२१४

चतुर्दशाधिकद्विशततमः सर्गः २१४

श्रीवाल्मीकिरुवाच ।

इत्युक्तवत्यथ मुनौ नभसो ननाद वर्षामृताभ्रमिव दुन्दुभिरामरो द्राक् ।
शुक्लिकृताखिलककुब्वदना तुषारव्र्षोपमा भुवि पपात च पुष्पवृष्टिः ॥ १॥

उपदेशप्रशंसात्र श्रोतॄणां कृतकृत्यता ।
दिव्यश्च मानुषश्चान्ते वर्ण्यते सुमहोत्सवः ॥

महतः शास्त्रस्यान्ते देवैर्मनुष्यैश्च कृतं
गुरुद्विजसुरपितृसज्जनपूजनमहोत्स्वलक्षणं मङ्गलं वर्णयिष्यन्वाल्मीकिरुवाच

  • इतीत्यादिना । मुनौ वसिष्ठे इति वाक्यमुक्तवति सति अथ आमरः अमरसम्बन्धी
    दुन्दुभिर्वर्षार्थममृतेन पूर्णमभ्रमिव ननाद । द्राक् सद्यः
    शुक्लीकृतान्यखिलानि ककुब्वदनानि दिङ्मुखानि यया अत एव तुषारवर्षोपमा
    पुष्पवृष्टिश्च भुवि पपात ॥ १ ॥

किञ्जल्कजालदिवसान्तघनाङ्गरागा वातावधूतसितकेसरगौरहारा ।
पुष्पोदरोत्थमृदुसीकरशीतलाङ्गा प्राप्ता स्वयं सुरपुरादिव पुण्यलक्ष्मीः
॥ २ ॥

सा च पुष्पवृष्टिः किञ्जल्कजालान्येव दिवसान्तघना इव शोणः अङ्गरागो यस्याः ।
तथा पुष्पोदरोत्था मृदवः सीकरा एव शीतलान्यङ्गानि यस्याः । वातावधृताः
सिताः केसरा एव गौरा हाराः यस्यास्तथाविधा । सुरपुरात्स्वयमेवोत्सवदर्शनाय
भुवं प्राप्ता पुण्यलक्ष्मीरिव स्थितेत्युत्प्रेक्षा ॥ २ ॥

कल्पान्तकालकपिकम्पितशुष्कशाखात्स्वर्गद्रुमात्पतितमाशु विडम्बयन्ती ।
तारागणं प्रथितभासमनल्पहासमाशामुखप्रसृतभैरवमम्बरस्था ॥
३ ॥

पुनः कीदृशी सा पुष्पवृष्टिः । कल्पान्तकाललक्षणो यः कपिर्मर्कटस्तेन
कम्पिताः शुष्काः कल्पद्रुमशाखा दिक्पालपुरलोकभेदरूपशाखाश्च यस्य
तथाविधात्स्व्र्गरूपाद्द्रुमादाशु पतितं आशामुखेषु झटिति पातनाय प्रसृतो
भैरवः संहाररुद्रो यस्य तथाविधं प्रथितभासं तारागणमम्बरस्था
सतीत्यनल्पहासं यथा स्यात्तथा विडम्बयन्ती तारागणप्रथितहासं भैरवं च
विडम्बयन्तीति वा उत्प्रेक्षा ॥ ३ ॥

सा पुष्पवृष्टिरथ दुन्दुभिनादगर्जत्किञ्जल्कपुञ्जजलदा शममाजगाम ।
आपूरिताखिलसभा हिमहारिपुष्पपूरेण कौतुकविकासकरीक्षणेन ॥ ४ ॥

