२०९

नवाधिकद्विशततमः सर्गः २०९

श्रीवसिष्ठ उवाच ।

एकस्य जीवितं पुंसः सुहृदा मरणं द्विषा ।
मृत्वार्थितं प्रयागादौ क्षेत्रे यत्तदिदं शृणु ॥ १ ॥

युगपद्बोगसम्प्राप्तौ विरुद्धफलकर्मणाम् ।
अविरोधेन साफल्यमिह युक्त्या प्रसाध्यते ॥

प्रश्नश्लोकमेव प्रश्नानुवादार्थमुचार्य तेषामक्षराणां विनिमयेन
तत्समाधिं श्रावयति - एकस्येति ॥ १ ॥

क्षेत्राणामर्थधर्माणां सर्वेषां प्रति तं फलम् ।
ब्रह्मणा कल्पितं सर्गे स्वके सङ्कल्पपत्तने ॥ २ ॥

तं वक्ष्यमाणमधिकारिणं प्रति क्षेत्रादीनां सर्वेषां फलं ब्रह्मणा कल्पितं
सङ्कल्पेन समर्थितमादिसर्गे ॥ २ ॥

यत्र पुण्यं यदर्थं च क्षेत्रं ताभ्यां तथा कृतम् ।
यदि तद्विनियोज्यस्य तस्योन्नमति निष्कृतात् ॥ ३ ॥

यत्र सङ्कल्पपत्तने यदर्थं यस्याधिकारिणो वाञ्छितार्थसिद्ध्यर्थं कामप्रदं
प्रयागादिक्षेत्रं तत्रानुष्ठितं स्नानदानतपोयज्ञादिपुण्यं तथा ताभ्यां
कृतं संस्कृतं शरीरं च यदि शास्त्रविनियोज्यस्य पुरुषस्यास्ति तदा तस्य
पुरुषस्य निष्कृतादवश्यमत्र मदिष्टं फलं भविष्यतीति निश्चित्य
कृतात्प्रयागमरणादेः सकाशात्तत्कामितं फलमुन्नमत्याविर्भवत्येवेत्यर्थः ॥
३ ॥

तत्तस्मान्महतः पापाद्भागमेनोखिलं च वा ।
चितिशक्त्यात्म तत्पुण्यं परिभ्राम्योपशाम्यति ॥ ४ ॥

अस्तु कृतपुण्यस्यैवं पातकिनस्तु श्रद्धावतः प्रयागमरणादिपुण्यं किं करोति
तत्राह - तदिति । तस्मात्प्रयागादिमरणादुत्पन्नं ततो महतो ब्रह्महत्यादेः
पापादेकभागमखिलं सम्पूर्णमेनः पापं वा
क्षेत्रमाहात्म्यतारतम्यानुसारेण परिभ्राम्य निरस्य स्वयमप्युपशाम्यति ।
धर्मेण पापमपनुदति इत्यादिश्रुतेरिति भावः ॥ ४ ॥

विनेयपापमल्पं चेत्क्षेत्रधर्मोऽधिकस्ततः ।
तत्पापं नाशयित्वा तच्छब्द एव विवल्गति ॥ ५ ॥

विनेयस्य शास्यस्य पुंसः पापमल्पं चेत्ततः क्षेत्रार्जितो
धर्मोऽधिकश्चेन्निःशेषं तत्पापं नाशयित्वा तच्छब्दे श्रुत्यादिप्रतिपादिते फले
संशेन विवल्गति । काम्यफलमपि किञ्चित्साधयत्येवेत्यर्थः । यत्र तु विनेयस्य
शास्यस्य पुंसः क्षेत्रार्जितेन धर्मेण समबलं पापमस्ति तत्र तुल्यबलत्वादेव तेन
धर्मेण अपनेतुमशक्यस्यास्य पापस्य पुण्यस्य च भोगाय द्वे शरीरे तयोश्च द्वे
विदौ चिदाभासौ भ्रान्तिप्रतिभात्मिके कचतः ॥ ५ ॥

