२१०

दशाधिकद्विशततमः सर्गः २१०

श्रीवसिष्ठ उवाच ।

फले क्षयेन्दुभारूपे प्राप्ते ध्यातृशतैर्नभः ।
यथा न शतपूर्णेन्दु तथेदं कथनं शृणु ॥ १ ॥

इह वसिष्ठप्रश्नानां समाधानं निरूप्यते ।
तथा देहादिजगतः सुदृष्ट्या ब्रह्ममात्रता ॥

खेऽस्यामक्षयपूर्णेन्दुरिति ध्यायिचितैः फलैः । तुल्यकालमनुप्राप्तैः सहस्रेन्दु न
किं नभः इति प्रश्नस्योत्तरं तत्र प्रथमं श्रावयति - फले इत्यादिना ॥ १ ॥

चन्द्रबिम्बस्य ध्यातारः प्राप्ताः प्राप्तव्यसुस्थिताः ।
नेदं नभस्तलं प्राप्ता न चेमं शशिनं श्रिताः ॥ २ ॥

सत्यचन्द्रबिम्बस्याहम्भावेन ध्यातारः प्राप्तव्ये चन्द्रभावे
चिरध्यानेनान्यभावविस्मरणादैन्दवन्यायेन सुस्थिताः सन्तश्चन्द्रभावं प्राप्ता
एव तथापि नेदं नभस्तलं प्राप्ता नाप्येनं शशिनं श्रिताः । प्रविष्टा इत्यर्थः ॥
२ ॥

क्वेवान्यसङ्कल्पपुरमन्यः प्राप्नोति कथ्यताम् ।
सङ्कल्पपुर्यामर्थाप्तिस्तज्जन्तावेव नापरे ॥ ३ ॥

कुतो न प्राप्तास्तत्राह - क्वेवेति । अन्यसङ्कल्पपुरमन्यः प्राप्नोतीत्येतत्क्वेव कुत्र
दृष्टं दृष्टान्तीकृत्य प्रकृते शङ्क्यते । तज्जन्तौ तस्मिन् सङ्कल्पयितृजीवे एव
न परे जीवान्तरे दृष्टा ॥ ३ ॥

पृथक्पृथक्स्वसङ्कल्पसर्गेखेष्वेव ते स्थिताः ।
चन्द्रास्तपन्ति तत्रैव कलाक्षयविवर्जिताः ॥ ४ ॥

क्व तर्हि ते स्थितास्तत्राह - पृथगिति ॥ ४ ॥

विशेयमस्मिन्नेवेन्दाविति ध्यात्वा निशाकरे ।
अस्मिन्नेव विशत्यन्तरात्मबुद्धिसुखोज्झितः ॥ ५ ॥

अहमिन्दुं प्रविष्टः स्यामिन्दुबिम्बसुखान्वितः ।
ध्यातेति तादृक्सुखभाग्भवतीति विनिश्चयः ॥ ६ ॥

अस्मिन्नेव चन्द्रे ते सर्वे लाघवात्कुतो न प्रविष्टास्तत्राह - अहमिति । तैस्तु न तथा
ध्यातं किन्तु त्वत्प्रश्नानुसारात्खे स्यामक्षयपूर्णेन्दुरिति कामनया ध्यातमिति
भावः ॥ ६ ॥

यथायमनुसन्धत्ते स्वभावं संविदव्यया ।
तं तथैवानुभवति भवेच्चेद्दृढनिश्चयः ॥ ७ ॥

अन्यथाध्यानेऽन्यथाफलं कुतो न भवति तत्राह - यथेति । यथायं
स्वभावमयमनुसन्धत्ते दृढसङ्कल्पेन ध्यायति तं स्वभावमव्यया
साक्षिसंवित्तथैवानुभवति न वैपरीत्येनेत्यर्थः ॥ ७ ॥

यथेन्दुत्वं स्वसङ्कल्पात्सर्वध्यातुः पृथक्पृथक् ।
भात्येवमेव वनितालाभः काल्पनिकः स्वतः ॥ ८ ॥

