२११

एकादशाधिकद्विशततमः सर्गः २११

श्रीवसिष्ठ उवाच ।

इति तत्रोपविश्याहं पूजितस्तेन भूभुजा ।
प्रयोजनं स्वं सम्पाद्य स्वर्गन्तुं गगनं प्लुतः ॥ १ ॥

सिद्धसाध्यादिलोकौघदर्शनोपायसंयुतम् ।
वर्ण्यतेऽत्र पुनः स्पष्टं ब्रह्मैव सकलं जगत् ॥

तत्र कुशद्वीपे इलावप्त्याख्यायां पुरि । तेन प्रज्ञप्त्याख्येन भूभुजा । स्वं
प्रयोजनं तदनुग्रहलक्षणम् ॥ १ ॥

अद्यैतद्भवता प्रोक्तं मया मतिमतां वर ।
अनया सुदृशा शान्तमनाः खात्मा भविष्यसि ॥ २ ॥

अय्द एतस्यामयोध्यायां भवता विद्यमानेन मया ॥ २ ॥

ब्रह्मैव तदिदं सर्वं निर्नामैवामलं नभः ।
किमप्येवाजमाशान्तमादिमध्यान्तवर्जितम् ॥ ३ ॥

निर्नाम निःशब्दं नभ एव ॥ ३ ॥

चिद्भानमात्रमित्युक्तं ब्रह्मेति कलिताभिधम् ।
परात्परमिति प्रोक्तं तत्तु निर्नामकं पदम् ॥ ४ ॥

ब्रह्मेत्यपि कल्पनया कलिताभिधं न वस्तुतः कूटस्थे
बृहधात्वर्थवृद्ध्यादेरयोगादित्यर्थः ॥ ४ ॥

श्रीराम उवाच ।

सिद्धसाध्ययमब्रह्मविद्याधरदिवौकसाम् ।
ब्रह्मन्कथय दृश्यन्ते लोका लोकधराः कथम् ॥ ५ ॥

लोकास्तत्रत्या जनास्तेषां धरा आधारभूताः कथं केनोपायेन दृश्यन्ते ॥ ५ ॥

श्रीवसिष्ठ उवाच ।

सिद्धसाध्ययमब्रह्मविद्याधरदिवौकसाम् ।
अन्येषामपि भूतानामपूर्वाणां महात्मनाम् ॥ ६ ॥

प्रतिरात्रं प्रतिदिनं पुरः पश्चादुपर्यधः ।
पश्यस्यालोकयṁल्लोकानपश्यंश्च न पश्यसि ॥ ७ ॥

आलोकयन् चूडालोपाख्यानोक्तधारणाविशेषैः पश्यन्सन् पश्यसि द्रक्ष्यसि ॥ ७ ॥

एते लोकाः किलैतेषां नाभ्यासः स्थानदूरगाः ।
एते सङ्कल्पलोकाख्या व्याप्तमेभिः किलाखिलम् ॥ ८ ॥

द्विविधा हि सिद्धलोका य एते महर्जनस्तपःसत्याख्यास्ते स्थानतो दूरगाः । ये त्वेते
सर्वत्र सञ्चरतां सिद्धानाम् स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरः
समुत्तिष्ठन्ति तेन पितृलोकेन सम्पन्नो महीयते इत्यादिश्रुतिसिद्धाः
सङ्कल्पलोकाख्याः एभिरखिलं विश्वं व्याप्तं सर्वत्र सन्ति । द्विविधानामपि
दर्शने धारणाभ्यासः कारणं स च ते नास्तीत्यर्थः ॥ ८ ॥

यथैते कल्पनालोका अयं लोकस्तथैव नः ।
यथा काल्पनिको वातो लोकालोकास्तथैव ते ॥ ९ ॥

तर्हि किं मया तद्दर्शनाय धारणाभ्यासः कार्यः न कार्यस्तेषामसारत्वादिति
दर्शयति - यथेत्यादिना । यथैव तेषां ते कल्पनात्मका लोकास्तथैवायं
नोऽस्माकमयं लोकः कल्पनामात्रसिद्धः । यथा काल्पनिकोऽपि वातः सर्वत्र भ्रमति
तथा ते भ्रमन्ति अयं तु न तथेत्येतावानेव विशेष इत्यर्थः ॥ ९ ॥