क्षेत्रधर्मेण तेनास्य विनेयस्य महीपते ।
द्वे शरीरे विदौ सम्यक्कचतः प्रतिभात्मिके ॥ ६ ॥

इत्येवमादिपापानां पुण्यानां च फलं महत् ।
ब्रह्मसङ्कल्पकचितं यथा यद्यत्तथैव तत् ॥ ७ ॥

यद्यद्यथा ब्रह्म सङ्कल्पकचितं तत्तत्तथैव व्यवस्थितमित्यर्थः ॥ ७ ॥

ब्रह्मोच्यतेऽसौ चिद्धातुः सोऽब्जजाद्यहमादि च ।
स यथास्ते तथा तत्तत्तस्य सङ्कल्पनं जगत् ॥ ८ ॥

ब्रह्मसङ्कल्पकचितमित्यत्र किं तद्ब्रह्म कथं वा तत्सङ्कल्पकचितं जगत्तदाह ##-
व्यष्टिसमष्ट्युपाधौ तस्य सङ्कल्पनं जगदपि तत्तथास्ते इत्यर्थः ॥ ८ ॥

प्रतिभैव विनेयस्य क्षेत्रपुण्येन तादृशी ।
तथैवोदेति सा धातुर्विपरीतवतो यथा ॥ ९ ॥

धातुः सङ्कल्पानुसारेणैव विनेयस्य क्षेत्रार्जितपुण्यानुसारेण तत्फलभोगात्मिका
प्रतिभैव स्वप्नवदुदेति । यथा पुण्यविपरीतपापवतो नरकादिप्रतिभोदेति तद्वत् ॥ ९ ॥

एकात्मनाहमद्यैष मृतोऽमी मम बन्धवः ।
रुदन्तीमे परं लोकं प्राप्तोऽयमहमेककः ॥ १० ॥

कीदृशी कीदृशी प्रतिभोदेति तामुल्लिख्य दर्शयति - एकात्मनेति । अहमद्य एक
एवात्मना मृतः अमी मम बन्धवः सर्वे जीवन्ति मद्र्थे रुदन्तीमे ॥ १० ॥

बन्धूनामपि तत्रैव तदैवास्य तथैव च ।
प्रतिभा तादृशैवेति धातुक्षोभवतामिव ॥ ११ ॥

एतदीयं मरणमिव बन्धूनामपि अस्य तत्र प्रसिद्धं
रोदनशवनिर्हरणश्मशानगमनदाहादिकं सर्वमपि धातुक्षोभवतां
सन्निपातक्षुब्धवातपित्तादिधातुमतां पुंसामिव तादृशी प्रतिभैवेति बोध्यम् ।
तादृशा इति कजन्तादाप्छान्दसः ॥ ११ ॥

अत्युग्रैः पुण्यपापैः स्वैर्वा महात्मभिरीक्षिते ।
लक्ष्याण्यप्यन्यथा सन्ति नृणां चित्कल्पनावशात् ॥ १२ ॥

यदा त्वत्युत्कटानि पुण्यानि पापानि वास्य सन्ति तदा तैः स्वैरेव
क्षुब्धैर्महात्मभिर्निग्रहानुग्रहदृष्ट्या ईक्षिते सति वा क्षुब्धैः परैर्लक्ष्याणि
अन्यथा परैरलक्ष्याण्यपि वा तत्फलानि शरीरादीनि चित्कलनावशात्सन्ति भवन्तीत्यर्थः
॥ १२ ॥

अचेतनं शवीभूतं तेऽपि पश्यन्ति तं मृतम् ।
रुदन्ति तं च दहने क्षिपन्ति सह बान्धवैः ॥ १३ ॥

ते जना अपि क्वचिदत्युत्कटैः पुण्यपापैस्तं विनेयं मृतं पश्यन्ति ॥ १३ ॥

विनेयः स यथान्येन संविद्रूपेण देहिना- ।
ऽजरामरणमात्मानं वेत्ति स्थितमदुःखितम् ॥ १४ ॥