दुन्दुभिनादैर्गर्जन् किञ्जल्कपुञ्जलक्षणो जलदो मेघो यस्यास्तथाविधा हिमवत्
हारिणा मनोहरणपुष्पपूरेण पुष्पप्रवाहेण आपूरिता अखिला सभा यया तथाविधा
अत एव ईक्षणेन दर्शनेन कौतुकविकासस्य आनन्दविस्तारस्य करी सा पुष्पवृष्टिः अथ
शममाजगाम । ईक्षणेन द्रष्ट्टजननेत्रेण सह कौतुकविकासकरीति वा क्षणेन
शममाजगामेति वा योज्यम् ॥ ४ ॥

तानि दिव्यानि पुष्पाणि यथास्थानमधःस्थिताः ।
वसिष्ठाय नमस्कृत्वा सभ्याः संशोकितां जहुः ॥ ५ ॥

यथास्थानमिति । सर्वोन्नतस्थाने वसिष्ठस्तत्सन्निहिते मुनयस्तत्सन्निहिते
दशरथरामादयस्तत्सन्निहिते मन्त्रिसामन्तास्तदर्वाङ् नैगमाः प्रजाश्चेत्येवं
क्रमेणाधःस्थिताः सभ्यास्तानि दिव्यानि पुष्पाण्युपादाय वसिष्ठचरणे
पुष्पाञ्जलिं दत्वा वसिष्ठाय नमस्कृत्य
पुष्पसौरभशैत्यादिसम्पर्कात्स्वेददौर्गन्ध्यादिसंशोकितां
रोगक्षुत्तृषाश्रमादिप्रयुक्तशोकवत्तां जन्ममरणादिसर्वशोकवत्तां च
जहुस्तत्यजुः ॥ ५ ॥

दशरथ उवाच ।

अहोऽनुसुविशात्मानः संसारवितताकृतेः ।
विश्रान्ताः स्मश्चिरं श्रान्ताः शुद्धा मेघा इवाचले ॥ ६ ॥

संसारलक्षणाद्वितताकृतेरतिदीर्घात्कान्ताराच्चिरं श्रान्ता वयं
त्वदनुग्रहोपदेशात् सुविशः सुखेन प्रवेष्टुं शक्य आत्मा येषां तथाविधाः
सन्तस्तस्मिन्नेवात्मनि चिरं विश्रान्ताः स्मः । अहो इत्याश्चर्ये । यथा शुद्धा
जाड्यकार्ष्ण्मनिर्मुक्ताः शरन्मेघा अचले हिमवदादौ विश्राम्यन्ति तद्वत् ॥ ६ ॥

कर्मणामवधिः पूर्णो दृष्टः सीमान्त आपदाम् ।
ज्ञातं ज्ञेयमशेषेण विश्रान्ताः स्मः परे पदे ॥ ७ ॥

किञ्चास्माकं कर्मणां पुरुषार्थसिद्धये अवश्यकर्तव्यानामवधिः पूर्णः ।
कृतकृत्यतासम्पन्न इत्यर्थः । आपदां च सीमान्तः परमावधिर्दृष्टः ।
तत्कुतस्तत्राह - ज्ञातमिति ॥ ७ ॥

ध्यानलब्धपरव्योमचिरानुभवनभ्रमैः ।
धारणाधारविश्रान्त्या देहसन्त्यजनक्रमैः ॥ ८ ॥

सर्वेषां तृतीयान्तपदानां षष्ठश्लोके एवमादिभिरन्यैश्च
दृष्टान्तैर्दृश्यदृष्टिर्मार्जितेत्यत्रान्वयः । ध्यानेन लब्धं कल्पितं
परमन्यद्व्योम तत्र चिरं विहाराद्यनुभवनभ्रमैर्लीलोपाख्यानादौ प्रदर्शितैः
धारणया सर्वाधारे ब्रह्मणि विश्रान्त्या देहसन्त्यजनक्रमोऽपि लीलाया वर्णित एव ॥ ८

सङ्कल्पनवनिर्माणैः स्वप्नदृष्टिजगज्ज्वरैः ।
शुक्तिरूप्यानुभवनैः स्वप्नात्ममृतिदर्शनैः ॥ ९ ॥

