त्रयोदशाधिकद्विशततमः सर्गः २१३
श्रीवसिष्ठ उवाच ।
यथा यत्पृष्टवानद्य त्वं मामरिनिषूदन ।
शिष्येणैव सता पूर्वमहं पृष्टो गुरुस्त्वया ॥ १ ॥
वर्ण्यते पूर्वसंवाद इह रामवसिष्ठयोः ।
गुरुशिष्याख्यायिकया सर्वं ब्रह्मेति निश्चितः ॥
विस्तरेणोपदेशात्करतलामलकवत्साक्षात्कारितमप्यात्मतत्त्वं रामस्य
जन्मान्तरीयस्वोपदिष्टार्थ एव ते पुनरुपदिष्ट इति स्मारणेन स्थूणानिखननन्यायेन
दृढीचिकीर्षुर्भगवान्वसिष्ठः सर्वजगदुपकाराय सर्वशास्त्रार्थसङ्ग्रहरूपां
गुरुशिष्याख्यायिकां शास्त्रान्ते परममङ्गलरूपामुपदेष्टुमारभते -
यथेत्यादिना । हे राम त्वमद्य मां प्रति यज्जगत्तत्त्वमात्मतत्त्वं च यथा
पृष्टवांस्तथा पूर्वमन्यस्मिन् रामजन्मन्यपि अहं गुरुः शिष्येणैव सता त्वया
पृष्टः ॥ १ ॥
पुराकल्पे हि कस्मिंश्चित्तत्त्वमात्मादिकात्मिका ।
आसीदित्यं चित्प्रतिभा गुरुशिष्यात्मना वने ॥ २ ॥
सङ्क्षिप्योक्तं विस्तरेणाह - पुरेति । तज्जगत्तत्र त्वं रामः आत्मा अहं वसिष्ठः
आदिपदात्तव निर्वेदो मदभिगमनं प्रश्नश्चेत्येवमादिका इयं चित्प्रतिभा
कस्मिंश्चिद्वने गुरुशिष्यात्मना इदानीमिव आसीदित्यर्थः ॥ २ ॥
गुरुस्तत्राहमभवं शिष्यस्त्वमभवस्तदा ।
पृष्टवान्मां त्वमग्रस्थ इदमुद्दामधीरधीः ॥ ३ ॥
इदं वक्ष्यमाणं पृष्टवानसि ॥ ३ ॥
शिष्य उवाच ।
सर्वस्य भगवञ्छिन्दि ममेममतिसंशयम् ।
किं नश्यति महाकल्पे किं वस्तु न विनश्यति ॥ ४ ॥
सर्वस्य जगतो विषये ममेममुच्यमानमतिशयितं संशयमतिसंशयम् ॥ ४ ॥
गुरुरुवाच ।
पुत्र शेषमशेषेण दृश्यमाशु विनश्यति ।
यथा तथा स्वप्नपुरं सौषुप्तीं स्थितिमीयुषः ॥ ५ ॥
हे पुत्र यथा स्वप्नपुरं सौषुप्तीं स्थितिमीयुष आत्मनस्तन्मात्रशेषमशेषेण
विनश्यति तथा जगद्दृश्यमपि प्रलये विनश्यतीत्यर्थः ॥ ५ ॥
निर्विशेषेण नश्यन्ति भुवः शैला दिशो दश ।
क्रिया कालः क्रमश्चैव न किञ्चिदवशिष्यते ॥ ६ ॥
नश्यन्ति सर्वभूतानि व्योमापि परिणश्यति ।
स सर्वजगदाभासमुपलब्धुरसम्भवात् ॥ ७ ॥
सर्वजगदाभाससहितं व्योमाप्यव्याकृते लयात्परिणश्यति उपलभ्यस्य भोग्यस्य
भोक्त्रधीनस्थितिकत्वात्प्रलयकाले उपलब्धुर्भोक्तुरसम्भवात् ॥ ७ ॥
ब्रह्मविष्ण्विन्द्ररुद्राद्या ये हि कारणकारणम् ।
तेषामप्यतिकल्पान्ते नामापीह न विदय्ते ॥ ८ ॥
ब्रह्मादय एव तदा तद्भोक्तारः स्थास्यन्तीत्याशङ्कावारणायाह - ब्रह्मेति ।
अतिशयिते कल्पान्ते प्राकृते वैज्ञानिके च प्रलये ॥ ८ ॥
शिष्यते हि चिदाकाशमव्ययस्यानुमीयते ।