सङ्कल्पस्वप्नलोका ये तव भान्ति दिवानिशम् ।
त एव तादृशाश्चान्ये सङ्कल्पेन स्थिरीकृताः ॥ १० ॥

तव सङ्कल्पस्वप्रलोका ये भान्ति त एव ते सिद्धलोकाः प्रसिद्धास्तादृशा अन्ये च
लोकास्तैर्निर्माय सङ्कल्पेनैव स्थिरीकृताः ॥ १० ॥

ध्यानेन त्वमपीतांश्चेत्स्थिरतां सुस्थिरात्मना ।
नयस्याशु तदेवैते स्थिरतां यान्त्यविघ्नतः ॥ ११ ॥

एवं च त्वमपि यदि योगधारणास्थिरीकृतेन ध्यानेन इतान् स्वसङ्कल्पप्राप्तान् लोकान्
स्थिरतां नयसि तदा एतेऽपि स्थिरतां यान्ति ॥ ११ ॥

यथाभिमतविस्तारा यथाभिमतसम्पदः ।
सङ्कल्पभाववलितो जनह्। पश्यति सिद्धवत् ॥ १२ ॥

एवमन्योपि दृढतरध्यातृसङ्कल्पभावेन वलितश्चेत्सोऽपि सिद्धवदेव
तान्स्थिरान्पश्यति ॥ १२ ॥

किन्तु ते स्थिरतां नीताः सिद्धैः स्वर्यानसम्पदा ।
अस्थिरैर्ध्यानविश्रान्तौ तैर्दुःखैस्तदमी कृताः ॥ १३ ॥

किन्त्वेतावान्विशेषह् - तैः सिद्धैः स्वः स्वर्गान् सिद्धलोकान् यान्ति यथा
तथाविधया प्राक्तनधर्मसम्पदा ते लोकाः स्थिरतां नीता इत्यनायाससिद्धास्तेषाम् ।
यैस्त्वन्यैरनित्यैरिदानीन्तनधारणाभ्यासैर्ध्यानविश्रान्तौ यत्यते तैर्दुःखैः
श्रमैरमी लोकाः स्थिरीकृताः स्युरिति ॥ १३ ॥

जगदप्रतिघं सर्वं शान्तचिद्व्योम सर्वदा ।
यथा दृढं संविदितं तथैवाभाति नान्यथा ॥ १४ ॥

संविदितं निश्चितम् ॥ १४ ॥

न भात्येवासंविदितमस्ति नास्ति न चोद्यता ।
शून्यं ह्यप्रतिघं चैतत्पराकाशमरोधकम् ॥ १५ ॥

यतस्तत्रासंविदिते अस्ति नास्तीति वा चोद्यता तर्कविषयता नास्ति ॥ १५ ॥

चित्स्वभावतया भातं भारूपमिव दृश्यते ।
अस्मिंश्चिदभिमानश्च विद्यते न स्वभावतः ॥ १६ ॥

कुतः शून्यमप्रतिघं च तत्तत्राह - चित्स्वभावतयेति । यद्दृढसंवेदनेन
भातं तच्चित्स्वभावतया भारूपमिव भासमानं दृश्यते । अस्मिंस्त्वसंविदिते
स्वभावतश्चिदभिमानश्चित्सत्तास्फूर्तिव्याप्तिर्यतो न विद्यते इत्यर्थः ॥ १६ ॥

कार्यकारणभावाच्चेत्कथैवात्र न विद्यते ।
व्योम्नोऽनन्तस्य सिद्धस्य किं कथं किल जायते ॥ १७ ॥

कारणसत्ताबलादेव तत्सत्तान्या भविष्यतीति तु न शङ्क्यमेव निरस्तत्वादित्याह -
कार्येति । सर्गादौ प्रलयत्वाद्व्योम्नः ॥ १७ ॥

यच्च जातमिवाभाति व्योम्नि व्योमैव तत्तथा ।
तत्रैकद्वित्वकलना कीदृशी स्यादरूपिणी ॥ १८ ॥

यच्च जातमिवाभाति भूतभुवनादि तत्तु व्योम्नि व्योमैव जातमिवाभातीति
तत्रैकत्वद्वित्वकलनापि दुर्लभा दूरे कार्यकारणभाव इत्यर्थः ॥ १८ ॥