स्वप्ने आत्मनः स्वस्य मृतिदर्शनैर्हरिश्चन्द्रादौ प्रसिद्धैः ॥ ९ ॥

अनन्यैः पवनस्पन्दैरनन्यैः सलिलद्रवैः ।
इन्द्रजालपुरापूरैर्गन्धर्वनगरोत्करैः ॥ १० ॥

मायापूर्णपुराभोगैर्मृगतृष्णानदीरयैः [मूलपाठे
ह्रस्वत्वमार्षं पुराबोगैरिति वा पाठः साधुः ।] ।
आयतौ पवनस्पर्शैर्द्विचन्द्रानुभवोदयैः ॥ ११ ॥

मायया प्रदर्शितजलपूर्णपूराभोगैः । आयतौ सर्वोत्तरकाले प्रलये
वर्णितैश्चण्डपवनस्पर्शैः ॥ ११ ॥

मदभ्रंशपुरस्पन्दैर्मुधा त्ववनिकम्पनैः ।
बालयक्षाद्यनुभवैः खकेशोण्ड्रकदर्शनैः ॥ १२ ॥

मदाद्विवेकभ्रंशे प्रतीयमानैः पुरस्पन्दैः । मुधा उत्पातादिना
शुभाशुभसूचनं विनैव भ्रान्त्या प्रतीतैरवनिकम्पनैः । खे
केशोण्ड्रकदर्शनैः ॥ १२ ॥

एवमादिभ्रन्यैश्च दृष्टान्तैः स्वानुभूतिदैः ।
अहो नु मार्जिता दृश्यदृष्टिर्भगवता मम ॥ १३ ॥

श्रीराम उवाच ।

नष्टो मोहः पदं प्राप्तं त्वत्प्रसादान्मुनीश्वर ।
सम्पन्नोऽहमहं सत्यमत्यन्तमवदातधीः ॥ १४ ॥

सत्यं ब्रह्मैव सम्पन्नः ॥ १४ ॥

स्थितोऽस्मि गतसन्देहः स्वभावे ब्रह्मरूपिणि ।
निरावरणविज्ञानः करिष्ये वचनं तव ॥ १५ ॥

स्मृत्वा स्मृत्वाऽमृतासेकसौख्यदं वचनं तव ।
अर्हितोऽपि च शान्तोपि हृष्यामीव मुहुर्मुहुः ॥ १६ ॥

अर्हितः पूजितः । अपि चेत्यनेनापमानितश्च समदर्शनेन
हर्षविषादानुदयाच्छान्तोऽप्यहं हृष्यामीव ॥ १६ ॥

नैव मेऽद्य कृतेनार्थो नाकृतेनेह कश्चन ।
यथा स्थितोऽस्मि तिष्ठामि तथैव विगतज्वरः ॥ १७ ॥

यथा पूर्वं व्यवहारे स्थितोऽस्मि तथैव साम्प्रतं तिष्ठामि । विगतज्वरो
व्यवहारप्रसक्तसन्तापशून्यः ॥ १७ ॥

उपायस्तु तथा तेन दृष्टिर्वास्तीह कीदृशी ।
अहो नु वितता भूमिः कष्टमेतादृशी दशा ॥ १८ ॥

तेन त्वद्वचनेन यादृशो विश्रान्त्युपायो लब्धस्तथा उपायस्तु कोऽन्यः
स्याद्दृष्टिर्वा अन्या कीदृशी स्यात् । अहो नु वितता अपरिच्छिन्ना
विश्रान्तिसुखभूमिर्मया आसादिता एतादृशी
जन्ममरणाद्यन्तानर्थसङ्कुलसंसारदशा अहो नु कष्टं प्राणिनामित्यर्थः ॥ १८ ॥

