२१२

द्वादशाधिकद्विशततमः सर्गः २१२

श्रीवसिष्ठ उवाच ।

चित्त्वाद्ब्रह्मखमेवाहमिति वेत्तीव यत्स्वयम् ।
तदेव परमेष्ठित्वं तस्योदरमिदं जगत् ॥ १ ॥

ब्रह्माहम्भावकलना परमेष्ठी जगत्त्रयम् ।
तत्सङ्कल्पमयं तस्माद्ब्रह्मैवेत्यत्र वर्ण्यते ॥

ब्रह्मणि प्रथमं समष्ट्यहङ्कारात्मा हिरण्यगर्भ इव कल्पनात्तदुदरे च
व्यष्टिजीवजगत्कल्पनेति सर्वं ब्रह्मविवर्तमात्रमापातदर्शनसिद्धं
परमार्थदृष्टौ न हिरण्यगर्भो जीवो जगद्वा किञ्चिदस्ति ब्रह्मैव केवलं
नित्यनिर्मलसच्चिदानन्दैकरसं पूर्णमवतिष्ठत इति सर्ववेदान्तनिष्कृष्टार्थमन्ते
वर्णयितुमुपक्रमते - चित्त्वादिति । ब्रह्मखं स्वयमेव
प्रथममहमित्यहङ्कारसमष्त्।यात्मानं वेत्तीव तत्तादृशवेदनमेवास्य
परमेष्ठित्वं हिरण्यगर्भता ॥ १ ॥

एवं स्थिते न च ब्रह्मा न च जातं जगत्स्थितम् ।
स्थितं यथास्थितमजं परं ब्रह्मैव पूर्ववत् ॥ २ ॥

न च मायिकेन तावन्मात्रापराधेन ब्रह्म अब्रह्म भवतीति हिरण्यगर्भादि
किञ्चिदन्यन्नासीदेवेत्याह - एवं स्थिते इति ॥ २ ॥

संवित्तौ तु जगद्रूपं भासतेऽप्येवमेव तत् ।
मृगतृष्णेव मिथ्यैव दृश्यमानमपि त्वसत् ॥ ३ ॥

यदि नासीदेव तर्हि संवित्तौ कथं भासते तत्राह - संवित्ताविति । एवमेव
प्रातिभासिकमेव् सत् न परमार्थसत् ॥ ३ ॥

अतः प्रभृति शून्येयं भ्रान्तिरभ्युदिता नवा ।
कुतः केव किल भ्रान्तिर्ब्रह्मैव तदनामयम् ॥ ४ ॥

अतः सर्गकालात्प्रभृति भ्रान्तिरभ्युदिता अथवा सापि नाभ्युदितैव ॥ ४ ॥

जगद्ब्रह्मजलावर्तो द्वित्वैकत्वे किलात्र के ।
क्वावर्तपयसोर्द्वित्वं द्वित्वाभावात्क्व चैकता ॥ ५ ॥

अस्तु नाम जगदनिर्वचनीयो ब्रह्मधर्मस्तथापि न क्षतिरित्याह - जगदिति ॥ ५ ॥

तद्ब्रह्म घनमाशान्तं चित्त्वाच्चेतत्यहं विदत् ।
निजं शून्यत्वमन्तस्थं व्योमेव विततान्तरम् ॥ ६ ॥

चित्त्वात्परप्रथास्वभावात् । अहमित्यहङ्कारसमष्ट्यात्मतां विदत् ॥ ६ ॥

पवनः स्पन्दनमिव हुताशन इवोष्णताम् ।
स्वशैत्यमिव पूर्णेन्दुः सत्तामर्थ इवात्मनः ॥ ७ ॥

ब्रह्मैवात्मना अर्थ इव सत्तां चेतति ॥ ७ ॥

श्रीराम उवाच ।

एतद्ब्रह्मन्कदा नाम तन्न चेतितवन्मुने ।
निरावृतमनाद्यन्तं किमिदानीं प्रचेतति ॥ ८ ॥

यदि स्वरूपचैतन्यमेवाभिप्रेत्य अर्थ इव चेततीत्युच्यते तर्हि तत्सदैवास्तीतीदानीं
प्रचेततीति किमुच्यते इति रामः पृच्छति - एतदिति । एतदहमादि कदा च चेतितवत् ।
यतः सदैव निरावृतं निरावरणमनाद्यन्तं नित्यं च तदिदानीं
सर्गादिकालमारभ्य प्रचेततीति किमुच्यत इत्यर्थः ॥ ८ ॥