अन्यच्च ध्यायिनां लक्षैर्ध्यातैका स्त्री यथाक्रमम् । जायात्वेन समं कालम् इति
प्रश्नोऽप्यनेनैव युक्त्या समाधेय इत्यतिदिशति - यथेति । स्वतः स्वस्य काल्पनिकः
कल्पनासिद्धः ॥ ८ ॥

या ध्याने ध्यातृलक्षाणां साध्वी भार्यात्वमागता ।
तत्कल्पनानुभवनं तेषां सत्त्वात्मनि स्थितम् ॥ ९ ॥

साध्व्यसाध्वी गृहे भर्तुः संस्थिता तपसा परा इति प्रश्नांशेऽप्ययमेव
समाधिरित्याह - येति । सत्त्वात्मनि अन्तःकरणोपहिते साक्षिणि ॥ ९ ॥

गृहादनिर्गतो जीवः सप्तद्वीपपरः स्थितः ।
तस्यापि तत्काल्पनिकं राज्यं व्योम्नि स्वमन्दिरे ॥ १० ॥

गृहानिर्गच्छमाकल्पं नृपः स द्वीपसप्तके इति प्रश्नोऽप्यनेन समाहित इत्याह ##-

समस्तं कल्पनामात्रमिदमाद्यज्ञजन्मनः ।
शून्यमप्रतिघं शान्तं तेष्वपि स्यात्किमन्यथा ॥ ११ ॥

यदा इदमस्मदादिदृश्यं जगदपि समस्तमाद्यस्य ज्ञजन्मन
औत्पत्तिकसार्वज्ञ्यवतो हिरण्यगर्भस्य कल्पनामात्रं तदा तेषु उपासककल्पितजगत्सु
किमन्यथा अन्यादृशं सत्यं स्याद्येनासमञ्जसता स्यादित्यर्थः ॥ ११ ॥

दानौर्ध्वदेहिकतपोजपादीनां परत्र यत् ।
अमूर्तानां फलं मूर्तं तदिदं कथ्यते शृणु ॥ १२ ॥

दानधर्मादितपसामौर्ध्वदेहिककर्मणाम् । इहस्थानाममूर्तानां मूर्तं
प्रेत्यास्ति किं फलम् इति प्रश्नमनूद्य तत्समाधानं वक्तुं प्रतिजानीते - दानेति ॥
१२ ॥

दानादिचिह्नितधियः परत्र स्वप्नवत्फलम् ।
पश्यन्त्यमूर्तामूर्ताभमजं चिन्मूर्तिकल्पनात् ॥ १३ ॥

चितैव मूर्त्याकारकल्पनात् ॥ १३ ॥

वेदनावेदनाकारा स्पन्दास्पन्दात्म वै पुनः ।
चिन्मात्रस्यास्य तद्भ्रान्तिशान्तौ शान्तात्म निर्मलम् ॥ १४ ॥

मनोज्ञानेन्द्रियैर्वेदनावेदनाकारा भ्रान्तिस्तया भ्रान्त्या विषयप्राप्तये
तच्चिन्मात्रं समनस्कैः कर्मेन्द्रियैः स्पन्दास्पन्दात्म सम्पद्यते । तद्भान्तिशान्तौ
तु निर्मलं शान्तात्मैवावतिष्ठते ॥ १४ ॥

चिन्मात्राभमितो दानादमुत्रात्तमवाप्नुयात् ।
सङ्कल्पात्मेति कवयः कथं तन्नोपलभ्यते ॥ १५ ॥

इत इहानुष्ठिताद्दानादमुत्र परलोके चिन्मात्राभं चित्प्रतिभासात्मकं
तत्तत्फलमात्तमुपनीतं तत्सङ्कल्पात्मा जीवः अवाप्नुयादिति कवयो वदन्तीति शेषः ॥
१५ ॥

कल्पनात्मनि संसारे सङ्कल्पोऽकृत्रिमं फलम् ।
चिन्मात्रमभितोऽदानाद्दानाद्वाऽस्तु यथोदितः ॥ १६ ॥

इतो दानाददानाद्वा अकृत्रिमः सङ्कल्प एव दानफलं भोगैश्वर्यादि अदानफलं
दारिद्र्यादि वा परलोकेऽस्तु न कश्चिद्विरोध इति सर्वासमञ्जसपरिहार इत्यर्थः ॥ १६ ॥