न शत्रुर्न च मित्रं मे न क्षेत्रं दुर्जनो जनः ।
दुर्बोधैषा जगत्क्षुब्धा शान्ता सर्वार्थसुन्दरी ॥ १९ ॥

मम् तु दुःखनिमित्तानि कान्यपि न सन्तीत्याह - न शत्रुरिति । क्षेत्रं शरीरं
बाह्यं च । जनः सुजनः । एषा स्वात्मचिदेव यावद्दुर्बोधा तावत्क्षुब्धा दुःखदा
जगदभूत् इदानीं तु बाधात् शान्ता सर्वार्थसुन्दरी सम्पन्नेत्यर्थः ॥ १९ ॥

कथमेतां जनो वेत्ति विना भवदनुग्रहम् ।
विनैव सेतुं पोतं वा बालोऽब्धिं लङ्घयेत्कथम् ॥ २० ॥

हे भगवन् त्वदनुग्रहं विना एतां दृष्टिं जनः कथं वेत्ति ॥ २० ॥

लक्ष्मण उवाच ।

जन्मान्तरोपचितसंशयनाशनेन जन्मान्तरोपचितपुण्यशतोदितेन ।
जातोऽद्य मे मुनिवचःपरिबोधनेन जातोऽद्य मे मनसि चन्द्र इव प्रकाशः ॥ २१ ॥

जन्मान्तरेष्वनन्तजन्मसूपचितदुर्वासनाप्रयुक्तसंशयानां नाशनेन तथा
जन्मान्तरोपचितानां पुण्यशतानामुदयो बोधफलोन्मुखता येन
तथाविधेनमुनिवचःकृतेन प्रतिबोधनेन जातो विचारोद्यमो यस्मिंस्तथाविधे मे
मनसि अद्य चन्द्र इव परमाह्लादकारी परमात्मप्रकाशो जात इत्यर्थः ॥ २१ ॥

ईदृश्यां दृश्यमानायां दृशि दोषदशाशतैः ।
काष्ठवद्दह्यते लोकः स्वदुर्भगतया तया ॥ २२ ॥

ईदृश्यां निरतिशयानन्दप्रकाशरूपायामात्मदृशि
भवादृशमहानुभावोपदेशान्नित्यापरोक्षतया दृश्यमानायामप्ययं लोको
जनस्तया प्रसिद्धया स्वदुर्भगतया दौर्भाग्यवशेन महत्सेवाशुश्रूषादिहीनः
सन् रागद्वेषाहङ्कारजन्ममरणादिदोषदशाशतैः काष्ठवद्दिवानिशं दह्यते
तदाश्चर्यमित्यर्थः ॥ २२ ॥

विश्वामित्र उवाच ।

अहो बत महत्पुण्यं श्रुतं ज्ञानं मुनेर्मुखात् ।
येन गङ्गासहस्रेण स्नाता इव वयं स्थिताः ॥ २३ ॥

बतेति हर्षे । साम नो बतेतिवत् ॥ २३ ॥

श्रीराम उवाच ।

सम्पदामथ दृष्टीनां शास्त्राणामापदां गिराम् ।
देशानामथ दृष्टानां दृष्टः सीमान्त उत्तमः ॥ २४ ॥

सम्पदामुत्कर्षे सीमान्त आत्मा निरतिशयानन्दरूपत्वात् । दृष्टीनां सीमान्त
आत्मदृष्टिः एकविज्ञानेन सर्वविज्ञानात् । शास्त्राणां सीमान्तोऽध्यात्मशास्त्रं
चरमप्रमाणत्वात् । पशुपुत्रधनादिनाशलक्षणानामापदां सर्वसंसारनाशः
सीमान्तो यदुत्तरमन्यो नाशो नास्ति । काव्यरसालङ्कारादिशादिनीनां गिरां
वसिष्ठोक्तिः सीमान्तः । दृष्टानां सुखविश्रान्तिहेतूनां
प्रासादारामगिरिनदीपुलिनादिदेशानां परमात्मदेशः
परमविश्रान्तिहेतुत्वात्सीमान्तो दृष्ट इत्यर्थः । सर्वत्र परमात्मैव वा
परमसीमान्त इत्यर्थः ॥ २४ ॥