तद्धि यादृशमेवासीत्तादृगेवावतिष्ठते ।
निर्विकारं यथा स्वप्ने व्योमैवाचलवद्भवेत् ॥ १९ ॥

तर्हि ब्रह्मैव कारणमस्तु तत्राह - तद्धीति । विवर्ताधिष्ठानमेव न विकारीति न
कारणमित्यर्थः ॥ १९ ॥

सङ्कल्पे चित्तमाकारं यथोदेत्यद्रिलीलया ।
न च सोऽद्रिर्न तद्व्योम तथा ब्रह्म जगत्स्थितिः ॥ २० ॥

आकारं कल्पयित्वेति शेषः ॥ २० ॥

काष्ठवन्मौनमास्थाय रटन्तोऽपि महाधियः ।
इह व्यवहरन्त्येते बुधा दारुनरा इव ॥ २१ ॥

अत एव स्वदृष्ट्या निर्व्यापारा एव जीवन्मुक्ता व्यवहरन्त इव भान्ति न वस्तुत इत्याह

  • काष्ठवदिति ॥ २१ ॥

यथा वारिणि वर्तन्ते तरङ्गावर्तवृत्तयः ।
अनन्याः परिवर्तन्ते तथा ब्रह्मणि सृष्टयः ॥ २२ ॥

यथा वायौ परिस्पन्दा यथा व्योमनि शून्यता ।
अनन्याश्चाप्यमूर्ताश्च तथा ब्रह्मणि सृष्टयः ॥ २३ ॥

यथा सङ्कल्पनगरं शून्यमेव पुरं स्थितम् ।
साकारमप्यनाकारं ब्रह्मणीदं तथा जगत् ॥ २४ ॥

चिरानुभूतमप्यर्थकार्यपीदं जगत्त्रयम् ।
शून्यमेव निराकारं सङ्कल्पनगरं यथा ॥ २५ ॥

अर्थकारि लौकिकवैदिककार्यसमर्थमपि ॥ २५ ॥

यदेव चित्तसङ्कल्पस्तदेव नगरं यथा ।
तदा तथायं ब्रह्माच्छं तदेव जगदुच्यते ॥ २६ ॥

तदा सङ्कल्पनगरव्यवहारकाले । तथा अयं परिदृश्यमानः संसारोऽपि ॥ २६ ॥

चिरं नित्यानुभूतोऽपि जगदर्थो न किञ्चन ।
विद्यते पुरुषस्येन स्वप्ने स्वमरणं यथा ॥ २७ ॥

स्वप्ने पुंसा मृतेनापि स्वदाहो दृश्यते यथा ।
असदेव सदाभासं जगद्दृष्टं परे तथा ॥ २८ ॥

जगत्ता चाजगत्ता च परस्यैवामलं वपुः ।
पराभिधानं च परं न च सत्परमार्थतः ॥ २९ ॥

यत्परमन्यद्रज्ज्वादि पराभिधानं सर्पाद्यभिधानगोचरो भवति तत्परमार्थतः
सन्न ॥ २९ ॥

इत्थमस्तु यदि वान्यथास्तु वा मैव भूद्भवतु कोऽत्र सम्भ्रमः ।
मुञ्च् फल्गुनि फले फलग्रहं बुद्धवानसि कृतं परिश्रमैः ॥ ३० ॥

हे राम सिद्धलोकभोगादिफलमित्थं मद्वर्णितप्रकारेणैव कल्पनामात्रमस्तु । यदि
वा अन्यथा अन्यैर्मुनिभिर्वर्णितप्रकारेणान्यादृशमेव वास्तु । मैवाभूत्तथापि ते
जीवन्मुक्तस्य अत्र कः सम्भ्रम आदरः । फल्गुनि सिद्ध्यदिफले फलग्रहं
पुरुषार्थताबुद्धिं मुञ्च । यतस्त्वं ब्रह्मतत्त्वं बुद्धवानसि अतस्ते
मायामात्ररूपसिद्धलोकवैभवप्रिज्ञानश्रमैः कृतं अलम् । साध्यं
नास्तीत्यर्थः ॥ ३० ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० नि० उ० परमार्थोपदेशो
नामैकादशाधिकद्विशततमः सर्गः ॥ २११ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
परमार्थोपदेशो नामैकादशाधिकद्विशततमः सर्गः ॥ २११ ॥