एकस्य जीवितं पुंसः सुहृदा मरणं द्विषा । मृत्वार्थितं प्रयागादौ क्षेत्रे
तत्कथमुच्यताम् इत् प्रश्नं समाधत्ते - विनेय इत्यादिना । देहिना अजरामरणमिति
च्छेदः । सः सुहृद्द्विषोः कर्मभ्यां विनेय एकः पुरुषः अन्येन
स्नेहसंविद्रूपेण देहिना सुहृदा यथा प्रार्थितं तथा
स्थितमजरामरणमात्मानमदुःखितं वेत्ति ॥ १४ ॥

यथास्थितेन देहेन वेत्त्यसौ जीवितस्थितम् ।
मृतिं त्वदृश्येनान्येन क्षेत्रपुण्यविदेरितः ॥ १५ ॥

किं देहान्तरेण नेत्याह - यथास्थितेनेति । तर्हि कथं तद्द्विषो
मनोरथसिद्धिस्तत्राह - मृतिमिति । सुहृत्स्वजनैरदृश्येनान्येन देहेन
मृतिं वेत्ति । क्षेत्रे प्रयागादौ शत्रुमरणानुकूलपुण्यकृता द्विषा ईरितः ।
बलान्मरणाय प्रेरितः सन्नित्यर्थः ॥ १५ ॥

आविला संविदा संविच्छून्यया वेद्यते क्षणात् ।
न हि सन्नद्धगात्रस्य क्लेशोऽसन्नद्धभेदने ॥ १६ ॥

तत्र द्विषत्कृताभिचारादिप्रतीकारशून्यया विनेयविदा क्षणात्तत्कालमेव
मरणादिकं वेद्यते अनुभूयते । सन्न्नद्धगात्रस्य द्विषो वर्मायुधादिना
असन्नद्धगात्रस्य विश्वस्तस्य शरखड्गादिना भेदनेन हि क्लेशः ॥ १६ ॥

पश्यन्ति बन्धवोऽप्येनं तथैवामरतां गतम् ।
द्वयमित्येष लभते जीवितं मरणं समम् ॥ १७ ॥

इदमप्रतिघारम्भं भ्रान्तिमात्रं जगत्त्रयम् ।
न सम्भवति को नाम भ्रान्तौ भ्रान्तिविपर्ययः ॥ १८ ॥

अनेनैव न्यायेन सर्वे विरुद्धप्रश्नाः समाहिता बोध्या इत्याशयेनाह - इदमिति ।
भ्रान्तौ को वा भ्रान्तिविपर्ययः । एकभ्रमविरुद्धोऽपरो भ्रमः को वा न सम्भवति ।
स्वप्नसन्निपातादौ विरुद्धसहस्रस्यापि सहभावदर्शनादित्यर्थः ॥ १८ ॥

सङ्कल्पस्वप्नपुरयोर्या भ्रान्तिरनुभूयते ।
ततोऽधिकोऽयं [ततोऽधिकेयं न न्यूना जाग्रदिति पाठोऽत्रापेक्षितः ।] न
न्यूनाज्जाग्रत्स्वप्नेऽनुभूयते ॥ १९ ॥

तदेवाह - सङ्कल्पेति ॥ १९ ॥

राजोवाच ।

धर्माधर्मौ कथं ब्रह्मन्कारणं देहसंविदः ।
तस्यामूर्तौ कथं चैको द्विशरीरत्वमृच्छति ॥ २० ॥

धर्माधर्मावमूर्तौ द्वाविति प्रश्नमेव प्रकृतकथाक्षेपानुगुण्येन परिष्कृत्य
राजा पुनः पृच्छति - धर्माधर्माविति । तस्य धर्मस्य अधर्मस्य चामूर्तौ
मूर्तत्वाभावे द्विशरीरत्वं द्वितीयशरीरभावं ऋच्छति प्राप्नोति ॥ २० ॥

श्रीवसिष्ठ उवाच ।

सङ्कल्पनगरे ब्राह्मे जगत्यस्मिन्महामते ।
किं नाम नो सम्भवति सत्यं वाप्यसमञ्जसम् ॥ २१ ॥