नारद उवाच ।

यन्न श्रुतं ब्रह्मलोके स्वर्गे भूमितले तथा ।
कर्णौ तज्ज्ञानमाकर्ण्य यातौ मेऽद्य पवित्रताम् ॥ २५ ॥

लक्ष्मण उवाच ।

हार्दं बाह्यं च तिमिरमपमृष्टवता त्वया ।
मुने परमभानुत्वं नूनं नः सम्प्रदर्शितम् ॥ २६ ॥

परमं प्रसिद्धभान्वपेक्षया उत्कृष्टं भानुत्वम् ॥ २६ ॥

शत्रुघ्न उवाच ।

निर्वृतोऽस्मि प्रशान्तोऽस्मि प्राप्तोस्मि परमं पदम् ।
चिराय परिपूर्णोऽस्मि सुखमासे च केवलम् ॥ २७ ॥

दशरथ उवाच ।

बहुजन्मोपलब्धेन पुण्येनायं मुनीश्वरः ।
धीरः कथितवान्नस्तद्येन पावनतां गताः ॥ २८ ॥

नः अस्मभ्यं तत्परमपावनं वस्तु शास्त्रं वा कथितवान् । येन पावनतां गता
वयमिति शेषः ॥ २८ ॥

श्रीवाल्मीकिरुवाच ।

इति तेषु वदत्स्वत्र सभ्येषु सह भूभृता ।
वसिष्ठः स उवाचेदं ज्ञानपावनया गिरा ॥ २९ ॥

राजन् रघुकुलैकेन्दो यदहं वच्मि तत्कुरु ।
इतिहासकथान्ते हि पूजनीया द्विजातयः ॥ ३० ॥

इदानीं श्रीवसिष्ठो मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि शास्त्राणि
प्रथन्ते वीरपुरुषकाण्यायुष्मत्पुरुषकाणि च भवन्ति अध्येतारश्च मङ्गलयुक्ता
यथा स्युः इति महाभाष्ये भगवत्पतञ्जलिनोदाहृतां श्रुतिमनुसृत्य निर्विघ्नं
समाप्तस्य महतः शास्त्रोक्तफलसिद्धये
ब्राह्मणदेवपितृसुजनपूजोत्सवादिमङ्गलमौचित्यज्ञापनमुखेनाज्ञापयति ##-

तदद्य ब्राह्मणौघांस्त्वं सर्वकामैः प्रपूरय ।
वेदार्थसमनुष्ठानफलं प्राप्स्यसि शाश्वतम् ॥ ३१ ॥

वेदार्थः प्रकृते श्रवणविध्यर्थस्तस्य सम्यगनुष्ठानं साङ्गतया
निष्पादनम् । श्रवणविधेः काम्यविधितया साङ्गानुष्ठानादेव फलसिद्धेरिति
भावः ॥ ३१ ॥

मोक्षोपायकथावस्तुसमाप्तौ द्विजपूजनम् ।
शक्तितः कीटकेनापि कार्यं किमु महीभृता ॥ ३२ ॥

कीटकेन कीटकवदनादरार्हेण दरिद्रेणापि कार्यमित्यर्थः ॥ ३२ ॥

इति मौनं वचः श्रुत्वा सहस्राणि नृपो दश ।
दूतैराकारयामास द्विजानां वेदवादिनाम् ॥ ३३ ॥

मुनिना प्रोक्तं मौनं वचः । गुर्वाज्ञायाः शिरसा धारणीयत्वान्मौनं निरुत्तरं
यथा स्यात्तथा श्रुत्वेति वा ॥ ३३ ॥