एतत्ते कथितं सर्वं यथापृष्टं महीपते ।
जगदप्रतिघं सर्वमिदं चिन्मात्रकल्पनम् ॥ १७ ॥

सर्वान्प्रश्नान्कण्ठतोऽर्थाच्च समाधाय जगतो ब्रह्मैव तत्त्वमित्युपसंहरति -
एतदिति ॥ १७ ॥

राजोवाच ।

सर्गादौ भगवन्देहमिदं चिन्मात्रकल्पनम् ।
कथं भाति कथं कुड्यं विना दीपः प्रकाशते ॥ १८ ॥

देहे एव चिदभिव्यक्तिदर्शनादनभिव्यक्तचिति भ्रान्त्याद्यदर्शनात्सर्गादौ
भ्रान्तिसिद्धौ देहसिद्धिस्तत्सिद्ध्या च भ्रान्तिसिद्धिरित्यन्योन्याश्रयं मन्यमानो राजा
पृच्छति - सर्गादाविति । चिन्मात्रं देहशून्यं चैतन्यं तत्कृतं
देहकल्पनं कथं भाति । देहं विना चित्प्रथाया
एवादर्शनात्कुड्याद्यनाश्रितदीपप्रभाप्रायत्वात्तदा चैतन्यस्येत्यर्थः ॥ १८ ॥

श्रीवसिष्ठ उवाच ।

त्वयार्थो देहशब्दस्य यो बुद्धः स महामते ।
तत्त्वज्ञं प्रति नास्त्येव शिलानृत्तमिवाम्बरे ॥ १९ ॥

न जडो देहश्चिदभिव्यञ्जक इति तत्त्वज्ञपक्षः । तद्दृष्टौ जडस्यैवाप्रसिद्धेः ।
ब्रह्म तु सर्वज्ञत्वात्सदैवाभिव्यक्तचैतन्यं देहादि सर्वं
कल्पयतीत्यशयेनोत्तरमाह - त्वयेत्यादिना ॥ १९ ॥

य एव ब्रह्मशब्दार्थो देहशब्दार्थ एव सः ।
नार्थयोरनयोर्भेदो विद्यतेऽम्ब्वम्भसोरिव ॥ २० ॥

अम्ब्वम्भसोरिवेति शब्दद्वयानुकरणत्वान्न विरूपाणामपि समानार्थानाम्
इत्येकशेषोऽसहप्रयोगोऽद्वन्द्वो वा ॥ २० ॥

यदेव ब्रह्मदेहोऽसौ स्वप्नाभः स्वप्न एष तु ।
त्वद्बोधायोच्यते युक्तिर्न तु तत्स्वप्न एव तु ॥ २१ ॥

स्वप्नाभोऽसौ देहो यद्ब्रह्म तदेव । ननु स्वप्नेऽप्यस्य न्यायस्य साम्याद्ब्रह्मत्वे
स्वप्नाभ इति भेदं सिद्धवत्कृत्य दृष्टान्तोक्तिः कथं तत्राह - त्वद्बोधायेति
॥ २१ ॥

स्वप्नस्तवानुभूतार्थस्तेनातस्त्वं प्रबोध्यसे ।
न तु सर्गे चिदाभाते सादृश्यं स्वप्नभस्मना ॥ २२ ॥

कथमस्य मद्बोधोपयोगस्तत्राह - स्वप्न इति । स्वप्नलक्षणेन भस्मना
बाधितार्थेन सह चिदात्मा आभाते सर्गे सादृश्यं न त्वस्तीत्यर्थः ॥ २२ ॥

कस्तत्र नाम देहोऽयं कस्यैते स्वप्नधीः क्व वा ।
स्वप्नेन ज्ञावबुद्धेन भ्रमेणाज्ञोऽवबोध्यते ॥ २३ ॥

कस्यैते स्वाप्नार्थाः ॥ २३ ॥

तत्र जाग्रन्न च स्वप्नो न सुषुप्तं न चेतरत् ।
किमपीत्थमिदं भानं खमात्रं मौनमोमलम् ॥ २४ ॥

ओमिति विराडादिपादत्रयप्रतिलयावशिष्टतुरीयोपदेशः । अलमिति तत्र
सर्वसाधनपुरुषार्थपर्याप्तिदर्शनम् ॥ २४ ॥