धातुः सत्यसङ्कल्पः अमूर्तस्यापि मूर्ततां घटयितुं समर्थ
इत्याशयेनोत्तरमाह - सङ्कल्पनगरे इति ॥ २१ ॥

यथैव सङ्कल्पपुरे यन्न सम्भवतीह हि ।
तन्नास्त्येव तदेतस्मिन्किं वाऽस्तु ब्रह्मकल्पने ॥ २२ ॥

स्वप्नसङ्कल्पपुरयोरेको गच्छति लक्षताम् ।
तहा चैकैव चित्स्वप्ने सेनात्वमुपगच्छति ॥ २३ ॥

सहस्राण्येकतां यान्ति तथा सैव सुषुप्तकम् ।
अन्यथा स्वप्नसङ्कल्पसेनानुभवसंस्मृतौ ॥ २४ ॥

सा स्वप्नसेनैवेकं सुषुप्तकं भवति स्वप्नसङ्कल्पानुभूतसेनायाः स्मृतौ
समूहरूपतया एकाकारे इदमिति स्थाने तदिति कल्पनेन चान्यथानुभवं भवतीति
सर्वानुभवसिद्धमित्यर्थः ॥ २४ ॥

सङ्कल्पस्वप्नपुरयोरिति को नानुभूतवान् ।
संविदाकाशमात्रेऽस्मिञ्जगत्यनुभवात्मनि ॥ २५ ॥

तस्मादस्मिंश्चिदाकाशसङ्कल्पे जगदात्मनि ।
न सम्भवति किं नाम तत्सम्भवति वापि किम् ॥ २६ ॥

उपसंहरति - तस्मादिति ॥ २६ ॥

एवमेवमियं भ्रान्तिर्भाति भास्वन्नभोमयम् ।
नेह किञ्चन सन्नासन्न वाशदिह किञ्चन ॥ २७ ॥

न वा आ सत् ईषत्सत् सदसदित्यर्थः ॥ २७ ॥

यथानुभूयते यद्यत्तत्तथा तत्त्वदर्शिनः ।
प्रबुद्धस्यात्र किं नाम तत्स एवाङ्गतेत्यलम् ॥ २८ ॥

प्रबुद्धस्य अत्र किं नाम असमञ्जसमिति शेषः ॥ २८ ॥

इह चेद्विहितो धर्मस्तत्स्वर्गेऽमृतपर्वताः ।
स्थिता इतीह सङ्कल्पे कस्मान्न प्राप्तवान्गिरीन् ॥ २९ ॥

धर्माधर्मानुष्ठायिनोऽपि जनाः शास्त्रकृतस्वस्वनिश्चयानुसारिस्वर्गानेव
प्राप्नुवन्तीत्याह - इह चेदिति । अमृता देवास्तदुपभोग्याः
अमृतरसनिर्झरह्रदफलपुष्पादिपूर्णाश्च पर्वताः स्वर्गे स्थिताः सन्तीति
शास्त्रतोऽवगम्य तदनुसारिसङ्कल्पे सति तत्र गत्वा तादृशगिरीन्प्राप्तवान् स्वात्मानं
कस्मान्नानुभवतीत्यर्थः ॥ २९ ॥

इह यत्क्रियते कर्म तत्परत्रोपभुज्यते ।
इतीह सङ्कल्पपुरे सर्वमेवासमञ्जसम् ॥ ३० ॥

यदि तु मिथ्यात्वादसमञ्जसमिति ते बुद्धिस्तर्ह्ययं लोकस्तत्र धर्माद्यनुष्ठानं
तेन परलोकस्तत्र भोगश्चेत्येतत्स्र्वमेव जगदसमञ्जसमेवेत्याह - इहेति । इह
जगति ॥ ३० ॥

यदि स्यात्सुस्थिरं किञ्चिद्वस्तु तद्दृश्यको भवेत् ।
न्याय एषोऽखिलः किन्तु संवित्त्वात्स्वस्वकं स्थितः ॥ ३१ ॥

