतानागते असन्निकृष्टे च विषये स्मृतिः
परोक्षधीर्वाग्यवहारश्च व्र्तमानविषये दृष्टिसत्ताप्रत्यक्षं च मम साम्प्रतं
तत्त्वज्ञानात्स्वप्ने प्रतीते वन्ध्यासुतविषये यथा निर्विषयास्तथा निर्विषयाः
सम्पन्नाः । सर्वापि च सांसारिकी स्थितिः अजले मरुदेशे मरीचिका तथा तद्वत्सम्पश्चेति
क्वापि विषये न कश्चिदपि सन्देहः परिशिष्ट इत्यर्थः ॥ १३ ॥

मम नास्ति कृतेनार्थो नाकृतेनेह कश्चन ।
यथाप्राप्तेन तिष्ठामि ह्यकर्मणि क आग्रहः ॥ १४ ॥

रामादिवदेव यथाप्राप्तेन वर्णाश्रमोचितव्यवहारेण तिष्ठामि स्थास्यामि ।
अकर्मणि बलात्कर्मत्यागे ॥ १४ ॥

अगस्तिरुवाच ।

इत्युक्त्वा नाम कारुण्य अग्निवेश्यसुतः कृती ।
प्राप्तकर्मा यथान्यायं काले काले ह्युपाहरत् ॥ १५ ॥

प्राप्तकर्मा विवाहेन प्राप्तकर्माधिकारः सन् काले काले यथोचितकाले
स्नानदानाग्निहोत्रातिथिसपर्यादिकर्म उपाहरत् अनुष्ठितवानित्यर्थः । नामेति किलार्थे ॥
१५ ॥

सन्देहोऽत्र न कर्तव्यः सुतीक्ष्ण ज्ञानकर्मणि ।
संशयाद्भ्रश्यते स्वार्थात्संशयात्मा विनश्यति ॥ १६ ॥

हे सुतीक्ष्ण ज्ञानकर्मणि ज्ञानोत्तरं कर्मानुष्ठानविषये कर्म बन्धाय
भविष्यतीति सन्देहो न कर्तव्यः ॥ १६ ॥

एतच्छ्रुत्वा मुनेर्वाक्यमनेकार्थैक्यबोधनम् ।
नमस्कृत्य गुरुं प्राह अन्तिके विनयान्वितः ॥ १७ ॥

अनेकेषां सन्देहविषयविरुद्धानेककोट्यात्मकानां सांसारिकार्थानां
पारमार्थिकब्रह्मतत्त्वात्मना सर्वविरोधत्यागेनैक्यबोधनं
मुनेरगस्त्यस्यैतद्वाक्यं श्रुत्वा । अन्तिके समीपे ॥ १७ ॥

सुतीक्ष्ण उवाच ।

नष्टमज्ञानतत्कार्यं प्राप्तं ज्ञानमनुत्तमम् ।
साक्षिणि स्फुरिताभासे ध्रुवे दीप इव क्रियाः ॥ १८ ॥

यस्मिन् सर्वसाक्षिणि परमात्मनि स्वयञ्ज्योतिष्ट्वादेव नित्यस्फुरिताभासे ध्रुवे निष्क्रिये
स्थिते सति नाट्यशालायां दीपे स्थिते सति तत्प्रकाशमुपजीव्य नटनर्तकादीनां क्रिया
इव सर्वाः स्पन्दमूर्तयश्चित्तेहा लौकिकवैदिकक्रियाः प्रवर्तन्ते । यस्माच्च
कटकादिभेदैः काञ्चनमिव पयसि तरङ्गालीव दृश्यभूः स्फुरति । इदं
जगत्सर्वं तदेव नाणुमात्रमपि तदन्यक्रियाकारकफलादिपृथङ्निरूपयितुं
शक्यत इति निश्चित्य यथा यस्मिन्नाश्रमे प्राप्तस्तद्व्यवहारमनुव्र्ताम्यनुवर्ते ।
छान्दसः पदव्यत्ययः ॥ १८ ॥

सति यस्मिन्प्रवर्तन्ते चित्तेहाः स्पन्दपूर्विकाः ।
कटकाङ्गदकेयूरनूपुरैरिव काञ्चनम् ॥ १९ ॥

पयसीव तरङ्गाली यस्मात्स्फुरति दृश्यभूः ।
तदेवेदं जगत्सर्वं पूर्णे पूर्णं व्यवस्थितम् ॥ २० ॥

यथाप्राप्तोऽनुवर्तामि को लङ्घयति सद्वचः ।
भगवंस्त्वत्प्रसादेन ज्ञातज्ञेयोऽस्मि संस्थितः ॥ २१ ॥