मथुरायां सुराष्ट्रेषु गौडेषु च वसन्ति ये ।
तेभ्यः कुलेभ्यः सोऽभ्यर्च्य समानीय द्विजन्मनाम् ॥ ३४ ॥

कुलेभ्यः कुलश्रेष्ठेभ्यः पृथक्पृथक्समुदितेभ्यश्च ॥ ३४ ॥

अधिकात्यधिकज्ञानप्रकृतद्विजभोजनः ।
तदा दशसहस्राणि भोजयामास भूपतिः ॥ ३५ ॥

अधिकेभ्योऽप्यत्यधिकं ज्ञानं येषां तत्प्रकृतं तानुप्रक्रम्य प्रवृत्तं
द्विजभोजनं येन ॥ ३५ ॥

यथाभिमतभोज्यान्नदानदक्षिणया तया ।
एवं सम्पूज्य तान्विप्रान्पितृन्देवान्नृपांस्तथा ॥ ३६ ॥

पितॄन् श्राद्धादिना । देवान्माल्यमोदकोपहारादिना इष्ट्यादिना च ।
नृपान्यानरत्नादिना ॥ ३६ ॥

पौरामात्यांस्तथा भृत्यान्दीनान्धकृपणांश्च तान् ।
तस्मिन्दशरथो राजा दिने सह सुहृज्जनैः ॥ ३७ ॥

सुहृज्जनैः सह उत्सवं चकारेत्युत्तरत्रान्वयः ॥ ३७ ॥

लब्धसंसृतिसीमान्तश्चकारोत्सवमुत्तमम् ।
तथा नृपगृहे तस्मिन्कौशेयमणिकाञ्चने ॥ ३८ ॥

लब्धः संसृतिसीमान्तो येन । अत्रापि सह सुहृज्जनैरिति योजनीयम् ॥ ३८ ॥

भूषिते नगरे चैव गीर्वाणनगसुन्दरे ।
ननृतुर्मत्तकामिन्यो विलासिन्यो गृहे गृहे ॥ ३९ ॥

गीर्वाणनगो मेरुः कल्पद्रुमश्च तद्वत्सुन्दरे ॥ ३९ ॥

लसद्वंशलताकांस्यवीणामुरजमर्दलम् ।
ताण्डवेनोद्धतारावमन्योन्येतरशेखराः ॥ ४० ॥

वंशलतात्र मुरली । क्रियाविशेषणे द्वे । ता नर्तकीर्वर्णयति - अन्योन्येत्यादिना ।
अन्योन्येतरं परस्परविलक्षणं यथा स्यात्तथा चिकुरबन्धनालङ्कारभेदादिना
रचिताः शेखरा यासाम् ॥ ४० ॥

क्षुब्धीकृतापणकरभ्रान्तिपल्लविताम्बराः ।
मुग्धाट्टहासविक्षिप्तदन्तेन्दुकिरणच्छटाः ॥ ४१ ॥

क्षुब्धीकृतानामितस्ततश्चालितानामापणानां विविधाभिनयव्यवहारवतां
कराणां भ्रान्तिभिः परितः पल्लवितमिवाम्बरमाकाशं वस्त्रं च यासाम् ।
हास्यरसाभिनये मुग्धैरट्टहासैर्विक्षिप्ताः परितः प्रक्षिप्ता दन्तेन्दुकिरणच्छटा
याभिः ॥ ४१ ॥

मदाकुलितहुङ्कारा लीलासु तरलस्वराः ।
एकपादतलाघातहेलाहतधरातलाः ॥ ४२ ॥

वीररसाभिनये मदाकलितहुङ्काराः । करुणाद्भुतादिरसाभिनयलीलासु तरलस्वराः ।
शृङ्गारमानाद्यभिनये एकपादतलाघातेन हेलया हतं ताडितं धरातलं
याभिस्ताः ॥ ४२ ॥