श्रीवसिष्ठ उवाच ।

एवमेतत्सदैवैतदहमाद्यपि चेतति ।
न ह्यनादेरजस्यास्य काप्यपेक्षा स्वसंविदा ॥ ९ ॥

सत्यम् यौक्तिकदृशा सदैव वाहमादिस्वतत्त्वं च प्रचेतति तथा च
सर्गासर्गोभयरूपं ब्रह्मदृष्टिद्वयप्रामाण्ये पर्यवस्यति तथापि दृष्टिद्वये
विषयसत्त्वासत्त्वकृतमन्तरमस्तीति प्रामाण्येन
तुल्यमित्याशयेनाभ्युपगम्येवोत्तरमाह - एवमेतदित्यादिना । स्वसंविदा
स्वरूपचैतन्येन विद्यया स्वरूपस्फूर्तावविद्यया अहमादिस्फूर्तौ चान्यापेक्षा यतो
नास्तीत्यर्थः ॥ ९ ॥

सर्गासर्गनभोरूपं ब्रह्म सर्वत्र सर्वदा ।
न कदाचिदिदं नेदं ज्ञातं नेदं न किञ्चन ॥ १० ॥

यतः कदाचिदपि अविद्यादृष्टौ नेदं ज्ञातं विद्यादृष्टौ नेदं च किञ्चन ॥ १० ॥

पवनस्पन्दनं चन्द्रशैत्यं शून्यत्वमम्बरम् ।
ब्रह्माहन्त्वमनन्यात्म न कदाचिन्न चेतति ॥ ११ ॥

मिश्रदृष्टौ तर्हि कीदृशं चेतति तदाह - पवनेति ॥ ११ ॥

सर्वदैवेदृशी सत्ता न कदाचिदनीदृशी ।
जगद्यस्मादनाद्यन्तं ब्रह्मात्मैव निरामयम् ॥ १२ ॥

सर्वदैवेति । विपश्चिदुपाख्यानोक्तन्यायेन सर्वजीवसंसारोच्छेदकालाप्रसिद्धेरिति
भावः ॥ १२ ॥

केवलं त्वमबुद्धत्वाच्छब्दश्रवणवेधितः ।
अद्वये ब्रह्मबोधेऽस्मिन्द्वितामभ्युपगच्छसि ॥ १३ ॥

इमां मिश्रदृष्टिमपि तव बोधानुवृत्तिपर्यन्तमेव
शब्दश्रवणादिव्यवहारसिद्धये त्वमभ्युपैषि चेदभ्युपगच्छ न परमार्थत
इत्याह - केवलमिति । त्वमद्वये ब्रह्मबोधे जातेऽप्यबुद्धत्वादबोधमभ्युपेत्य ।
ल्यब्लोपे पञ्चमी । मदुपदेशशब्दश्रवणे वेधित आसक्तचित्तः सन्
मिश्रदृष्टिलब्धां द्वितां सप्रपञ्चनिष्प्रपञ्चोभयरूपतामभ्युपगच्छसि न
तत्त्वदृशेत्यर्थः ॥ १३ ॥

न कश्चित्किञ्चिदेवेह न कदाचिन्न चेतति ।
न कश्चिच्च तदन्यात्मा न कदाचिच्च चेतति ॥ १४ ॥

मिश्रदृष्टौ हि सर्वात्मकं ब्रह्म तत्र सर्वान्तर्गतः कश्चिज्जीवः किञ्चिच्चेतत्येव
चेत्तद्ब्रह्मैव तदात्मना चेततीति तदात्मना सर्वः सर्वं चेतति ।
निर्विशेषब्रह्मात्मना च कश्चित्किञ्चिदपि न कदाचन चेतति ॥ १४ ॥

इदं त्रिभुवनाभासमीदृशं भाती सर्वदा ।
शान्तं राम समं ब्रह्म नेह नानास्ति किञ्चन ॥ १५ ॥

तथा च बद्धदृष्ट्या त्रिभुवनाभासमेव सर्वदा ब्रह्म भाति मुक्तदृष्ट्या नेह
नानास्ति किञ्चनेति न किञ्चिद्भातीत्यर्थः ॥ १५ ॥

न कदाचन जायन्ते नभसः पादपाद्रयः ।
ब्रह्मणश्च जगन्तीति मत्वा शान्तिं परां व्रज ॥ १६ ॥

तत्र बद्धदृष्टेर्बाधितार्थत्वान्मुक्तदृष्टिरेव त्वया आश्रयणीयेत्याह - न
कदाचनेति ॥ १६ ॥

उपदेश्योपदेशार्थं सन्देहावसरेऽल्पधीः ।
यावन्न बुद्धस्तावत्त्वं भेदमभ्युपगच्छसि ॥ १७ ॥

यावदुपदेशप्रवृत्तिमिश्रदृष्टिरभ्यनुज्ञाता मयेत्याह - उपदेश्येति ।
अभ्युपगच्छसि अभ्युपगच्छ ॥ १७ ॥

बोधस्य तु विदुद्धस्य न शास्त्रादि न शब्दधीः ।
न भेदबुद्धिर्नो भेदः किमप्येष प्रजापतेः ॥ १८ ॥