तत्कालशेषतानेन सर्गानुभवहेतुना ॥ ९ ॥
आत्मशेषं विनश्यतीति यदुक्तं तदुपपादयति - शिष्यते हीति । अव्ययस्य चिद्वस्तुनो
विवर्ते नष्टे चिदाकाशं शिष्यते इत्यनुमीयते । हि
यस्मात्कारणात्स्वाध्यस्तसर्गानुभवहेतुना अनेन चिदात्मनैव
सर्वप्रपञ्चशून्यतत्कालशेषता सिद्ध्यति । तस्यापि नाशे निःसाक्षिकः प्रलय एव न
सिद्ध्येदित्यर्थः ॥ ९ ॥
शिष्य उवाच ।
नासतो विद्यते भावो नाभावो विद्यते सतः ।
इदं तत्कथमाभोगि विद्यमानं क्व गच्छति ॥ १० ॥
सतो जगतः असत्तालक्षणो नाश एव न सिद्ध्यतीति शिष्यः शङ्कते - नासत इति ॥ १० ॥
गुरुरुवाच ।
न विनश्यत एवेदं ततः पुत्र न विद्यते ।
नासतो विद्यते भावो नाभावो विद्यते सतः ॥ ११ ॥
श्रुतिप्रत्यक्षानुमानस्मृत्यादिसिद्धो जगतो नाशो नापह्नोतुं शक्य इति तद्बलेन
सत्यमेवापातदर्शनप्रसक्तमपह्नूयत इति न दोष इत्याशयेन गुरुः समाधत्ते ##-
नाशप्रसिद्धेः अतो न विद्यत एवेत्यसतोऽस्य भावो नास्तीत्यनुकूलमेतत्त्वयोक्तमित्यर्थः
॥ ११ ॥
यत्तु वस्तुत एवास्ति न कदाचन किञ्चन ।
तदभावात्म तद्राम कथं नाम विनश्यति ॥ १२ ॥
यद्वस्तुतोऽस्त्येव तत्किञ्चन अभावात्म असत् न । तद्भावः सद्भावः कथं नाम
विनश्यत्यसत्त्वमापद्यते ॥ १२ ॥
क्व स्थितं मृगतृष्णाम्बु क्व स्थिरो द्वीन्दुविभ्रमः ।
क्व स्थिरा केशदृग्व्योम्नि क्व भ्रान्त्यनुभवः स्थिरः ॥ १३ ॥
आपातदर्शनमात्रेण जगतः सत्ता नावधारयितुं शक्या । बहूनां तथा
दृष्टानां सत्त्वादर्शनादित्याह - क्वेति । स्थिरः अर्थप्रतिष्ठः ॥ १३ ॥
सर्वं दृश्यमिदं पुत्र भ्रान्तिमात्रमसन्मयम् ।
स्वप्ने पुरमिवाभाति कथमेतन्न शाम्यति ॥ १४ ॥
शाम्यतीदमशेषेण तथा सर्वत्र सर्वदा ।
यथा जाग्रद्विधौ स्वप्नः स्वप्ने वा जागरो यथा ॥ १५ ॥
बाध्यत्वसाधने जाग्रत्स्वप्नयोः परस्परं दृष्टान्तभावः प्रसिद्ध इत्याह -
शाम्यतीति ॥ १५ ॥
यथा स्वप्नपुरं शान्तं न जाने क्वाशु गच्छति ।
शान्तं तथा जगद्दृश्यं न जाने क्वाशु गच्छति ॥ १६ ॥
बाधितुं तु क्व गच्छति क्व तिष्ठतिति योगिभिरप्यदर्शनादसत्त्वमेव तस्य
शरणमित्याशयेनाह - यथेति ॥ १६ ॥
शिष्य उवाच ।
किमिदं भाति भगवन्न विभाति च किं पुनः ।
कस्येदं वस्तुनो रूपं चिद्व्योम्नो वितताकृतेः ॥ ७ ॥
यदि नास्त्येव दृश्यं तर्हि दृश्यवेषेण कञ्चित्कालं परमार्थतः किं वस्तु
भाति तदेव बोधोत्तरं पुनस्तथा न विभाति च किमर्थमित्यर्थः ॥ १७ ॥
गुरुरुवाच ।
चिदाकाशमिदं पुत्र स्वच्छं कचकचायते ।