यदि जगति किञ्चिद्भूतभुवनादिवस्तु सुस्थिरं सत्यं स्यात् तत्रायं विरोधो दृश्यको
भवेत् तदा एष इदं समञ्जसमिदमसमञ्जसमित्येष न्यायोऽखिलः अकुण्ठितः स्यात्
किन्तु सर्वोपि द्रष्टा संवित्त्वात्स्वस्वकं सङ्कल्पनमेव दृश्यकः स्थितो न
वास्तवमित्यर्थः ॥ ३१ ॥

इत्येष कथितो न्यायः सिद्धास्वनुभवस्ततः ।
यतो जगन्ति सङ्कल्पश्चितो ब्रह्मस्वरूपतः ॥ ३२ ॥

इत्येषोऽस्माभ्रासमञ्जस्यपरिहारन्यायोऽपि स्वप्नसङ्कल्पसिद्धासु कल्पनासु
अनुभवः सर्वानुभवानुसारी स्थितो जगत्स्वपि योज्यः । यतो जगन्त्यपि ब्रह्मस्वरूपतः
स्थितायाश्चितः सङ्कल्प एव ॥ ३२ ॥

तव सङ्कल्पनगरे नास्त्येवासम्भवो यथा ।
सर्वार्थानां तथा ब्राह्मे सङ्कल्पे नास्त्यसम्भवः ॥ ३३ ॥

तदेवाह - तवेति ॥ ३३ ॥

यद्यथा कल्पितं तत्र यावत्सङ्कल्पमेव् तत् ।
स्वभावेन तथैवास्ति यतस्तत्सन्निवेशवत् ॥ ४४ ॥

यद्यद्यथा तत्र ब्राह्मसङ्कल्पे कल्पितं तत् तादृशसन्निवेशवत्तथा
स्वभावेनास्ति ॥ ३४ ॥

ततः सम्प्रेक्षणमिह सङ्करो न प्रवर्तते ।
विनान्यच्चित्प्रयत्नेन भवत्यर्थस्तु नान्यथा ॥ ३५ ॥

ततस्तादृशसन्निवेशस्वभावनियमादेव ज्ञानेन्द्रियैः सर्ववस्तूनां
सम्यगविसंवादितया प्रेक्षणं प्रवर्तते । कर्मेन्द्रियव्यवहारे सङ्करश्च न
प्रवर्तते । पूर्वचित्प्रयत्नेन कृतनियतसन्निवेशोऽर्थः अन्यचित्प्रयत्नेन विना अन्यथा
च न भवति । चार्थे तुः ॥ ३५ ॥

आकल्पमजसङ्कल्पे यथा भातं जगत्स्थितम् ।
पुनरन्येन सङ्कल्परूपेणान्यदुपैष्यति ॥ ३६ ॥

आकल्पमाप्रलयं यथा अजसङ्कल्पे भातं तथैव स्थितं पुनः प्रलयानन्तरमन्यत्
ब्रह्माण्डान्तरम् ॥ ३६ ॥

सङ्कल्पात्म स्वयं भाति कल्पे कल्पे जगत्तथा ।
प्रतिजीवं चितिस्वप्ने स्वप्ने स्वाप्नपुरं यथा ॥ ३७ ॥

सङ्कल्पपत्तनतनोर्न तदस्ति किञ्चिद्यद्यन्न सम्भवति तच्च चिदात्मनोऽस्मात् ।
नान्यत्प्रकम्पयितुराद्यपरस्वरूपाद्ब्रह्मैव तेन सकलं जगदङ्ग विद्धि ॥
३८ ॥

सङ्कल्पपत्तनतनोरस्य जगतो यन्न सम्भवतीति मन्यसे तन्नास्ति सर्वं सम्भवत्येव
तच्च प्रकल्पयितुरस्माच्चिदात्मनो नान्यत् तेन हेतुना जगद्ब्रह्मैव विद्धीत्यर्थः ॥ ३८ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वा० उ० महा०
सर्वास्तित्वानुभूतिदर्शनं नाम नवाधिकद्विशततमः सर्गः ॥ २०९ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे निर्वाणप्रकरणे उत्तरार्धे
सर्वास्तित्वानुभूतिदर्शनं नाम नवाधिकद्विशततमः सर्गः ॥ २०९ ॥