तदुत्तरकालं त्वहङ्कारतत्सङ्कल्पजगदात्मनः
प्रजापतेर्भेदबुद्धिस्तद्भावबुद्धिश्च तव न भविष्यत्येवेत्यर्थः ॥ १८ ॥

श्रीराम उवाच ।

बुद्धमेतन्मया ब्रह्मन्प्रकृतं तदुदाहर ।
वचो मदवबोधार्थं यदुदाहृतवानसि ॥ १९ ॥

एतद्ब्रह्मन्कदा नाम इत्यादि यन्मया पृष्टं एतन्मया त्वदुक्तया बुद्धम् ।
प्रकृतं समष्ट्यंहङ्काराद्यध्यासं निरूपयितुं प्रस्तुतं
यन्मदवबोधार्थं वचस्तदुदाहर निरूपयेत्यर्थः ॥ १९ ॥

किं तस्मिंश्चेतितेऽहन्त्वे पदे सम्पद्यते परे ।
बुद्धवानसि शुश्रूषुर्नाहं तृप्तिमुपैमि हि ॥ २० ॥

तदेव स्मारयन्पृच्छति - किमिति । तस्मिन्परे पदे अहन्त्वे चेतिते सति अग्रे किं
सम्पद्यते । त्वं सर्वज्ञत्वात्सर्वं बुद्धवानसि । अहं च त्वद्वचनशुश्रूषुर्न
तृप्तिमुपैमि अतो वदेत्यर्थः ॥ २० ॥

श्रीवसिष्ठ उवाच ।

अहन्त्वे सत्यथैतस्मिन्व्योमसत्ता प्रवर्तते ।
दिक्सत्ता कालसत्ता च भेदसत्ताभ्युदेति च ॥ २१ ॥

व्योमसत्ता आकाशाध्यासः । भेदसत्ता त्रिविधपरिच्छेदाध्यासः ॥ २१ ॥

यदा किलेहाहमिति तदा नात्राहमित्यपि ।
भातीत्युदेति नाना खे स्वात्मैव द्वैतमक्रमम् ॥ २२ ॥

अहङ्काराध्यासस्य परिच्छेदाध्यासहेतुतामुपपादयति - यदेति । यदा अस्य इह
देहादौ अहमिति भाति तदा देहशून्यस्थले अत्र नाहमित्यप्यवश्यं भाति स
देशकृतपरिच्छेदः । इत्यनया रीत्या नानाविधः कालकृतपरिच्छेदो
वस्तुकृतपरिच्छेदश्चेति स्वात्मैव अक्रमं द्वैतं भूत्वा उदेति ॥ २२ ॥

व्योमात्मिकानामेतासां सत्तानामभिधानधीः ।
भविष्यत्युत्तरं कालं तदा त्वाकाशमेव तत् ॥ २३ ॥

ततः परस्परव्यावर्तकजातिगुणक्रियादिप्रवृत्तिनिमित्तभेदकल्पनाप्रयुक्तो
नामभेदाध्यासो भविष्यतीत्याह - व्योमात्मिकानामिति । एतासामुक्तानां
पदार्थभेदसत्तानामभिधानधीर्वाचकशब्दाध्यासः ॥ २३ ॥

एतस्मिन्परिसम्पन्ने दिक्कालकलनात्मनि ।
अहम्भावे निराकारे व्योम तन्मात्रवेदिनि ॥ २४ ॥

तत्राहङ्कारावच्छेदेन जीवसाक्षिभेदेष्वावरणाभावात्स्वाभाविकचिदभिव्यक्तौ
तत्राध्यस्तजगदाकारेण ब्रह्मैव अब्रह्मैव भास्यतीत्याह -
एतस्मिन्नित्यादिद्वाभ्याम् ॥ २४ ॥

इदमाभाति भारूपं वेदनं दृश्यनाम यत् ।
भूत्वा ब्रह्मैव निर्बाधमब्रह्मेव विराजते ॥ २५ ॥

ब्रह्मैव शान्तमजमेकमनादिमध्यं व्योमैव जीवकलनामिव भावयित्वा ।
व्योम्न्येव पश्यति निरावरणे विसारि दृश्यं स्वरूपमपि चान्यदिवाऽऽत्र्मवित्त्वात्
॥ २६ ॥

तदेव स्पष्टमाह - ब्रह्मैवेति । व्योम जीवजगद्भावशून्यं ब्रह्मैव
जीवकलनामिव भावयित्वा अध्यस्य निरावरणे जीवसाक्ष्याकाशे एव विसारि विस्तृततरं
दृश्यं पश्यति स्वरूपमपि ब्रह्म अन्यदिव पश्यति आ आत्मवित्त्वात्तत्त्वज्ञानोदयं
मर्यादीकृत्येत्यर्थः ॥ २६ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० परमार्थनिरूपणं नाम
द्वादशाधिकद्विशततमः सर्गः ॥ २१२ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
परमार्थनिरूपणं नाम द्वादशाधिकद्विशततमः सर्गः ॥ २१२ ॥