यन्नाम तज्जगद्भाति जगदन्यन्न विद्यते ॥ १८ ॥
कचकचायते शुक्तिरिव स्वचाकचक्येन रजतमिव स्फुरति ॥ १८ ॥
अस्यैतद्वस्तुनो रूपं चिद्व्योम्नो वितताकृतेः ।
रूपमत्यजदेवाच्छं यदित्थमवभासते ॥ १९ ॥
अस्यैतदिति । द्वे वाव ब्रह्मणो रूपे मूर्त चैवामूर्तं च इत्यादिश्रुतेरिति भावः ॥ १९ ॥
कचनाकचनं सर्गक्षयात्मास्य निजं वपुः ।
व्योमात्म शुक्लकृष्णं स्याद्यथावयविनो वपुह् ॥ २० ॥
यथा अवयविनो वपुः स्वरूपमवयवभेदभिन्नमिव तद्वच्चेत्यर्थः ॥ २० ॥
यथायं त्वं सितोदान्तरेक एवादितः कचैः ।
तथा ब्रह्मैवमच्छात्म सर्गे सर्गक्षयेऽक्षयम् ॥ २१ ॥
यथा अयं प्रसिद्धस्त्वं सितोदस्य स्वच्छोदकस्य ह्रदस्यान्तः प्रविष्टो
बिम्बप्रतिब्बिम्बभेदक्षयादेक एव । आदितो ह्रदप्रवेशात्पूर्वमपि
बिम्बप्रतिबिम्बभावादिभेदकचनैरप्येक एवाक्षयोदयस्तथा ब्रह्मापि सर्गे
सर्गक्षये चाक्षयोदयमेकमेवेत्यर्थः ॥ २१ ॥
यथा स्वप्ने सुषुप्ते च निद्रैकैवाक्षयानिशम् ।
सर्गेऽस्मिन्प्रलये चैव ब्रह्मैकं चितिरव्ययम् ॥ २२ ॥
चितिः चित्स्वभावमव्ययमविकारि ॥ २२ ॥
यथा स्वप्ने जगद्द्रष्टुः शान्तं शाम्यत्यशेषतः ।
तद्वदस्मज्जगदिदं शान्तं शाम्यत्यशेषतः ॥ २३ ॥
यथा स्वप्ने प्रसिद्धं जगज्जाग्रत्सुषुप्त्योः शान्तमेव शाम्यति ॥ २३ ॥
तदन्यत्रास्ति खे खाख्यं तथेत्यङ्ग न विद्महे ।
अशङ्क्यं परखे त्वेतदस्मच्चिद्व्योम्नि सम्भवात् ॥ २४ ॥
बाधितमत एव खाख्यं शून्याख्यं तत्स्वाप्नं जगदन्यत्र देशान्तरे तथैव
विद्यते इति तु बोधदृष्ट्या न विद्महे । परेषां पुरुषान्तराणां खे जीवाकाशे
स्थास्यतीति तु अशङ्क्यं शङ्कानर्हम् । कुतः अस्मच्चिद्व्योम्न्येवास्मद्वासनामयस्य
सम्भवादबाधितदशायामपि परचिद्व्योम्नि प्रसक्त्यभावादित्यर्थः ॥ २४ ॥
यथेहास्मच्चिदाकाशकचनं सर्गसङ्क्षये ।
तथान्यत्संविदाकाशं नैवमित्यत्र का प्रमा ॥ २५ ॥
यद्यस्मदनुभवसिद्धसर्गः प्रबोधबाधितः परसंविदाकाशं विशेत्तदा परस्य
प्रबोधेन शुद्धचिदाकाशकचनं नास्तीत्येव कल्प्यं स्यात् तत्र च कल्पकं
प्रमाणं नास्तीत्याह - यथेति ॥ २५ ॥
शिष्य उवाच ।
एवं चित्तद्यथा स्वप्ने द्रष्टुरन्यः स दृश्यधीः ।
विद्यते तद्वदन्यत्र मन्येऽस्ति जगदादिधीः ॥ २६ ॥
एवमुक्तरीत्यास्मत्संविद्विषयः परसंविदि न भाति चेत् स्वप्नद्रष्टुरन्यो जाग्रत्पुरुषो
यथा स दृश्यधीर्विद्यते तद्वदन्यत्र प्रलयकालेऽपि अन्यत्र पुरुषान्तरे
जगदादिधीरस्तीति मन्ये सम्भावये ॥ २६ ॥
गुरुरुवाच ।