अभातमेव भातीव यदद्येत्थमिदं तु तत् ।
प्राग्विभातं तथात्यच्छं जाग्रत्स्वप्नादि नो यथा ॥ २५ ॥

यदद्येत्थं भातीव तदभातमेव प्राग्विभातमपि तथा । तथा च कदापि
जाग्रत्स्वप्नादि यथा नो नास्त्येव तथा अत्यच्छं ब्रह्मास्ति ॥ २५ ॥

देशाद्देशान्तरप्राप्तौ यन्मध्ये संविदो वपुः ।
तन्मयं सर्वमेवेदं द्वैतमद्वैतमेव च ॥ २६ ॥

देशादिति व्याख्यातम् । न्निर्विषयचिन्मात्रमयमित्यर्थः ॥ २६ ॥

अन्यत्र चिन्मयं स्वप्नं द्वैताद्वैतं शुभाशुभम् ।
निरावरणचिन्मात्रनभसैवोपमीयते ॥ २७ ॥

अज्ञदृष्टेरन्यत्र ज्ञदृष्टौ स्वप्नादि सर्वं चिन्मात्रनभसैवोपमीयते ॥ २७ ॥

शून्यमर्थोपलम्भश्च भानं चाभानमेव ।
द्वैतमैक्यमसत्सच्च सर्वं चिद्गगनं परम् ॥ २८ ॥

पूर्णात्पूर्णं प्रसरति पूर्णमेव स्थितं जगत् ।
न च भातं न चाभातं शिलाबद्धोदरोपमम् ॥ २९ ॥

स्फटिकशिलाया आबद्धं घनं यदुदरं मध्यं तदुपमम् ॥ २९ ॥

यतो जगच्चिदुन्मेषो व्योमात्माप्रतिघं ततः ।
चिन्मात्रं यत्र यत्रास्ति तत्र तत्रोचितं जगत् ॥ ३० ॥

उचितं स्थातुमिति शेषः ॥ ३० ॥

चिद्व्योम चास्ति सर्वत्र सर्वं चैतज्जगन्मयम् ।
सर्वं ब्रह्ममयं शान्तं जगदित्यपि शब्दितम् ॥ ३१ ॥

ब्रह्मैव ब्रह्ममयम् ॥ ३१ ॥

यथास्थितमिदं विश्वं तथासंस्थमनामयम् ।
ब्रह्मैव विरवद्यात्म चित्सङ्कल्पपुराकृति ॥ ३२ ॥

असम्भवादन्ययुक्तेर्युक्तिरेषैव शोभना ।
अयुक्त्यनुभवं तूक्तं नार्थिनामिह शोभते ॥ ३३ ॥

अर्थिनां पुरुषार्थेच्छूनां श्रोतॄणां पुरत इति शेषः ॥ ३३ ॥

लोके शास्त्रेऽथ वेदादौ यत्सिद्धं सिद्धमेव तत् ।
सदस्त्वसद्वात्मनि तद्धातुं शक्यं न वा क्वचित् ॥ ३४ ॥

मत्प्रमाणयुक्त्यनुभवसिद्धं तत्सिद्धमेव न हातुं शक्यम् । तथा च सदिति
वेदादिसिद्धं ब्रह्म तथैवाभ्युपगन्तव्यम् असदिति सिद्धं द्वैतं
तथैवाभ्युपगन्तव्यमित्यर्थः ॥ ३४ ॥

तदेवेत्थं परिज्ञातं ब्रह्मतामुपगच्छति ।
यदा तेन समं विश्वं स्थितमेव विलीयते ॥ ३५ ॥

तत्पूर्वमब्रह्मेति गृहीतं विश्वमित्थं परिज्ञातं ब्रह्मतामुपगच्छति । कदा ।
यदा तेन चरमसाक्षात्कारवृत्तिरूपेण ज्ञानेन समं स्थितमेव विलीयते तदा ॥ ३५ ॥

न्यायेनैतदिहोक्तेन लोकवेदादि सिध्यति ।
सर्वं स जीवन्मुक्तत्वमेष एवोचितस्ततः ॥ ३६ ॥