स्रग्दामतारविगलत्कुसुमासारपाण्डुराः ।
धारापातितविच्छिन्नहारमुक्तास्खलत्पदाः ॥ ४३ ॥

शृङ्गारकोपाद्यभिनये स्रग्दामविधूननेन तारैर्नक्षत्रैरिव विगलद्भिः
कुसुमासारैः पाण्डुरा जलधारा इव पातिता ये विच्छन्ना हारास्तेषु दैवात्पदन्यासैः
स्खलत्पदाः ॥ ४३ ॥

लोलाभरणसाकारं कामं ननृतुरङ्गनाः ।
पेठुः स्फुटपदं विप्रा बन्दिनोऽप्यङ्गनाश्च ताः ॥ ४४ ॥

लोलैराभरणैः साकारं कामं दर्शयन्त्य इवेति शेषः । साकारं
कृत्रिमाकारसहितं यथा स्यात्तथा कामं यथेच्छं ननृतुरिति वा ।
पेठुर्यथाक्रमं वेदस्तवगीतानि ॥ ४४ ॥

पपुरुत्ताण्डवं पानं पानपा मदशालिनः ।
भोज्यं बुभुजिरे चित्रं भूषिता भोजनार्थिनः ॥ ४५ ॥

तेषु पानपा अविप्राः पानं मध्वासवं पपुः । विप्रादयस्तु भोजनार्थिनो भोज्यं
भोजनार्हं चित्रं नानाभक्ष्यादिवैचित्र्ययुक्तं चतुर्विधमन्नं बुभुजिरे ॥ ४५ ॥

सुधादिपरिलेपेन रञ्जिता गृहभित्तयः ।
रेजू रामेन्दुभानेन पुष्पधूपविलेपनैः ॥ ४६ ॥

रामलक्षणस्येन्दोर्भानेन देहप्रभाचन्द्रिकया पुष्पधूपविलेपनैश्च रेजुः ॥ ४६ ॥

वासांसि वसिन्ताश्चित्राण्युत्तमस्रग्विभूषणाः ।
चेरुः परिचराश्चेट्यश्चारुगन्धा नृपाध्वरे ॥ ४७ ॥

नृपस्य अध्वरे उत्सवयज्ञे ॥ ४७ ॥

देहयष्टिषु संयोज्य वनिता यक्षकर्दमम् ।
जग्मुस्ताण्डवनर्तक्यः शृङ्गारात्माङ्गणान्तरम् ॥ ४८ ॥

कर्पूराकुरुकस्तूरीकङ्कोलैः समं घृष्टं चन्दनं यक्षकर्दमस्तं
देहयष्टिषु संयोज्य विलिप्य ताण्डवनर्तक्यो वनिताः शृङ्गारात्म
अलङ्कृतमङ्गणान्तरं राजसभाङ्गणमध्यं जग्मुः ॥ ४८ ॥

भवबहुलनिशावसानहर्षादिति घनमुत्सवमेव सप्तरात्रम् ।
दशरथनृपतिः सदानभोगश्रियमकरोत्पदमक्षयं समेतः ॥ ४९ ॥

दशरथनृपतिः अक्षयं ब्रह्मपदं प्रपन्नः सन् भवः संसारस्तल्लक्षणा या
बहुलनिशा कृष्णपक्षरात्रिस्तस्य अवसानं बोधसूर्योदयेन नाशस्तत्प्रयुक्तात्
हर्षात् सप्तरात्रं इति वर्णितप्रकारं सदानभोगश्रियं दानभोगशोभासहितं
घनमुपचितमुत्सवमेवाकरोत् ॥ ४९ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० नि० उ० महोत्सववर्णनं नाम
चतुर्दशाधिकद्विशततमः सर्गः ॥ २१४ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
महोत्सववर्णनं नाम चतुर्दशाधिकद्विशततमः सर्गः ॥ २१४ ॥