एवमेतन्महाप्राज्ञ स्वरूपं तु न तज्जगत् ।
चिति भाति स्वरूपं तत्तद्वदेव न भाति च ॥ २७ ॥
अभ्युपगमेन गुरुरुत्तरमाह - एवमेतदिति । अत एव
प्रलयेऽप्यैन्दवजगत्सद्भावदर्शनं धातुः प्राग्वर्णितमिति भावः । यदि जगच्चितः
स्वरूपं स्यात्तदा सर्वसाधारणं स्यात्तत्तु न किन्तु चित्यध्यस्तं भाति
तद्द्रष्ट्टृणामन्येषां तद्वदेव न भाति चेति तत्तदनुसारेण व्यवस्थित।
तत्स्वरूपमित्यथः ॥ २७ ॥
न भाति न च तत्किञ्चिन्न च तत्किञ्चिदेव सत् ।
तच्चिदाकाशकचनं के तत्र सदसद्दृशौ ॥ २८ ॥
साधारणं न भातीत्यत एव तन्न किञ्चित् तुच्छं न तु किञ्चिदेवं सत् किन्तु
तत्तज्जीवचिदाकाशकचनमात्रं तत्र सदसदृशौ के ॥ २८ ॥
विद्यते तद्धि सर्वत्र सर्वं सर्वेण सर्वदा ।
न विद्यते च तत्किञ्चित्सर्वं सर्वत्र सर्वदा ॥ २९ ॥
यदि तु चिदाकाशरूपेण विद्यते इत्युच्येत तदा तज्जगत्सर्वेण प्रकारेण स्र्वत्र सर्वदा
विद्यते । स्व्रूपेण तु न किञ्चित्कुत्रचित्कदाचिदपि विद्यत इत्यर्थः ॥ २९ ॥
तत्सत्तत्सर्वदा सर्वमसच्चासद्धि वाखिलम् ।
तन्मयं तच्चिदाकाशं न नाशि न च नाशि तत् ॥ ३० ॥
यतस्तद्ब्रह्मैव सदसच्च अतो जगदपि सदसच्च भाति । यतश्चिदाकाशं न नाशि
अतस्तन्मयं जगच्च न नाशि ॥ ३० ॥
यन्नाम सच्चिदाकाशं सर्गप्रलयरूपि तत् ।
तद्दुःखायापरिज्ञातं परिज्ञातं परः शमः ॥ ३१ ॥
यद्यस्मात्तच्चिदाकाशमेव सर्गप्रलयरूपि । तदेवापरिज्ञातं दुःखाय परिज्ञातं
तु परः शमः । सर्वदुःखक्षय इत्यर्थः ॥ ३१ ॥
विद्यते सर्वथैवेदं सर्वं सर्वत्र सर्वदा ।
न विद्यते सर्वथा च सर्वं सर्वत्र सर्वदा ॥ ३२ ॥
तच्च यथा परिज्ञानं ज्ञाज्ञयोः सर्वत्र सर्वदा विद्यते न विद्यते च ॥ ३२ ॥
एष देवो घटः शैलः पटः स्फोटस्तटो वटः ।
तृणमग्निः स्थावरं च जङ्गमं सर्वमेव च ॥ ३३ ॥
तस्यैव सर्वरूपेण सर्वत्र विद्यमानतां प्रपञ्चयति - एष देव इत्यादिना ॥ ३३ ॥
अस्ति नास्ति च शून्यं च क्रिया कालो नभो मही ।
भावाभावौ भवो भूतिर्नाशाः पाशाः शुभाशुभाः ॥ ३४ ॥
भवो जन्म ॥ ३४ ॥
तन्नास्त्येव न यन्नाम नित्यमेकस्तथा बहिः ।
आदिमध्यमथान्तं तु कालत्रितयमेव च ॥ ३५ ॥
सर्वं सर्वेण सर्वत्र सर्वदैवात्र विद्यते ।
सर्वं सर्वेण सर्वत्र सर्वदात्र न विद्यते ॥ ३६ ॥
यदैव। राम सर्वात्म सर्वमेवास्ति सर्वदा ।
ब्रह्मात्मत्वात्स्वप्नसंवित्पुरन्यायेन वै तदा ॥ ३७ ॥
ब्रह्मभावेन दर्शने तृष्णादयः सर्वे पदार्थाः प्रत्येकं सर्वकर्तारः
सर्वभोक्तारः सर्वेश्वराश्चेत्येतदपि प्रपञ्चयति - ब्रह्मात्मत्वादित्यादिना ॥ ३७