त्वयार्थो देहशब्दस्येत्यादिना एतदन्तेन मदुक्तेन न्यायेन सजीवन्मुक्तत्वं
जीवन्मुक्तिसहितं लोकवेदादि सर्वं जगदेतद्ब्रह्मैव सिध्यति तस्मादेष एव मदुक्तो
न्यायः परमपुरुषार्थोपायत्वादुपादातुमुचित इत्यर्थः ॥ ३६ ॥

परिज्ञातं चिदाकाशमपरिज्ञातपादपे ।
सोऽहं त्रिजगदित्येव बन्धमोक्षविनिर्णयः ॥ ३७ ॥

अस्मिन् अपरिज्ञातात्ममात्ररूपसंसारलक्षणे पादपेऽश्वत्थवृक्षे परिज्ञातं
चिदाकाशमेव न ततोऽन्यदणुमात्रमप्यस्ति सः अपरिज्ञातः परिज्ञातश्च
चिदाकाशोऽहमेव त्रिजगत् बन्धो मोक्षश्च पर्यायेणेति विनिर्णय इत्यर्थः ॥ ३७ ॥

यथास्थितमिदं दृश्यं परिज्ञानाद्विलीयते ।
तज्ज्ञस्यास्तङ्गतस्यैव शिलामौनं तु शिष्यते ॥ ३८ ॥

परिज्ञातमात्रत्वं कथं मोक्षस्तत्राह - यथास्थितमिति । तज्ज्ञस्य स्वरूपमिति
शेषः । दृश्यात्मना अस्तङ्गतस्य दृङ्मात्रं वागाद्यगम्यमवशिष्यत
इत्यर्थः ॥ ३८ ॥

लोके शास्त्रे च वेदे च यत्सिद्धं सिद्धमेव तत् ।
संवेद्यते तदेवातस्तदेवं फलति स्फुटम् ॥ ३९ ॥

लोके जीवन्मुक्तजने यत्सिद्धं विचारशतैः परिनिष्ठितं तदेव स्वानुभवेनापि
संवेद्यते । अतस्तदेवं परमपुरुषार्थभावेन फलति ॥ ३९ ॥

सकलार्थनिरासेन यद्यत्संवेद्यते चिरम् ।
तदेव प्राप्यतेऽवश्यं सर्वत्रैवान्यभावितम् ॥ ४० ॥

तत्प्राप्तावितरार्थमात्रत्यागेन तदेकनिष्ठतैवोपायस्तेन वावश्यं तत्प्राप्यत
इत्याह - सकलार्थेति । सर्वत्र लौकिकेऽपि कार्ये अन्यदपि भावितं तथैवेत्यर्थः ॥ ४० ॥

यथानुभूतं यत्तत्तत्तथा नामानुभूयते ।
तत्सत्यमस्त्वसत्यं वा यावल्लाभं तथा नु तत् ॥ ४१ ॥

तत्र लौकिककार्यमसत्यं मोक्षाख्यं तु सत्यमित्यवान्तरवैलक्षण्यमस्तु नाम
साधनोद्योगतत्फलानुभवे च न विशेष इत्याशयेनाह - यथेति ॥ ४१ ॥

इत्थं महाप्रश्नविचारणं ते मयेदमुक्तं मतिमन्महात्मन् ।
अनेन गच्छाशु पथा निराधिर्निरामयो निर्व्यसनो भवोच्चैः ॥ ४२ ॥

हे मतिमन् हे महात्मन् इत्थं मया ते महाप्रश्नानां विचारणं
विचारफलनिर्णयरूपं समाधानमुक्तम्। त्वमनेन पथा गच्छ । तेन आशु मनसि
निराधिर्देहे निरामय इन्द्रियेषु निर्व्यसनो भूत्वा उच्चैः सर्वोत्कृष्टो भवेत्यर्थः ॥
४२ ॥

इत्यार्षे श्रीवा० वा० दे० मो० नि० उ० द्वैतैक्योपलम्भनिरासेन
महाप्रश्नोत्तरवाक्यसमाप्तिर्नाम दशाधिकद्विशततमः सर्गः ॥ २१० ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
महाप्रश्नोत्तरवाक्यसमाप्तिर्नाम दशाधिकद्विशततमः सर्गः ॥ २१० ॥