कृतार्थोऽहं नमस्तेऽस्तु दण्डवत्पतितो भुवि ।
गुरोरुत्तीर्णता केन शिष्याणामस्ति कर्मणा ॥ २२ ॥

इदानीं श्रीगुरुकृतस्य परमपुरुषार्थप्रापकज्ञानदानोपकारस्य जगति
प्रत्युपकारोपायमपश्यंस्तच्चरणयोर्नमस्कृत्यात्मानं यावज्जीवं दास्याय
निवेदयति - कृतार्थोऽहमित्यादिना ॥ २२ ॥

कायवाङ्मनसा तस्माच्छिष्यैरात्मनिवेदनम् ।
गुरोरुत्तीर्णता सैव नान्या केनापि कर्मणा ॥ २३ ॥

अन्येन केनापि कर्मणा गुरोरुपकारादुत्तीर्णता न ॥ २३ ॥

स्वामिंस्तव प्रसादेन उत्तीर्णोऽहं भवाम्बुधेः ।
आपूरितजगज्जालं स्थितोस्मि गतसंशयः ॥ २४ ॥

हे स्वामिन् अहं तव प्रसादेन भवाम्बुधेरुत्तीर्णः सन् पूर्णानन्दभावेन
आपूरितजगज्जालं यथा स्यात्तथा स्थितोऽस्मि नात्र संशय इत्यर्थः ॥ २४ ॥

यत्सर्वं खल्विदं ब्रह्म तज्जलानिति च स्फुटम् ।
श्रुत्वा ह्युदीर्यते साम्नि तस्मै ब्रह्मात्मने नमः ॥ २५ ॥

अस्य ग्रन्थस्य सर्वोपनिषत्सारार्थोपबृंहणत्वान्मुमुक्षुभिरादरणीयतमत्वं
सूचयन् सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत इति
छान्दोग्योपनिषत्प्रदर्शितस्फुटतरोपायसहितज्ञानाधिगतसर्वात्मकसच्चिदानन्दाद्
वयब्रह्मतत्त्वमनुसन्धायान्ते मङ्गलार्थ नमस्यति - यत्सर्वमिति । यद्ब्रह्म
साम्नि सामवेदे सर्व खल्विदं ब्रह्म तज्जलानिति श्रुत्या स्फुटमधिकारिणां
करतलामलकवदपरोक्षं यथा भवति तथा परमतात्पर्येणोदीर्यते तस्मै
तद्भावेन परिशिष्टायात्मने प्रत्यक्चिदानन्दघनाय नम इत्यर्थः ॥ २५ ॥

ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिं द्वन्द्वातीतं
गगनसदृशं तत्त्वमस्यादिलक्ष्यम् ।
एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं भावातीतं त्रिगुणरहितं
श्रीवसिष्ठं नताः स्मः ॥ २६ ॥

गजवदनं शुभरदनं सज्जनभरणं समस्तगुणसदनम् ।
सच्चित्सुखसारघनं सदयं हृदये सदा वन्दे ॥ १ ॥

निमज्ज्यान्तर्भक्त्यामृतरसवसिष्ठोक्तिजलधौ सद्र्था उन्नीता इह
गुरुकटाक्षात्कतिपये ।
विचिन्वानो ह्यन्तर्जलधिजठरं को नु कलयेदियत्तां रत्नानां प्रचुरतरयत्नैरपि
कृती ॥ २ ॥

निरुपमनिजविस्तारं निःसंसारं नितान्तगम्भीरम् ।
नित्यसुखामृतपूरं पारावारं परं स्वमेव भजे ॥ ३ ॥

ऋतुरसतुरगमही १७६६ शकविकारिशुभवत्सरस्य शिशिरर्तोः ।
फाल्गुनसितसप्तम्यां भृगुरौहिणवृषभलग्नके सिद्धम् ॥ ४ ॥

वाक्यपुष्पाञ्जलिः सोऽयं मया भक्त्या समर्पितः ।
धियः प्रेरकयोः श्रीमच्छिवयोः श्रीपदाब्जयोः ॥ ५ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मोक्षोपायेषु
निर्वाणप्रकरणे उत्तरार्धे बालकाण्डे द्वात्रिंशच्छतसाहस्र्यां संहितायां
षोडशाधिकद्विशततमः सर्गः ॥ २१६ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
षोडशाधिकद्विशततमः सर्गः ॥ २१६ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यवर्यश्रीमत्सर्वज्ञसरस्वतीपूज्यपादशिष्य##-
शिष्येण श्रीमदानन्दबोधेन्द्रसरस्वत्याख्यभिक्षुणा विरचितः
श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशः सम्पूर्णः ॥

समाप्तमिदं निर्वाणप्रकरणम् ।

॥ समाप्तोऽयं ग्रन्थः ॥