॥
तृणं कर्तृ तृणन्न् भोक्तृ ब्रह्मात्मत्वात्तृणं विभुः ।
घटः कर्ता घटो भोक्ता घटः सर्वेश्वरेश्वरः ॥ ३८ ॥
सर्वेषामीश्वराणामिन्द्रादीनामीश्वरः ॥ ३८ ॥
पटः कर्ता पटो भोक्ता पटः सर्वेश्वरेश्वरः ।
दृशिः कर्ता दृशिर्भोक्ता दृशिः सर्वेश्वरेश्वरः ॥ ३९ ॥
गिरिः कर्ता गिरिर्भोक्ता गिरिः सर्वेश्वरेश्वरः ।
नरः कर्ता नरो भोक्ता नरः सर्वेश्वरेश्वरः ॥ ४० ॥
प्रत्येकं सर्ववस्तूनां कर्ता भोक्ता परात्परः ।
अनादिनिधनो धाता सर्वं ब्रह्मात्मकं यतः ॥ ४१ ॥
सर्ववस्तूनां प्रत्येकमेकं वस्तु कर्ता भोक्ता परात्परः श्रेष्ठादपि श्रेष्ठः ॥
४१ ॥
तृणकुम्भादयस्त्वेते स्वया विभुतया विभुः ।
एवंरूपा स्थिता रूपं यद्विभातः क्षयोदयौ ॥ ४२ ॥
स्वया प्रत्यगात्मरूपया । यद्यस्मिन् रूपे क्षयोदयौ विभातस्तादृशं सर्वं
रूपमेवंरूपा विभुतैव स्थिता ॥ ४२ ॥
बाह्योऽर्थोस्ति स एवेह कर्ता भोक्ता तथाविधः ।
विज्ञानमात्रमेवास्ति कर्तृ भोक्तृ तथाविदाम् ॥ ४३ ॥
उक्तेऽर्थे वादिनामनुभवं संवादयति - बाह्योऽर्थ इति । येषां बाह्यो
विज्ञानातिरिक्तोऽर्थोस्ति तेषां स एव कर्ता भोक्ता च । यथा वैशेषिकसौत्रान्तिकादीनाम् ।
येषां तु वादिनां विज्ञानमात्रमेवास्ति तथाविदां तेषां तदेव कर्तृ भोक्तृ च ॥
४३ ॥
न कश्चिच्चैव कर्तेह न च भोक्ता तथाविदाम् ।
कश्चिदीश्वर एवेह कर्ता भोक्ता तथाविदाम् ॥ ४४ ॥
शून्यवादिनां तु तदेवेत्याह - न कश्चिदिति । पाशुपतादीनां
कश्चित्तत्प्रक्रियाप्रसिद्ध ईश्वर एव कर्ता भोक्ता च ॥ ४४ ॥
सर्वमेव पदे तस्मिन्सम्भवत्युत्तमोत्तमे ।
विधयः प्रतिषेधाश्च के ते सन्ति न सन्ति के ॥ ४५ ॥
एवं मतभेदेपि न वादिनां मध्ये कस्यचिदप्यसम्भवदर्थवादित्वं
यतस्तस्मिन्नुत्तमोत्तमे सर्वत्र सर्वशक्तिमति सर्वात्मके पदे सर्वमपि सम्भवति ।
तस्मिन्पदे सर्वतत्तद्वाद्यभिमताः परस्परविलक्षणाः
पदार्थप्रक्रियासाधनानुष्ठानफलादिविधयः परस्परकृतास्तत्प्रतिषेधाश्च
सर्वेऽप्यविरोधेनासङ्कीर्णाः सम्भवन्ति । तत्तद्बुद्ध्यवच्छिन्नचैतन्ये
वरशापन्यायेन यथास्वसङ्कल्पनं व्यवस्थितविवर्तसम्भवात् ॥ ४५ ॥
शुद्धे द्रष्टेव चिद्व्योम दृश्यतामिव भावयत् ।
स्व्मात्मानं जगदिति पश्येत्तिष्ठेदनामयम् ॥ ४६ ॥
तत्र तत्र चिद्व्योम शुद्धे स्वात्मनि तत्तद्वासनानुसारिदृश्यतामिव भावयत्सत्
द्रष्टेव भूत्वा स्वमात्मानं तादृशं जगदिति पश्यत्तत्र तत्र वस्तुतोऽनामयमेव
तिष्ठेत् स्थातुं शक्तमित्यर्थः ॥ ४६ ॥
सर्वा दृशो विधिनिषेधदृशश्च सर्वाः
सङ्कल्पवेदनविशेषसशेषपूर्वाः ।
सत्यात्मिकाः सततमेव न चैव सत्या रूपं यथानुभवमत्र यतः स्वरूपम् ॥
४७ ॥
हे राम सर्वेषां जीवानां सर्वाः स्वस्वानुभवसिद्धाः पदार्थादिदृशः सर्वाः
परस्परविलक्षणविधिनिषेधदृशश्च
यस्मात्तत्तत्सङ्कल्पतत्तद्वेदनविशेषतत्तदनुभवशेषवासनासहिततत्तत्काम##-
तत्तदर्थक्रियासमर्थत्वात्सत्यात्मिकाः परदृशा तु प्रतीतेरेवाभावान्न चैव सत्याः
शश"षृङ्गकल्पाः । यतः प्रत्यगात्मरूपं यथानुभवमेव जगद्रूपं धत्ते
इति शेषः ॥ ४७ ॥
इति त्वया शिष्यतया मदन्तिकाच्छ्रुतं पुरा तेन न चासि बुद्धवान् ।
ततोऽनुभूयान्यजगद्भवाद्भवानिहाद्य जातोऽसि तदेव पृच्छसि ॥ ४८ ॥
हे राम पुरा पूर्वयुगे त्वया शिष्यतया स्थित्वा गुरोर्मम अन्तिकात् इति
एवंवर्णितरूपमुपदेशनं श्रुतं तेनोपदेशेन त्वं तदा न चासि बुद्धवान् ।
ततस्तदनन्तरमबोधदोषादेव पुनर्भवान् पुनर्भवादन्यजगदनुभूय
अद्यास्मिंस्त्रेतायुगे इह दशरथगृहे जातोऽसि । तदेव प्राङ्मां प्रति पृष्टमद्यापि
मां पृच्छसि ॥ ४८ ॥
ज्ञानं सदेतदखिलं श्रुतमुत्तमं चित्संसारदीर्घरजनीसितरश्मिबिम्बम् ।
जातस्त्वमभ्युदयवानमलैकबोध उत्सार्य मोहमनुतिष्ठ यथागतं त्वम् ॥
४९ ॥
अत्रापि त्वया मदुपदिष्टमुत्तमं सत् परमार्थवस्तुगोचरमत एव संसारलक्षणाया
दीर्घरजन्यास्तापतमोनिवर्तकत्वात्सितरश्मेः पूर्णचन्द्रस्य बिम्बमिव स्थितं
ज्ञानमखिलं समग्रं श्रुतं तेन त्वं मोहमज्ञानमुत्सार्य
निरतिशयानन्दरूपपरमपुरुषार्थलाभाभ्युदयवान् अमलैकबोधरूपो जातः एवं
कृतकृत्यस्त्वमतःपरं यथागतं व्यवहारपरम्पराप्राप्तं
स्वराज्यपरिपालनादिकमनुतिष्ठ ॥ ४९ ॥
तिष्ठंस्तदात्मनि परे विमलस्वभावे सर्वात्मके तपति सर्वपदार्थमुक्तः ।
निर्वाणशन्तमतिरम्बरकोशकान्तो धर्मेण राज्यमनुपालय तीर्णतृष्णः ॥
५० ॥
हे राम त्वं विमलस्वभावे तपति सर्वतः प्रकाशमाने सर्वात्मके आत्मनि
सर्वदृश्यपदार्थमुक्तस्तिष्ठन्सन् निर्वाणो निरतिशयानन्दमग्नोऽत्र एव शान्ता
मतिर्यस्य तहाविधः सन्नम्बरकोशमिव कान्तो मनोहरस्तीर्णस्तृष्णः सन् धर्मेण
राज्यमनुपालयेत्यन्ते मङ्गलार्थमाशीः ॥ ५० ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ०
प्राक्तनरामशिष्यत्वोपाख्यानं नाम त्रयोदशाधिकद्विशततमः सर्गः ॥ २१३ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
प्राक्तनरामशिष्यत्वोपाख्यानं नाम त्रयोदशाधिकद्विशततमः सर्गः ॥ २१३ ॥